
Sign up to save your podcasts
Or


कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्यायनियमानाम् उल्लङ्घनं केनापि कर्तुं न शक्यते' इति अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a young prince ordered the judge to release his companion from imprisonment. After several arguments in the court, the prince was punished by the court with a one-day imprisonment for showing disrespect, disrupting the proceedings, and displaying arrogance. The king then said, 'In a kingdom where fearless and impartial judges exist, the people live in happiness. No one can violate the laws of justice'.
पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं मारितवान् । राजकुमारः एव स्वशावकं मारितवान् इति विचिन्त्य सा चटका चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती । स्वपुत्रस्य राजकुमारस्य दोषं ज्ञात्वा यद्यपि सः राजा चटकायाः अपराधं क्षान्तवान् तथापि परस्परविरोधः यत्र स्यात् तत्र वासः अनुचितः इति मत्वा चटका देशान्तरं गन्तुम् इष्टवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Devadatta, who understood bird language, would converse with a sparrow in his palace garden. One day, the prince killed the sparrow's chick in anger. In revenge, the sparrow caused the prince to lose his eyesight. Although the king forgave the sparrow, the sparrow felt it was inappropriate to live in a place of mutual conflict and decided it was best for her to leave the kingdom.
बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्वा स्वव्यथाम् अकथयत् । सः साधुमहाराजः राजमन्दिरं गत्वा - 'स्वयं मुक्तः एव बद्धं मोचयितुं शक्नुयात् । यः स्वयं न धनमुक्तः, क्रोधमुक्तः, कामनामुक्तः वा सः कथम् अन्यं मोचयितुं शक्नुयात्' इति केनचित् प्रयोगेण प्रतिपादयति । लज्जितः खिन्नः सः पण्डितः आत्मानं बन्धमुक्तं कर्तुं साधनां प्रारभत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
For many years, a scholar would narrate teachings to the king for an entire hour each day. However, the king's anger and other negative traits remained unchanged, and he could not gain self-control. Troubled by this, the scholar went to a wise person and shared his distress. The wise person went to the palace and through an example explained the importance of self-liberation. Realizing this, the scholar felt ashamed and began working on freeing himself from these attachments.
षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभिजानीहि' इति वदति । गच्छता कालेन नक्षत्रवीक्षणं तस्य स्वभावः जातः । प्रौढत्वे प्राप्ते नक्षत्रवीक्षणाय सः एकं दूरवीक्षकं सज्जिकृत्य नक्षत्राणां ग्रहाणां च गतेः अध्ययनम् आरब्धवान् । कालान्तरे सः 'श्रेष्ठः खगोलविज्ञानी' जातः । तस्य नाम गेलिलियो इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In 16th-century Italy, a young boy asked his grandmother to show him his mother, who had passed away. One day, the grandmother took him outside and said, "Your mother is now among the countless stars in the sky. You will understand this as you grow." The boy became interested in stars, and as he grew, he built a telescope to study the stars and planets. Eventually, he became known as the famous astronomer, Galileo.
कदाचित् केनचित् राज्ञा दत्तानि दुकूलवस्त्राणि गुरुः भिक्षुकं निर्गतिकावस्थायां दृष्ट्वा तस्मै अयच्छत् । अग्रे कदाचित् राज्ञा दत्तं सुवर्णकङ्कणं पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवते राजास्थानस्य उद्योगिने अयच्छत् । एतत् ज्ञात्वा राजा एवं किमर्थं कृतवान् इति गुरुं पृच्छति । गुरुः वदति - ‘दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागः । कृतस्य दानस्य विषये पृच्छन् अस्ति इत्यतः दानफलं न प्राप्स्यति' । गुरोः वचोभिः स्वदोषं विज्ञाय राजा गुरुं क्षमां प्रार्थयत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the king gave silk clothes as a present to his Guru. The Guru, seeing a beggar in need, gave the clothes to him. Later, the king gave a gold bangle to the Guru, but the Guru gave it to one of the king’s royal servants who was facing difficulties for his daughter’s wedding. When the king learned of this, he asked the Guru why he had acted this way. The Guru replied, ‘To give is to completely give up ownership of what is given. If you ask about a donation, you won't receive its full benefit’. Understanding his mistake, the king apologized to the teacher.
जर्मन्देशीयः महाभौतविज्ञानी 'कार्ल् फेडरिक् गास्' बाल्ये कदाचित् मुख्योपाध्यायेन दत्तस्य प्रश्नस्य उत्तरं निमेषद्वयाभ्यन्तरे ददाति । प्रश्नः आसीत् - ‘एकतः शतपर्यन्तं लिखित्वा सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः' इति । कथम् उत्तरं प्राप्तवान् इति पृष्टे फेडरिक् वदति - ‘आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तरं तृतीयायाः अन्त्यात् पूर्वस्याः पूर्वस्याः च योजनं कृतम् । एतस्मात् प्राप्तानां पञ्चाशत् युगलानां सङ्कलनं १०१ X ५० = ५०५० । एतत् सर्वं मया मनसि एव कृतम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The German scientist Carl Friedrich Gauss, as a child, once answered a question from his teacher in just two minutes. The question was - ‘Write the numbers from one to a hundred and find their sum’. When asked how he found the answer, Gauss said, ‘First, I paired the first and last numbers (1+100), then the second and second last (2+99), and so on. This gave me 50 pairs, each summing to 101. So, 50 × 101 = 5050. I did all this mentally’.
महावीरः नाम नरपतिः गान्धारदेशं पालयति स्म । विवेकिभिः उच्यते - ‘कालम् अवेक्ष्य एव नृपजनान् हितम् अहितं वा उपदेष्टव्यम् । अन्यथा उपदेष्टॄणाम् एव अपायः सम्भवेत्' इति । तत् सत्यम् इति अनया कथया ज्ञायते । को वा नृपम् उपदिष्टवान् ? उपदेशानन्तरं किं प्राचलत् इत्यादयः विषयाः अस्यां कुतूहलकारिकथायां विद्यन्ते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Mahavir ruled the land of Gandhara. The wise say, "A king should only be advised at the right time, or it may lead to harm for the advisors themselves." This is indeed true, as the story reveals. Who gave this advice to the king? What happened after the advice was given? These are some of the intriguing questions in the story.
कस्मिंश्चित् गुरुकुले गुरुदक्षिणारूपेण किं देयम् इति यदा विद्यार्थिनः गुरुं पृच्छन्ति तदा गुरु वदति - यत् अधीतं तस्य सम्यक् अनुष्ठानं क्रियताम् । स्वावलम्बितया जीवनं कृत्वा वर्षाभ्यन्तरे यत् सम्पाद्येत तत्र कश्चन भागः दीयताम्' । विद्यार्थिनः तथैव कुर्वन्ति । कदाचित् कश्चित् तेजस्वी बालः वर्षाभ्यन्तरे प्रत्यागत्य दश बालान् आनीय - 'यथाशक्ति मया पाठयित्वा एताः भवच्छिष्यार्हताः कृताः। इतः परं भवान् एतान् अध्याप्य सन्मार्गगामिनः कुर्यात्' इत्युक्त्वा गुरुदक्षिणारूपेण अर्पयति। एतया सर्वश्रेष्ठगुरुदक्षिणया सन्तुष्टः गुरुः तं बालं सर्वषु शिष्येषु श्रेठः अस्ति भवान् इति वदति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, when students asked their guru what to give as guru dakshina, the guru said, ‘Practice what you've learned, earn through your own efforts, and give part of it as guru dakshina after a year’ and the students did the same. After a year, a bright student returned with ten others, saying, ‘I have taught them as best as I could. Now, you guide them’ and offered this as his guru dakshina. The guru, pleased, said, ‘You are the best among all my students’.
कदाचित् बुद्धस्य प्रवचनं श्रोतुं वैशालीतः कश्चित् वणिक आगतः । तस्य मनसि सुमुत्पन्नं प्रश्नं बुद्धं प्रति निवेदयति यत् प्रतिदिनं निर्वाणप्राप्तिविषयं श्रोतुं बहवः जनाः आगच्छन्ति किन्तु तेषु कति जनाः निर्वाणमार्गानुयायिनः स्युः इति । तदा बुद्धः उत्तरं ददाति - ‘उपदेशः मम कर्तव्यं, तत् श्रद्धया करोमि । निर्वाणस्य प्राप्तिः अप्राप्तिः वा तत्तस्य प्रयत्नं विकासं च अवलम्बते' । अग्रे किञ्चित् सुन्दरम् उदाहरणं स्वीकृत्य बुद्धः वणिजम् अवगमयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a merchant from Vaishali came to listen to the Buddha’s teachings. He asks a question to Buddha: ‘Every day many people come to listen to teachings about attaining Nirvana, but how many of them actually follow the path to Nirvana?’ Buddha replied, ‘It is my duty to give teachings, and I do so with faith. Whether one attains Nirvana or not depends on their own efforts and progress’. Then, the Buddha gave a beautiful example to help the merchant understand better.
पूर्वम् असमराज्ये चण्डीचरणतर्कालङ्कारः नाम विद्वान् स्वगृहे एव छात्रान् अध्यापयति स्म । बाल्ये एव पतिविहीना जाता पुत्री द्रवमयी पितुः गृहम् आश्रित्य संस्कृताध्ययने प्रवृत्ता, अल्पे एव काले अपूर्वं पाण्डित्यं प्राप्तवती च । कालान्तरे वार्धक्यस्य अस्वास्थ्यस्य च कारणतः पिता गुरुकुलस्य पिधानं चिन्तितवान् । किन्तु द्रवमयी तत् निराकृत्य स्वयमेव अध्यापनम् आरब्धवती । सा तत् उत्तरदायित्वं सम्यक् एव निरुह्य गुरुकुलस्य गौरवं वर्धितवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Assam, a scholar named Chandicharan Tarkalankar used to teach his students at his home. His daughter, Dravamayi, who was widowed early in life, came to live in her father's house. She began studying Sanskrit, and within a short time, she gained exceptional knowledge. Later, due to her father's old age and poor health, he thought of closing the school. However, the girl rejected this idea and decided to take up teaching herself. She took on the responsibility and successfully increased the reputation of the school.
From the publisher's feed