Vatapi Ganpatim Bhajeham वातापि गणपतिं भजेहं ◆
वातापि गणपतिं भजेऽहं
वारणाश्यं वरप्रदं श्री ।
भूतादि संसेवित चरणं भूत भौतिक प्रपञ्च भरणम् ।
वीतरागिणं विनुत योगिनं विश्वकारणं विघ्नवारणम् ।
पुरा कुम्भ सम्भव मुनिवर प्रपूजितं त्रिकोण मध्यगतं
मुरारि प्रमुखाद्युपासितं मूलाधार क्षेत्रस्थितम् ।
परादि चत्वारि वागात्मकं प्रणव स्वरूप वक्रतुण्डं
निरन्तरं निखिल चन्द्रखण्डं निजवामकर विद्रुतेक्षुखण्डम् ।
कराम्बुज पाश बीजापूरं कलुषविदूरं भूताकारं
हरादि गुरुगुह तोषित बिम्बं हंसध्वनि भूषित हेरम्बम् ।
◆