Linga Utpatti Stavan लिंगोत्पत्ति स्तवन ★
अनादि देव देवेश ! विश्वेश्वर ! महेश्वर !
सर्वज्ञ ! ज्ञानविज्ञान प्रदायक ! नमोऽस्तुते ॥
अनन्तकान्ति संपन्न अनंतासन संस्थित |
अनन्तशक्ति सम्भोग परमेश नमोस्तुते ॥
परावरपरातीत ! उत्पत्तिस्थितिकारण ! |
सर्वार्थ साधनोपाय ! विश्वेश्वर ! नमोऽस्तुते ॥
बहुरुप ! महारुप ! सर्वरुप ! नमोऽस्तुते ! । पशुपाशार्णवातीत ! वरप्रद नमोऽस्तुते ||
स्वभाव निर्मलाभोग ! सर्वव्यापिन् सदाशिव ! ।
योगयोगिन्महायोगिन् योगेश्वर ! नमोऽस्तुते ॥ जिह्वा चपलभावेन वेदितव्योऽसि यन्मया तत् क्षन्तव्यमनौपम्य ! कस्ते स्तौति गुणार्णवम् ॥ लिङ्गोत्पत्तिस्तवं पुण्यं यः श्रुणोति नरस्सदा नोत्पद्यते स संसार स्थानं प्राप्नोति शाश्वतम् ॥ तस्मात्सर्व प्रयन्तेन शृणुयाद्वाचयेत्तथा
पाप कञ्चुकमुसृज्य प्राप्नोति परमं पदम् ॥
लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेश संमितम्
समाधि स्तोत्र सम्पनौ द्दष्टयन्तौ शिवात्मकौ।।
नैव तत्काञ्चनं रौप्यं ताम्रं स्फाटिक मौक्तिकम् लक्षमात्रस्थितं शान्तं केवलं तच्छिवात्मकम् ॥ तयोऽस्तुष्टौ महादेवो प्रददौ वरमुत्तमम् । कारणत्वमनुक्त्वा च तत्रैवान्तरधीयत || ★