Padmavati Kavacham पद्मावती कवचम् ★
भगवन् ! सर्वमाख्यातं, मंत्रं यंत्रं शुभप्रदम् ।
पदमायाः कवचं ब्रूहि, यद्यहं तव वल्लभा ।।1।।
महागोप्यं महागुह्यं पद्मायाः सर्वकामदम् ।
कवचं मोहनं देवि ! गुरुभक्ताय दीयते 11211
राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् ।
गुरुभक्ताय दातव्यमन्यथा सिद्धिदं नहि ||3||
ऐं बीजं, क्लीं शक्तिः हसौ कीलकम् पद्मावती - प्रीत्यर्थं जपे विनियोगः ।
ॐ पद्माबीजं शिरः पातु, ललाट पंचमी परा ।
नेत्रे कामप्रदा पातु मुखं भुवनसुन्दरी ।।4।।
नाभिकां नागनाथश्च जिह्वां वागीश्वरी तथा ।
श्रुतिरूपा जगद्धात्री, करौ हृतं हिमवासिनी 11511
उदरं मोहदमनी, कुण्डली नाभिमण्डलम् ।
पार्श्व पृष्टं कटि गुह्य शक्ति स्थान निवासिनी 11611
उरुजुंघे तथा पादौ सर्वविघ्नविनाशिनी ।
रक्ष रक्ष महामाये ! पद्म । पद्मालये ! शिवे ! 117।।
वांच्छितं पूरयत्वाशु पद्मा सा पातुः सर्वतः ।
इदं तु कवचं देव्या यो जानाति च मंत्रवित 11811
राजद्वारे श्मशाने च भूतप्रेतोपचारिके ।
बन्धने च महादुःखे भये शत्रुसमागमे ||9||
स्मरणात्कवचस्यास्य भयं किंचिन्न जायते ।
प्रयोगमुपचारं च पद्मायाः कर्त्तुमिच्छति ।।10।।
कवचं प्रपठेदादौ ततः सिद्धिमवापुयात् ।
भूर्जे पत्रे लिखित्वा तु कवचं यस्तु धारयेत् ।।11।।
देहे च यत्रकुत्राऽपि सर्वसिद्धिर्भवेद् ध्रुवम् ।
शस्त्राग्निजं भयं नैव, भूतादिभयनाशनम् ।।12।।
गुरुभक्तिं समासाद्य पद्मायाः स्तवनं कुरु । सहस्रनामपठने कवचं प्रथमं कुरु 111311
नन्दिना कथितं देवि तवाग्रे तत् प्रकाशितम्
सांगता जायते देवि । नान्यथा गिरिनन्दिनी ।।14।। !
इदं कवचमज्ञात्वा पद्मायाः स्तौति यो नरः ।
कल्पकोटिशतेनाऽपि न भवेत सिद्धिदायिनी ।।15।।
|| इति श्री रुद्रयामले पद्मावतीकवचं सम्पूर्णम् ।