
Sign up to save your podcasts
Or


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
अपर्याप्तम्, तत्, अस्माकम्, बलम्, भीष्माभिरक्षीतम्।
पर्याप्तम्, तु, इदम्, एतेषाम्, बलम्, भीमाभिरक्षितम्॥
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम्। इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति)।
यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमितम् असमर्थं। पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति।
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।
भवान्, भाष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः ।
अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥
भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीनिताः ।
नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥
नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
न केवलम् एतावन्तः, अन्येऽपि बहवः मदर्थे प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥
अस्माकम्, तु, विशिष्टाः, ये, तान्, निबेध, द्विजोत्तम ।
नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥
द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि।
हे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञार्थं तेषां नामानि अहं स्मारयामि ।
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।
दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा।
आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत्॥
तदा तु व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्।
तदा व्यूहरूपेण स्थापितं पाण्डवानां सैन्यं दृष्ट्वा दुर्योधनः गुरोः द्रोणाचार्यस्य समीपं गत्वा इदं वचनम् अवदत्।
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।
पश्य, एताम्, पाणहुपु्त्राणाम्, आचार्य, महतीम्, चमूम्।
व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता॥
आचार्य! तव धीमता शिष्येन द्रुपतपुत्रेण व्यूढां पाण्डुपुत्राणां महतीं एतां चमूं पश्य।
भोः आचार्य! चतुरेण तव शिष्येण धृष्टद्युम्नेन पाण्डवानां महत् सैन्यमिदम् व्यूहरूपेण स्थापितम् अस्ति। इदं पश्य।
श्रीमद्भगवद्गीता
अथ प्रथमोद्यायः
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1.1॥
धर्मक्षेत्रे, कुरुक्षेत्रे, समवोताः, युयुत्सवः ।
मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय ॥
सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाः मामकाः पाण्डवाः च किम् अकुर्वत ?
‘हे सञ्जय ! मत्पुत्राः पाण्डुपुत्राश्च युद्धं कर्तुं उत्सुकाः सन्तः धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वत ?’ इति धृतराष्ट्रः सञ्जयम् अप्रच्छत् ।
http://www.samskritabharatiusa.org/index.php/bhagavad-gita-online-classes
॥ भगवद्गीतायाः व्याख्यानं भगवद्भाषया श्रोतुं सुवर्णावसरः ॥
अध्यापकः – Dr. पद्मकुमारमहोदयः
श्लोकपठनम्, पदच्छेदः, पदसंस्कारः, प्रतिपदार्थः, आकाङ्क्षापद्धत्या अन्वयक्रमः, तात्पर्यं च । सरलसंस्कृतेन संस्कृतपठनं गीतापठनं च ।
From the publisher's feed