बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • मन्दस्मितता कुतः न ?

    कश्चन बौद्धाचार्यः बुद्धप्रतिमां कारयितुम् इच्छन् प्रत्येकं गृहतः धनसङ्ग्रहं कुर्वन्तु इति शिष्यान् आदिशति । धनसङ्ग्रहसमये काचित् बाला शिष्याय एकं रूप्यकं दातुम् इच्छति किन्तु सः उपेक्षया पश्यन् ततः गच्छति । शिल्पिभिः महता प्रयासेन निर्मितायाः मूर्तेः मुखे प्रसन्नता तु न दृष्टा । बौद्धगुरुः ज्ञातवान् यत् कश्चन शिष्यः निर्धनबालातः अल्पत्वात् एकं रूप्यकं न स्वीकृतवान् इति ।  बालातः रूप्यकनाणके स्वीकृते अल्पेन कालेन एव प्रतिमा प्रसन्नाकृतिः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A Buddhist teacher, wanting to make a Buddha statue, instructed his disciples to collect money from every household. While collecting money, a young girl wanted to give one rupee coin to a disciple, but he ignored her and left. Despite the great effort of the sculptors, the statue’s face did not show any happiness. The teacher later learned that one of the disciples had not accepted the silver coin from the poor girl because it was a small amount. After the coin was accepted from the girl, the statue's face became joyful in a short time.

    5 min
  • सङ्कल्पमात्रेण किम् ?

    कस्मिंश्चित् गुरुकुले बहुधा स्मारितं चेदपि पञ्चषाः छात्राः तत्तदिनस्य पाठं तद्दिने एव न पठन्ति स्म । तथापि गुरुः तान् न अतर्जयत् । कदाचित् गुरुः नदीतीरे सञ्चरन् दर्शयति यत् त्रिषु मण्डूकेषु एकः जलं प्रति कूर्दनं करणीयम् इति सङ्कल्पमात्रं करोति न तु कूर्दनम् । यस्य सङ्कल्पः दृढः सः एव कार्ये प्रवृत्तः भवेत् । तत्तदिनस्य पाठं तत्तदिने एव पठित्वा तस्य मननं कुर्यात् । अनन्तरदिनतः ते शिष्याः अध्ययने श्रद्धां प्रदर्शितवन्तः प्रगतिं च साधितवन्तः।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    At a certain Gurukul, five students did not study properly. However, the Guru did not scold them. One day, while walking by the river, the Guru showed them that out of three frogs, one only thought about jumping into the water but never actually did it. The Guru explained that only when the intention is strong, does the action happen. He advised the students to study the lesson that day itself and reflect on it. From then on, the students became more serious about their studies and made progress.

    5 min
  • समयोचिता युक्तिः

    कदाचित् मरुप्रदेशे कश्चन स्पेन्-देशीयः वञ्चनया भारतीयस्य अश्वं हृत्वा तम् आरुह्य वेगेन गतवान् । भारतीयः कथञ्चित् स्पेनीयस्य दुर्बलम् अश्वम् आरुह्य स्पेनीयम् अनुसरन् समीपवर्तिग्रामं प्राप्य तत्रत्य न्यायाधीशं दृष्ट्वा स्पेनीयस्य दुष्कृत्यं सर्वं निवेदितवान् । न्यायाधीशेन पृष्टे सः स्पेनीयः आरोपं निराकरोति । तावता चतुरेण भारतीयेन काचित् युक्तिः प्रदर्शिता स्पेनीयः असत्यवादी इति निरूपितं च । भारतीयस्य बुद्धिमत्तां चातुर्यं च दृष्ट्वा न्यायाध्यक्षः सहर्षं तं प्रशस्य अश्वं तस्मै अदापयत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, a Spaniard stole an Indian's horse in the desert and rode away quickly. The Indian, riding a weaker horse, followed the Spaniard and reached a nearby village. There, he told the local judge about the Spaniard's crime. When the judge asked the Spaniard, he denied the accusation. However, the Indian cleverly showed that the Spaniard was lying. Impressed by the Indian's intelligence, the judge happily praised him and returned the horse.

    6 min
  • गुणैः एव शोभते जनः

    कदाचित् सम्भाषणावसरे मगधदेशस्य राजा चन्द्रगुप्तः प्रधानामात्यं चाणक्यं दृष्ट्वा पृच्छति - ‘रूपमेव प्रशस्यते लोके । रूपवेषादिकं दृष्ट्वा एव खलु आदरम् अनादरं वा दर्शयन्ति जनाः ?’ । तदा चाणक्यः सुवर्णमृदोः घटे जलं संपूर्य आदौ सुवर्णघटस्य जलं राज्ञे ददाति यत् उष्णम् आसीत् । तावता राज्ञा अवगतं यत् सुन्दरे स्वर्णघटे अपि स्थितं जलम् उष्णम्, असुन्दरे मृद्घटे स्थितं जलं च शीतलम् । तथा जनाः‌ गुणैः शोभन्ते न तु सौन्दर्येण इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, King Chandragupta of the Magadha kingdom asked his chief minister Chanakya, 'Why is beauty praised in the world? People show respect or disrespect based on appearance alone, don’t they?' Then, Chanakya filled a golden pot and a clay pot with water. He first gave the water from the golden pot to the king and then from the clay pot. The king understood that although both pots contained water, the water in the beautiful golden pot was warm, while the water in the plain clay pot was cool. Similarly, people are admired for their qualities, not just their outward beauty.

    4 min
  • आशयः तु इत्थम्

    कदाचित् शिष्यः आनन्दः प्रसङ्गत्रयविषये वर्तमानां जिज्ञासां परिहर्तुं भगवन्तं बुद्धं पृच्छति - ‘भगवान् अस्ति इति कदाचित् वदति । भगवतः‌ पूजा मास्तु इत्यपि वदति । भगवतः अस्तित्वस्य विषये यदा कश्चन शिष्यः प्रष्टुम् आगतः तदा भवान् किमपि उत्तरं न ददाति । किमर्थम् एवम् ?’ इति । तदा बुद्धः यथाक्रमं तस्य प्रश्नस्य उत्तरं यच्छति
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, disciple Anand, who was curious about three related matters, asked the Buddha to clear his doubts. He said, 'Lord, sometimes you say that God exists. At other times, you say that God should not be worshiped. When another disciple came to ask about the existence of God, you did not give any answer. Why is this?' Then, the Buddha, in due course, gave a response to his question.

    4 min
  • विलक्षणम् वाक्पाटवम्

    कदाचित् बाबरः तेनालिरामस्य बुद्धेः परीक्षणार्थं स्वस्य आस्थानं प्रति तं निमन्त्रितवान् । विभिन्नैः कौतुकैः निजवार्ताभिश्च तत्रत्यान् सभासदः हासयितुं स असमर्थः अभवत् यतः बाबरेण आज्ञा कृता आसीत् यत् कोऽपि न हसेत् इति ।  एवमेव पञ्चदशदिनानि अतीतानि । किन्तु अन्ते तेनालिरामः तस्य वाक्पाटवं साधितवान् । कथम् इति इयं कथा कथयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, Babur invited Tenalirama to his court to test his intelligence. Despite the various jokes and news from his homeland, Tenalirama was unable to make the court members laugh, as Babur had ordered that no one should laugh. Thus, fifteen days passed in this manner. However, in the end, Tenalirama managed to outwit the king. This is the story of how it happened.

    5 min
  • विचित्रोपकरणम्

    पूर्वकाले यदा सर्वत्र दर्पणः व्यवाहारे न आसीत् तदा कदाचित् कण्णदासनामा कश्चित् वणिक् कुतश्चित् दर्पणम् एकं प्राप्तवान् । स्वस्यैव प्रतिबिम्बम् इति अज्ञात्वा कस्यचित् महापुरुषस्य भवेदिति विचिन्त्य सः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं दृष्ट्वा तं महापुरुषं नत्वा पेटिकायां स्थापयति स्म । पत्न्याः रोहिण्याः मनसि सन्देहे जाते कदाचित् कण्णदासस्य निर्गमनस्य अनन्तरं प्रकोष्ठं प्रविश्य दर्पणे महिलामुखं दृष्ट्वा, पतिः अन्यां सुन्दरीं कन्याम् अत्र स्थापितवान् इति मत्वा सा नितरां कुपिता । पतिपत्न्योः मध्ये कलहे जाते कश्चित् संन्यासी आगत्य स्वस्य मुण्डितं मस्तकं दृष्ट्वा तौ अवगमयति यत् एतत् प्रतिबिम्बप्रदर्शकं वस्तु इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Long ago, when mirrors were not commonly used, a merchant named Kannadasa found a mirror. Not knowing it was his own reflection, believing that it might be the reflection of some great person, he started bowing to it in his room with the door closed. His wife, Rohini, began to have doubts. One day, after Kannadasa left the room, she entered and saw the reflection of a woman's face in the mirror. Thinking her husband had placed another beautiful young woman there, she became extremely angry. A dispute arose between the husband and wife, and just then, a wandering sage arrived and explained to them that the object showing the reflection was simply a mirror.

    4 min
  • भक्तः कुलशेखरः

    चेरराज्यस्य राजा ईश्वरभक्तः कुलशेखरः प्रतिदिनं हरिकथां श्रावयितुं कमपि पण्डितं स्वकीयप्रासादम् अनाययति स्म । एतत् अनिच्छन्तः राज्ञ्यः अमात्यः च मिलित्वा श्रीरामविग्रहस्थं हारं पण्डितस्य स्यूते स्थापयन्ति । कालसर्पदंशः एव दण्डः इति घोषयित्वा कालसर्पयुक्ते घटे यदा पण्डितः हस्तं निक्षेप्तुम् उद्युतः तावता राजा स्वयं हस्तं प्रवेशितवान् । विस्मयः‌ नाम राज्ञः करस्पर्शनेन सर्पः‌ स्वयं बहिः आगतवान् । न तु दष्टवान् । सः राजा अनन्तरकाले 'भक्तः कुलशेखरः' इति ख्यातः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Kulashekhara, the king of the Chera kingdom, a devotee of God and a noble person, would invite a scholar to his palace every day to listen to stories about the Lord. However, some of the king's ministers and queens, not wanting this, secretly placed Lord Shrirama’s idol's necklace in the scholar’s bag. They announced that the punishment for the scholar was to place his hand in a pot that contained a serpent. Just as the scholar tried to place his hand inside, the king himself placed his hand in the pot first. To everyone’s amazement, the serpent came out of the pot without biting the king. Later, the king became famous as Bhakta Kulashekhara.

    5 min
  • आहो, साहसम्

    इङ्ग्लेण्ड्देशे केण्ट्नामकस्य प्रदेशस्य समुद्रतीरे महतः चण्डमारुतस्य कारणेन काचन बृहती नौका पीड्यमाना नुद्यमाना भग्नप्राया अभवत् । समुद्रतीरस्य जनसम्मर्दे केनचित् महनीयेन सह पालितः कश्चन बलशाली अप्रतिमशूरः धीरश्च शुनकः आसीत् । शुनकस्य स्वामी किञ्चित् चिन्तयित्वा नौकारक्षणाय एकम् उपायं कृत्वा शुनकं प्रेषयति । शुनकस्य साहाय्येन सर्वे नाविकाः तीरं प्राप्नुवन्ति । कथम् इति जिज्ञासया कथां शृणुमः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In the country of England, at a place called Kent, a large ship was severely damaged and almost destroyed due to a great storm. On the shore, there was a powerful and brave dog. After thinking for a while, the dog's owner devised a plan to save the ship and sent the dog for help. With the dog's assistance, all the sailors were able to reach the shore safely. Now, we will hear the story of how this happened.

    6 min
  • कूपः कस्य ?

    काचन वृद्धा गृहस्य पार्श्वे स्थितस्य कूपस्य जलम् आनीय दैनन्दिनकार्याणि निर्वर्तयति स्म । भैरवनामा कश्चन दुष्टः वृद्धायाः‌ कूपः मदीयः इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान् । खिन्नया वृद्धया राज्ञि निवेदिते कथं राजा चातुर्येण न्यायनिर्णयं करोति इति शृणुमः । तेनैव राज्ञा रणजितसिंहेन अमृतसरसि सुवर्णालयः निर्मितः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    There was a well near an old woman’s house. She used the water from the well to carry out her daily tasks. A wicked man named Bhairav claimed that the well belonged to him and started using it. The troubled old woman informed the king, and we will listen to the story of how the king, with his wisdom, made a just decision. This is the king, Ranajit Singh, who built the Golden Temple at Amritsar.

    6 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।