Surya Grahan Shanti Parihar सूर्य ग्रहण शान्ति परिहार ★
शान्ति श्लोकाः –
इन्द्रोऽनलो दण्डधरश्च रक्षः प्राचेतसो वायु कुबेर शर्वाः ।
मज्जन्म ऋक्षे मम राशि संस्थे सूर्योपरागं शमयन्तु सर्वे ॥
★
ग्रहण पीडा परिहार ★
योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः ।
सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ १
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ।
चन्द्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥२
यः कर्मसाक्षी लोकानां यमो महिषवाहनः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ३
रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः उग्रः
करालो निऋतिः ग्रहपीडां व्यपोहतु ॥ ४
नागपाशधरो देवः सदा मकरवाहनः ।
वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ ५
यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ६
योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः ।
चन्द्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ ७
योऽसौ शूलधरो रुद्रः शङ्करो वृषवाहनः ।
चन्द्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ ८
ॐ शान्तिः शान्तिः शान्तिः ।