Rin Vimochan Ganesha Stotram ऋण विमोचन गणेश स्तोत्रम् ◆
सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १ ॥
त्रिपुरस्यवधात्पूर्वं शम्भुना सम्यगर्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २ ॥
हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३ ॥
महिषस्यवधे देव्या गणनाथः प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४ ॥
तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५ ॥
भास्करेण गणेशोहि पूजितश्च विशुद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६ ॥ शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७ ॥
पालनाय च तपसां विश्वामित्रेण पूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८ ॥
इदं ऋणहरं स्तोत्रं तीव्रदारिद्र्यनाशनं
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९ ॥
दारिद्र्यं दारुणं त्यक्त्वा कुबेर समतां व्रजेत्
पठन्तोऽयं महामन्त्रः सार्थ पञ्चदशाक्षरः ॥१० ॥
श्री गणेशं ऋणं छिन्दि वरेण्यं हुं नमः फट्
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११ ॥
एकविम्शति सङ्ख्याभिः पुरश्चरणमीरितं
सहस्रवर्तन सम्यक् षण्मासं प्रियतां व्रजेत् ॥१२ ॥
बृहस्पति समो ज्ञाने धने धनपतिर्भवेत्
अस्यैवायुत सङ्ख्याभिः पुरश्चरण मीरितः॥१३॥
लक्षमावर्तनात् सम्यग्वाञ्छितं फलमाप्नुयात्
भूत प्रेत पिशाचानां नाशनं स्मृतिमात्रतः ॥१४ ॥
इति श्रीकृष्णयामल तन्त्रे उमा महेश्वर संवादे ऋणहर्तृ गणेश स्तोत्रं समाप्तम् ॥ ◆