बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • निर्मीयतां चिकित्सालयप्रकोष्ठः

    जनपदचिकित्सालयस्य पुरतः उपविश्य शाकविक्रयणं करोति काचित् वृद्धा बिन्नीबाई इति । चिकित्सालये स्थलाभावात् सञ्चारभूमौ शयनं कुर्वतः रोगिणः दृष्ट्वा सन्तापम् अनुभवन्ती सा मुख्यवैद्याधिकारिणं रोगिणां व्यवस्थां कल्पयितुं शक्यते वा इति पृच्छति । धनाभावात् सर्वकारः प्रकोष्ठनिर्माणे अनासक्तः इति ज्ञात्वा सा स्वस्य ग्रामभूमिं विक्रीय, सञ्चितं धनमपि संयोज्य दशलक्षं रूप्यकाणि वैद्याय ददाति । ततः महता वेगेन प्रकोष्ठनिर्माणं जातं, 'बिन्नीबाई वार्ड्' इति नाम्ना निर्दिष्टं च ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    An old woman named Binnibai sitting in front of a hospital selling vegetables, sees patients lying on the ground because there is not enough space and feels sorry for them. She asks the chief doctor if it’s possible to provide better accommodation for them. The doctor tells her that the government can’t build new rooms because of a lack of money. So, Binnibai decides to sell her land and donates ten lakh rupees to help. With her donation, a new ward was built and named 'Binnibai Ward' in her honour.

    4 min
  • तीक्ष्णतमम् उत्तरम्

    सिकन्दरः यदा भारते क्रमणाय उद्यतः तदा तदीयः गुरुः अरिष्टाटलः उक्तवान् यत् भारतीयानां संन्यासिनाम् आशीर्वादं प्राप्य प्रत्यागच्छेत् इति । कदाचित् दण्डयात्रावसरे दश संन्यासिनः सिकन्दरेण प्राप्ताः । तान् दृष्ट्वा सिकन्दरः - ‘अहं प्रश्नान् पृच्छामि । यस्य उत्तरं तीक्ष्णतमम् अस्ति तं हनिष्यामि' इति । ततः किं भवति, कः संन्यासी तीक्ष्णम् उत्तरं ददाति, सिकन्दरः हनिष्यति वा इति सर्वं कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    As Alexander was getting ready to go to India, his teacher, Aristotle, advised him to take blessings of the Indian sages before returning back. Once, during his journey, Alexander met ten sages. Seeing them, he said, 'I will ask questions and whoever gives the sharpest answer, I will kill'. Then, what happened? Which sage gave the sharpest answer and did Alexander carry out his threat? Listen to the whole story to find out.

    5 min
  • वास्तविकः आनन्दः

    कदाचित् अमेरिकादेशे वेदान्तविचारप्राचारसमये काचित् पुत्रशोकम् अनुभवन्ती माता स्वामिनं रामतीर्थं दृष्ट्वा विलुप्तस्य आनन्दस्य पुनःप्राप्तेः मार्गं यदा अपृच्छत् तदा स्वामी समीपस्थम् अनाथबालकं दर्शयन् तं स्वपुत्रं मत्वा पालयेत् इति उक्तवान् । तद्विषये सुदीर्घायाः चर्चायाः अनन्तरं सा महिला अङ्गीकृतवती आनन्दमपि प्राप्तवती । निर्धनानाम् अनाथानां च सेवातः एव वास्तविकः आनन्दः प्राप्येत इति अवगतवती च ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    During the period of teaching Vedanta in America, a mother, who was grieving the loss of her son, asked Swami Ramateertha for advice on how to find joy again. Swami showed her an orphaned child nearby and advised her to adopt and care for him, saying, 'Take him as your son and raise him’. After a long discussion, the woman adopted the orphan and found joy. She also understood that true happiness comes from serving the poor and the orphaned.

    4 min
  • गुरौ प्राप्ते

    कदाचित् केनचित् तरुणेन शिष्यत्वेन स्वीकर्तुं गुरुः प्रार्थितः । शताधिकाः शिष्याः आश्रमे सन्ति इत्यतः तन्निराकरोति गुरुः । यत्किमपि कार्यं करोमि इति यदा वदाति तदा पाकशालायां पेषणादिकार्यं कुरु इति गुरुः वदति । बहूनां वर्षाणाम् अनन्तरं यदा गुरोः अन्तिमकालः सन्निहितः, शिष्यान् अहूय प्राप्तस्य शिक्षणस्य सारं लिखन्तु इति गुरुः वदति । आगच्छन्तु शृण्मः यत् शिष्याः किं किं अलिखन् ? अपि च सः पेषणकार्यनिरतः शिष्यः किं अलिखत् येन गुरुः सन्तुष्टः भूत्वा तमेव आश्रमस्य उत्तराधिकारिणम् अकरोत् इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A young man requested to become a disciple, but the teacher, already having many disciples, refused. The young man insisted and was assigned kitchen work. Years later, as the teacher's end neared, he asked the disciples to write the essence of his teachings. One disciple, who had worked in the kitchen, wrote something that pleased the teacher, who then made him the heir to the ashram.

    4 min
  • अज्ञानं दुःखकारकम्

    कस्मिंश्चित् वने कश्चित् तक्षकः वृक्षान् कर्तयित्वा, तान् ज्वालयित्वा, कृष्णाङ्गारान् निर्माय विक्रयणं करोति स्म । गच्छता कालेन वनं समाप्तं गतम् । तक्षकः नृपेण मिलित्वा स्वसमस्यां यदा निवेदितवान् तदा राजा महानगरात् बहिः रक्षितं स्वचन्दनवनं तक्षकाय दत्तवान् । चन्दवृक्षस्य मूल्यम् अजानन् सः तक्षकः पूर्ववत् तान् दग्ध्वा कृष्णाङ्गाराणां निर्माणं कृत्वा विक्रयणम् अकरोत् । राजा तस्य अज्ञानं ज्ञात्वा चन्दनखण्डमेकं विक्रेतुम् उक्तवान् । दशसहस्रपरिमितं मूल्यं यदा लब्धं तदा एव तस्य मूल्यं कियत् इति तक्षकः अवागमत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In a forest, a carpenter chopped down trees, set them on fire, made charcoal, and sold them. Over time, the forest was completely depleted. When the carpenter told the king about his problem, the king gave him a sandalwood forest outside the city to use. The carpenter, unaware of the value of sandalwood, again burned the trees to make charcoal. The king, realizing the carpenter's ignorance, asked him to sell a single piece of sandalwood. When the carpenter received ten thousand coins for it, he understood the true value of the wood.

    5 min
  • चिन्तनमात्रात् न हानिः

    कश्चन शिष्यः गुरुं पृच्छति यत् - सर्वदा निषिद्धानां एव वस्तूनां स्मरणं भवति । किं करणीयम् इति ? तदा गुरुः वदति -  'निषिद्धविषायाणां चिन्तनमात्रेण न कापि हानिः भवति । किन्तु पुनः पुनः‌ स्मरणात् तेषु प्रवृत्तिः भवेत् इत्यतः सद्विषयाः एव चिन्तनीयाः । तदर्थं सत्कार्येषु प्रवृत्तिः अधिका भवेत् । सद्ग्रन्थान् सच्चरित्राणि च पठनीयानि । सज्जनानां सहवासः अधिकतया करणीयः । एतस्य सर्वस्य कारणतः सर्वदा मनसि सद्विचाराः एव उत्पद्येरन् ' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A disciple asked his teacher, ‘Why do we always remember the things we shouldn't? What should we do?’ The teacher replied, ‘Simply thinking about forbidden things doesn't cause harm, but thinking about them again and again can lead to actions. So, focus on good things. Do good deeds. Read good books and stories of noble people. Spend time with good people. By doing this, good thoughts will come to your mind’.

    4 min
  • विचिन्त्य वक्तव्यम्

    वचनानि कागदखण्डाः इव एव भवन्ति । एकस्य मुखात् निर्गताः‌ ते अन्येषां मुखानि कथं प्राप्नुवन्ति इत्यस्य अवगमनमेव दुष्करम् । अत एव यस्य विषयस्य पूर्णज्ञानं अस्माकं न स्यात् तस्य विषये असमीचीनं वचनं कदापि न वक्तव्यम् । एतत् सर्वम् इयं कथा निरूपयति । कथं कस्यचन वृद्धस्य असत्यकथनेन युवकस्य कारागारवासः अभवत् । अन्ते कथं सः वृद्धः स्वदोषम् अवगत्य क्षमायाचनां करोति इति शृण्मः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Words are like pieces of paper. Once they leave someone's mouth, it is difficult to know how they reach others. Therefore, if we do not have complete knowledge of a subject, we should never speak wrongly about it. This story illustrates this. In the story, an old man’s false statement led to a young man’s imprisonment. In the end, the old man realizes his mistake and seeks forgiveness.

    5 min
  • योगी वृद्धः च

    पूर्वं कश्चन योगी अष्ट अपि सिद्धीः प्राप्य अद्भुतकार्याणि प्रदर्शयन् जनेषु महत् आश्चर्यं जनयति स्म । कदाचित् सः 'तिरुवल्लिक्केणी'  प्रदेशम् आगत्य मार्गे भूमौ खननं कृत्वा सस्यस्य मूलभागम् उपरि कृत्वा पर्णादियुक्तं भागं गर्ते वपन्तं कञ्चन वृद्धं दृष्ट्वा कीदृशः मूढमतिः त्वम् ?  इति पृच्छति । तदा वृद्धः - 'अष्ट सिद्धीः आप्तवान् अपि भवान् क्षुल्लकसिद्धिप्रदर्शनेन जनान् वञ्चयन् कालं यापयति'  इति वदति । झटिति सः योगी वृद्धस्य पादौ गृहीत्वा साष्टाङ्गनमस्कारं कृत्वा शिष्यत्वेन स्वीकर्तुं प्रार्थितवान् । सः वृद्धः एव 'पेयाल्वार्' , योगी च 'तिरुमलिसै आल्वार्'  इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, a yogi, having attained eight siddhis, performed miraculous acts that amazed people. One day, he visited the region of ‘Tiruvallikeni’ and while walking along the road, saw an old man digging a hole in the ground, placing the roots of a plant on top, and placing the leaf part in the hole. The yogi asked him, ‘What foolish act are you doing?’ The old man replied, ‘You have attained eight siddhis, yet you seem to be deceiving people with such minor tricks’. Hearing this, the yogi immediately bowed down, held the old man's feet, and requested to be accepted as his disciple. The old man was none other than Peyalwar, and the yogi was none other than Tirumalisa Alwar.

    5 min
  • आत्मसाक्षात्काराय अर्हता

    आत्मसाक्षात्काराय अपि काचित् अर्हता अपेक्षते इति इयं कथा दर्शयति । कश्चन साधकः आत्मसाक्षात्कारं प्राप्तुम् इच्छन् कञ्चन माहात्मानं मार्गदर्शनं प्रार्थयते । महात्मा प्रतिवर्षं तं परीक्ष्य पुनः जपकरणार्थं प्रेषयति । वर्षत्रयानन्तरं सः साधकः परीक्षायाम् उत्तीर्णतां प्राप्य आत्मसाक्षात्काराय अपेक्षितां योग्यतां निरूपयति । तदनन्तरं सः महात्मा साधकं ब्रह्मस्वरूपादिकं बोधयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    This story shows that self-realization requires certain qualities. A seeker wants to achieve it and asks a sage for guidance. Every year, the sage tests him and sends him for meditation. After three years, the seeker passes the tests and proves his worthiness. The sage then teaches him about the true self and Parabrahman.

    4 min
  • अहो गतिः कष्टदेयम् !

    कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चतुर्णां धैर्यं च्युतं जातम् । एकैकेन एकैकं वाक्यम् एव उक्तम् । वस्तुस्थितिं ज्ञातवती बुद्धिमती राज्ञी तेषां वाक्यानां विवरणं कृत्वा भ्रातॄन् रक्षति । कार्यसमाप्तेः अनन्तरं राज्ञी तान् अहूय वदति – ‘स्वशक्त्यनुगुणं किमपि कृत्वा जीवन्तु भवन्तः' इति । चत्वारः अपि लज्जया शिरः‌ अवनमय्य ग्रामं प्रति गतवन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A storyteller father passed away, leaving his four uneducated sons. The king arranged for them to narrate a story, but upon seeing the royal court, the brothers lost their courage and spoke only one sentence each. The wise queen defended them by explaining their words. Afterward, she advised them, ‘Live according to your abilities". Embarrassed, the brothers returned to their village.

    6 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।