Kaivalya Ashtakam कैवल्य अष्टकम् ★
मधुरं मधुरेभ्योऽपि मंगलेभ्योऽपि मंगलम् ।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ।।1।।
आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुन: सत्यं हरेर्नामैव केवलम् ।।2।।
स गुरु: स पिता चापि सा माता बांधवोऽपि स: ।
शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ।।3।।
नि: श्वासे न हि विश्वास: कदा रुद्धो भविष्यति ।
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ।।4।।
हरि: सदा वसेत्तत्र यत्र भागवता जना: ।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ।।5।।
अहो दुखं महादुखं दुखाद् दुःखतरं यत: ।
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ।।6।।
दीयतां दीयतां कर्णो नीयतां नीयतां वच: ।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ।।7।।
तृणीकृत्य जगत्सर्वं राजते सकलोपरि ।
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ।।8।।