Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Jamdagni Krit Shiv Stotram जमदग्नि कृत शिव स्तोत्रम्


Listen Later

Jamdagni Krit Shiv Stotram जमदग्नि कृत शिवस्तोत्रं •
ईश त्वां स्तोतुमिच्छामि सर्वथा सतोतुमक्षमम् I
अक्षराक्षरबीजं च किं वा स्तौमि निरीहकम् II १ II
न योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः I
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः II २ II
बुद्धेर्वाग्मनसोः पारं सारात्सारं परात्परम् I
ज्ञानबुर्द्धेरसाध्यं च सिद्धं सिद्धैर्निषेवितम् II ३ II
यमाकाशमिवाद्यन्तमध्यहीनं तथाव्ययम् I
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् II ४ II
ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् I
त्राहि मां करुणासिन्धो दीनबन्धोSतिदीनकम् II ५ II
अद्य मे सफ़लं जन्म जीवितं च सुजीवितम् I
स्वप्रादृष्टं च भक्तानां पश्यामि चक्षुषाधुना II ६ II
शक्रादयः सुरगणाः कलया यस्य सम्भवाः I
चराचराः कलांशेन तं नमामि महेश्वरम् II ७ II
यं भास्करस्वरूपं च शशिरूपं हुताशनम् I
जलरूपं वायुरूपं तं नमामि महेश्वरम् II ८ II
स्त्रीरूपं क्लीबरूपं च पुंरूपं च बिभर्ति यः I
सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् II ९ II
देव्या कठोरतपसा यो लब्धो गिरिकन्यया I
दुर्लभस्तपसां यो हि तं नमामि महेश्वरम् II १० II
सर्वेषां कल्पवृक्षं च वाञ्छाधिकफ़लप्रदम् I
आशुतोषं भक्तबन्धुं तं नमामि महेश्वरम् II ११ II
अनन्तविश्वसृष्टीनां संहर्तारं भयकरम् I
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् II १२ II
यः कालः कालकालश्च कालबीजं च कालजः I
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम् II १३ II
इत्यवमुक्त्वा स भृगुः पपात चरणाम्बुजे I
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः II १४ II
जामदग्न्यकृतं स्तोत्रं यः पठेद् भक्तिसंयुतः I
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति II १५ II
II इति श्री ब्रह्मवैवर्तपुराणे गणपतिखण्डे जामदग्न्यकृतं श्रीशिवस्तोत्रं संपूर्णं II
...more
View all episodesView all episodes
Download on the App Store

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersBy Rajat Jain

  • 5
  • 5
  • 5
  • 5
  • 5

5

2 ratings


More shows like Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

View all
The Rich Roll Podcast by Rich Roll

The Rich Roll Podcast

11,873 Listeners

SuprabhTam by QUALISO INDIA

SuprabhTam

2 Listeners

Buddhism Guide Meditations by Yeshe Rabgye

Buddhism Guide Meditations

14 Listeners

Huberman Lab by Scicomm Media

Huberman Lab

29,186 Listeners

3 Minute Mantra with Aaralyn Shiri by Aaralyn Shiri

3 Minute Mantra with Aaralyn Shiri

3 Listeners

8 Hour Sleep Music by 8 Hour Sleep Music

8 Hour Sleep Music

327 Listeners

Vishnu Devotional Songs by Rajshri Entertainment Private Limited

Vishnu Devotional Songs

0 Listeners