
Sign up to save your podcasts
Or


काचित् दरिद्रा महिला कृष्णभक्ता आसीत् । रोगग्रस्तस्य पत्युः चिकित्सायैः सर्वं धनं व्ययीकृतम् आसीत् तया । कृष्णजन्माष्टमीदिने विशेषभोजनं सज्जीकरिष्यामि इति पुत्रान् उक्तवती आसीत् । तस्याः दृढविश्वासः आसीत् यत् देवः कमपि मार्गं दर्शयिष्यति इति । वस्तूनि क्रेतुं यदा आपणं गतवती तदा निर्धनां तां महिलां 'देवस्य कृते लिखितं प्रार्थनापत्रं तुलायां स्थापयतु, अहं तद्भारतुल्यानि वस्तूनि ददामि' इति नास्तिकः आपणिकः उपहासम् अकरोत् । आश्चर्यं नाम वस्तुसहितः घटः अधः न गतः एव । यः वास्तविकः भक्तः तस्य रक्षणं भगवान् करोत्येव इति अचिन्तयत् आपणिकः। अनन्तरं देवस्य परमभक्तः अभवत् सः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a poor woman who was a devotee of Krishna. She had spent all her money on her husband's treatment. On the day of Krishna Janmashtami, she told her children that she would prepare a special meal. She had a strong belief that God would show her a way. When she went to the shop to buy items, a non-believer shopkeeper mocked her saying, ‘Place the prayer letter written for God on the scale and I will give you items equivalent to its weight’. To everyone's amazement, the scale with the letter did not go down, even when items were added. The shopkeeper realized that God truly protects those who are sincere devotees. Eventually, he became a true devotee of God.
कश्चन बौद्धभिक्षुः उत्तमः कलाकारः सन् बौद्धालयस्य निर्माणविन्यासं करोति स्म । भवनं द्रष्टुम् आगतेन केनचन निरुद्योगिना मुख्यप्रवेशद्वारस्य विन्यासरचनसमये शताधिकानि चित्राणि रचितानि चेदपि सर्वत्र दोषः दृश्यते स्म । कदाचित् एकाकिना भिक्षुणा उपविश्य विन्यासः रचितः । 'अल्पे एव काले अद्भुतं चित्रं कथं रचितं भवता?’ इति पृष्टे भिक्षुः अवदत् 'यावत् अन्यस्य प्रीत्यर्थं कार्यं क्रियते, तावत् अस्माकं कार्यं श्रेष्ठं न भवति । आत्मसन्तोषार्थं कृतं कार्यं भवति श्रेष्ठम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A Buddhist monk, who was an excellent artist was designing the layout of a Buddhist temple. A visitor, who was unemployed, saw over a hundred drawings created during the design of the main entrance, yet found faults in all of them. One day, the monk sat alone and created the drwaing. When asked, ‘How did you create such a wonderful drawing in such a short time?’ the monk replied, ‘As long as we do work to please others, our work is not the best. The work done for self-satisfaction is the best’.
काशीराज्यस्य राज्ञः मनसि चन्द्रवर्माणं कदाचित् त्रयः प्रश्नाः उत्पन्नाः — उत्तमं कार्यं किम्, उत्तमः पुरुषः कः, उत्तमा वेला च का इति । बहुधा प्रयत्नं कृत्वा अपि तृप्तिकरम् उत्तरं न प्राप्नोत् सः । एकदा सः मृगयार्थम् अरण्यं गतः । विश्रामार्थं सः कञ्चित् आश्रमं प्रविष्टवान् । तत्र संन्यासी तं फलादिदानेन सत्कृतवान् । अचिरात् एकः व्रणितः ग्रामीणः आगतः । संन्यासिना तस्य चिकित्सा कृता । राजा संन्यासिनं प्रश्नानाम् उत्तरं याचितवान् । संन्यासी अवदत् यत् विनालस्यं क्रियमाणं सत्कर्म एव उत्तमं कार्यम्, यः अन्येषां साहाय्यार्थम् उद्युक्तः भवेत् सः उत्तमः पुरुषः, कष्टग्रस्तानां सेवायै व्ययीक्रियते यः समयः सः उत्तमा वेला इति । एतत् उत्तरं श्रुत्वा सन्तुष्टः राजा संन्यासिनं नमस्कृत्य राजधानीं गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, three questions arose in the mind of the King of Kashi, Chandravarma — what is the best deed, who is the best person, and what is the best time. One day, he went to the forest for hunting. For rest, he entered an ashram where a sage welcomed him with fruits and other offerings. Soon, a wounded villager arrived, and the sage treated him. The king asked the monk for answers to his questions. The sage replied that the best deed is the one performed without laziness, the best person is the one who is eager to help others and the best time is the one spent in serving those in distress. Hearing this answer, the satisfied king bowed to the sage and returned to his capital.
कश्चन चातकशिशुः पिपासया पीडितः मातुः समीपं गत्वा अवदत् 'अम्ब ! अहं तटाकजलं पातुम् इच्छामि" । माता तम् अबोधयत् यत् तटाकजलं न पातव्यम्, केवलं मेघजलम् एव पातव्यम् इति अस्माकं कुलस्य आचारः' । चातकशिशुः पिपासां सोढुम् अशक्नुवन् गङ्गाजलं पातुम् गङ्गां प्रति गच्छन् रात्रियापनाय कस्यचित् कृषिकस्य गृहे उशितवान् । तत्र कृषकपुत्रयोः सम्भाषणेन ज्ञातं यत् पुत्रेण कुलस्य आचारः रक्षितः इति । मेघजलम् एव पातव्यम् इत्येषः आचारः मया धिक्कृतः इति चिन्तयन् नीडं प्रत्यागत्य मातरं प्रवृत्तं सर्वम् अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A thirsty young chataka bird went to its mother and said, ‘Mother! I want to drink water from the pond’. The mother explained to him that drinking pond water was not allowed and that only rainwater should be consumed, as it was a tradition of their family. Unable to bear his thirst, the young chataka bird went to the Ganges to drink its water. On the way, he stayed overnight at a farmer's house. Through a conversation with the farmer's son, it was revealed that the son followed the family's tradition. Reflecting on how the tradition of only drinking rainwater was ridiculed by him, the young bird returned to the nest and narrated the entire incident to his mother.
इब्राहिमलोदिः अफगानिस्थानात् भारतं जेतुं आगतः किन्तु तस्य सैन्यम् आसीत् अत्यल्पम् । लोदिः चिन्ताक्रान्तः आसीत् यतः अल्पसैन्ययुक्तेन कथं एतत् सुविशालं मराठासैन्यं जेतुं शक्यम् इति । सः दूरस्थं स्थानं आरुह्य मराठासैन्यशिबिरे अनेकेभ्यः स्थलेभ्यः धूमोत्पत्तिं दृष्टवान् । ज्ञातवान् च यत् मराठासैनिकाः विभिन्नजातीयाः सन्ति, ते विभिन्न पाकशालासु पाकं कुर्वन्ति । हिन्दवः जात्युपजातिभेदान् कारणतः सहभोजनं निषिद्धं मन्यन्ते । तदा लोदिः अवदत् 'ये मनसा विभक्ताः तेषां पराजयः निश्चितः'। ततः, लोदिना यथा चिन्तितं तथैव प्रवृत्तं । ऐक्याभावात् मराठसेना पराजयं प्राप्नोत् । पानिपतयुद्धे तस्य जयः मुस्लिमशासनस्य प्रसारस्य कारणम् अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Ibrahim Lodi came from Afghanistan to conquer India, but his army was very small. Lodi was worried about how he could defeat the vast Maratha army with such a small force. He climbed to a distant place and saw smoke rising from various places in the Maratha army camp. He realized that the Maratha soldiers belonged to different castes and were cooking in separate kitchens. Hindus, due to caste and sub-caste differences, considered it inappropriate to eat together. Lodi then said, ‘Those who are divided in mind are certain to be defeated’. As Lodi had anticipated, this came true. Due to the lack of unity, the Maratha army was defeated. His victory in the Battle of Panipat led to the expansion of Muslim rule.
काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् । तथापि मम अनुभवः एव मम प्रवचनस्य मुख्या शक्तिः । अहं सरलानि तत्त्वानि एव निरूपयामि' । पण्डिताः तस्य वचनं श्रुत्वा समाहिताः अभवन् । सः संन्यासी अग्रे 'कबीरः' इति विख्यातः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the city of Kashi, there lived a monk who gave daily preachings. Thousands of people came to listen to his discourses. Once, some scholars came to listen to his preaching. They pointed out that his language contained many improper words. However, many people listened to him with devotion. When asked about the power of his preachings, the monk said, ‘It is true that my language is not excellent. However, my experience is the main strength of my preachings. I explain simple truths’. The scholars, hearing his words, were satisfied. This monk later became famous as 'Kabir’.
मोहजाले पतितः प्राणी अविवेकपूर्णं निर्णयं करोति । मोहः जीवनस्य प्रगतिकर्तव्यायोः मार्गम् अवरुणद्धि । तादृशी स्थितिः एव अस्यां कथायां कस्यचित् वणिजः माधवस्य । यद्यपि सः श्रमशीलः निर्वञ्चनः परोपकारी च आसीत् मोहजालकारणेन स्वर्गप्राप्तिम् अपि बहुधा निराकरोति । सः विविधानि जन्मानि प्राप्य अपि विवेकस्तु न प्राप्तवान् । किमर्थम् ? कथम् ? इति इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A person trapped in the web of delusion makes irrational decisions. Delusion obstructs the path of life's progress and duty. Such is the situation in this story about a merchant named Madhava. Although he was hardworking, honest and benevolent, due to the web of delusion, he often rejected even the attainment of heaven. Despite experiencing various births, he never attained wisdom. Why? How? Listen to this interesting story to find out.
अरण्यवासं कुर्वन्तं धर्मराजं चिरञ्जीवी इति विश्रुतः मार्कण्डेयमहर्षिः धर्मं बोधयन् आसीत् । 'भवादृशः अन्यः चिरञ्जीवी अस्ति वा?’ इति पृष्टे महर्षिः इन्द्रद्युम्ननामकस्य राज्ञः वृत्तान्तं कथयति । सः दानशीलः धर्मपुरुषः राजर्षिः च आसीत् । तेन सहस्रं यज्ञाः कृताः । दानरूपेण प्रदत्तां गवां खुरन्यासैः भूमिः सरोवररूपेण परिणता जाता । बहूनां प्राणिनाम् आश्रयदाता अभवत् । 'राजा इन्द्रद्युम्नः मत्तः श्रेष्ठः । अस्माकं कीर्तिः भूलोके यावत् स्मर्यते तावत् वयं स्वर्गवासम् अनुभोक्तुं शक्नुमः' इति मार्कण्डेयमहर्षिः धर्मराजम् उद्बोधितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During the exile in the forest, the immortal sage Markandeya was imparting the teachings of dharma to Dharmaraja. When asked, ‘Is there another immortal like you?’, the sage narrated the story of a king named Indradyumna. He was a charitable, righteous person and a royal sage. He performed a thousand yajnas. The land where cows were donated became a lake due to their hoof marks, providing refuge to many living beings. Markandeya Muni enlightened Dharmaraja, saying, ‘King Indradyumna is greater than me. As long as our fame is remembered in this world, we can experience the pleasures of heaven’.
कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति । तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या । 'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् । शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् । एतत् श्रुत्वा यद्यपि अन्ये छात्राः परिहसन्ति । किन्तु अध्यापकः 'एषः सामान्यः बालकः न' इति निर्विण्णचेतस्कः अचिन्तयत् । सः एव महागणितज्ञः श्रीनिवासरामानुजमहाशयः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once in a classroom, the teacher was explaining to the students that when a number is divided by itself, the result is always one. At that time, a boy expressed a doubt about zero, saying, ‘When zero is multiplied, added, or subtracted by zero, the result is always zero, not one. It seems that the number zero has a peculiarity’. Upon hearing this, other students laughed. However, the teacher thought to himself, ‘This boy is not ordinary’. That boy later became the great mathematician Srinivasa Ramanujan.
कदाचित् प्रतिदिनं पर्वतस्थं मन्दिरं प्रति गच्छान्त्या महिलया कश्चन मणिः प्राप्तः । आकर्षकम् उत्कृष्टं च तं मणिं स्वसमीपे स्थापितवती । अग्रे केनचित् बुभुक्षितेन पान्थेन भोजनम् अयाचत । भोजनस्वीकारेसमये तेन मणिः दृष्टः, मणिं याचितवान् । प्रतिवचनं किमपि उनुक्त्वा सा मणिः अयच्छत् । एतम् अमूल्यं मणिं सा महिला तृणाय अमन्यत । तस्याः त्यागशीलता नितरां श्रेष्ठा इति चिन्तयन् सः महिलायाः समीपं गत्वा 'तादृशाः गुणाः मयि अपि भवन्तु' इति आशीर्वादं अयाचत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a woman who visited a temple on the hill every day found a precious and attractive gem. She kept the gem with her. Later, a hungry traveler asked her for food. While accepting the food, he saw the gem and requested it from her. Without saying anything in response, she gave him the gem. She considered the priceless gem as a mere straw. The traveler, deeply moved by her selflessness, went back to her and asked for a blessing, saying, ‘May I also possess such qualities’.
From the publisher's feed