Shri Hanumat Panchratnam श्री हनुमत पंचरत्नम् •
वीताखिल-विषयेच्छं जात
आनन्दाश्र पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजम
अद्य भावये हृदयम ॥१॥
तरुणारुण मुख-कमलं करुणा-
रसपूर-पूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुल -
महिमानमञ्जना - भाग्यम् ॥२॥
शम्बरवैरि-शरातिगमम्बुज
दल-विपुल-लोचनोदारम् ।
कम्बुगलम अनिलदिष्टम् बिम्ब -
ज्वलितोष्ठम एकम अवलम्बे ॥३॥
दूरीकृत-सीतार्तिः प्रकटी
कृत-रामवैभव-स्फूर्तिः ।
दारित - दशमुख- कीर्तिः पुरतो
मम भातु हनुमतो मूर्तिः ॥४॥
वानर-निकराध्यक्षं दानवकुल-
कुमुद - रविकर - र - सदृशम्
दीन- - जनावन - दीक्षं पवन
तपः पाकपुञ्जमद्राक्षम् ॥५॥
एतत् - एतत्पवन-सुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६ ॥
•
इति श्रीमच्छंकर - भगवतः कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥