■Mahalakshmi Ashtakam महालक्ष्मी अष्टकम् ■
नमस्तेsस्तु महामाये श्रीपीठे सूरपुजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोsस्तुते ॥ १ ॥
नमस्ते गरूडारूढे कोलासूर भयंकरी ।
सर्व पाप हरे देवी महालक्ष्मी नमोsस्तुते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोsस्तुते ॥३ ॥
सिद्धीबुद्धिप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोsस्तुते ॥ ४ ॥
आद्यंतरहिते देवी आद्यशक्ति महेश्वरी ।
योगजे योगसंभूते महालक्ष्मी नमोsस्तुते ॥ ५ ॥
स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महापाप हरे देवी महालक्ष्मी नमोsस्तुते ॥ ६ ॥
पद्मासनस्थिते देवी परब्रह्मस्वरूपिणी ।
परमेशि जगन्मातर्र महालक्ष्मी नमोsस्तुते ॥ ७ ॥
श्वेतांबरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मार्त महालक्ष्मी नमोsस्तुते ॥ ८ ॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धिं वाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
॥इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥