Chandra Stotra चन्द्र स्तोत्र ★
श्वेताम्बर: श्वेतवपु: किरीटी,
श्वेतद्युतिर्दण्डधरो द्विबाहु: ।
चन्द्रो मृतात्मा वरद: शशांक:,
श्रेयांसि मह्यं प्रददातु देव: ।।1।।
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्।।2।।
क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: ।
हरस्य मुकुटावास: बालचन्द्र नमोsस्तु ते ।।3।।
सुधायया यत्किरणा: पोषयन्त्योषधीवनम्।
सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम्।।4।।
राकेशं तारकेशं च रोहिणीप्रियसुन्दरम् ।
ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ।।5।।
इति मन्त्रमहार्णवे चन्द्रमस: स्तोत्रम् ।।