Radha Krishna Stotra राधा कृष्ण स्तोत्र •
वन्दे नवघनश्यामं पीतकौशेयवाससम्
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।
राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥
राधानुगं राधिकेष्टं राधापहृतमानसम् ।
राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥
राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम्
राधासहचरं शश्वत् राधाज्ञापरिपालकम् ॥ ४ ॥
ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्चयम् । तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५ ॥
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।
नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ६ ॥
यः सृष्टेरादिभूतं च सर्वबीजं परात्परम्
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ७ ॥
नानावताराणां सर्वकारणकारणम्
वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ८ ॥
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।
गन्धर्वेण कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः
इहैव जीवन्मुक्तश्च परं याति परां गतिम् ॥ ९ ॥
हरिभक्तिं हरेर्दास्यं गोलोकं च निरामयम्
पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १० ॥ •