बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • उत्कृष्टस्य क्षेपणम्

    रमणमहर्षेः आश्रमस्य समीपे कश्चन अध्यापकः निवसति स्म यस्य गृहे प्रतिदिनं कलहमयं वातावरणं भवति स्म । एतस्मात् जुगुप्सितः सः आत्महत्यां कर्तुं निर्णीतवान् ।  किन्तु आत्महत्यानिर्णयः न सुकरः इति विचिन्त्य मार्गदर्शनं प्राप्तुं सः रमणमहर्षेः आश्रमं गत्वा सर्वं निवेदितवान् । तदा महर्षिः केनचित् निर्दर्शनेन दर्शयति यत् 'योग्यम् उपयोगम् अस्वीकृत्य कस्यचित् वस्तुनः क्षेपणं न उचितम् । तथापि उपयोगसमाप्तितः पूर्वम् एव उत्कृष्टस्य वस्तुनः क्षेपणे उद्युक्तः अस्ति भवान्' इति । ततः अध्यापकः आत्महत्याचिन्तनं परित्यज्य उत्तमजीवनस्य यापने मतिं कृतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Near the ashram of Ramana Maharshi, a teacher lived in a quarrelsome atmosphere at home every day. Because of this, he decided to commit suicide. However, considering that the decision to commit suicide was not easy, he went to Ramana Maharshi's ashram for guidance and explained everything to him. Ramana Maharshi showed that it is not right to discard something useful without proper use. He said, ‘You are ready to discard something valuable before its use is completed’. After hearing this, the teacher gave up the idea of suicide and decided to lead a good life.

    4 min
  • हेतुस्त्वं सर्वदेशिक !

    पूर्वं केनचित् राज्ञा वेषान्तरं धृत्वा देशाटनसमये कश्चन ग्रामपरिसरः प्राप्तः । कस्यचित् बालकस्य मुखात् विविधेषु सन्दर्भेषु आगतानि सामान्यानि वचनानि राज्ञि महान्तं परिणामम् अजनयत् ।  रात्रौ शयनसमये अपि सः तानि एव वचनानि पुनः पुनः वदन् आसीत् । तस्य देशस्य धूर्तः मन्त्री सर्वदेशिकः रात्रौ राजकोषात् धनं चोरयितुम् आगतः । तदा निद्रामग्नस्य राज्ञः मुखात् तान्येव वचनानि आगतानि - ‘अहो!महान् शब्दः', ‘’निश्शब्दत्वं निरन्तरं', ‘पलायनं विना शब्दः', ‘हेतुस्त्वं सर्वदेशिक' इति । समग्रं व्यवहारं राजा ज्ञातवान् इति चिन्तयन् मन्त्री राज्ञः पादौ गृहीत्वा क्षमाम् अयाचत । ग्रामीणबालकस्य सामान्यवचनम् अपि देशस्य प्रयोजनाय अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a king, disguised in different attire, was traveling and reached the outskirts of a village. A boy's ordinary words in various contexts had a great impact on the king. Even at night, while sleeping, the king kept repeating those words. That night, the cunning minister named Sarvadeshika came to steal money from the royal treasury. In his sleep, the king uttered the same words: ‘Ah! What a great sound’, ‘Silence is continuous’, ‘A sound without an escape’, ‘You are the cause, Sarvadeshika’. Thinking that the king was aware of the whole situation, the minister held the king's feet and begged for forgiveness. The ordinary words of a village boy turned out to be beneficial for the entire country.

    5 min
  • निःस्पृहः गुम्फनदासः

    दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते धनं काष्ठकीर्णकीटः इव बाधते, अपि च अहं भगवद्भक्तपदेन एव तृप्तः अस्मि इति वदति । अन्यत् किमपि न अवश्यकम् इति वदति । तस्य निःस्पृहतां दृष्ट्वा तं सादरं प्रणम्य ततः राजा निर्गच्छति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Gumphana Das was widely known for his devotion to God, selflessness, and helpful nature. Wanting to honor him, King Manasinha personally visited his home. There, he saw water used as a mirror and grass used as seating. The king offered to make a silver throne and a golden mirror for him, but Gumphana Das refused. When the king offered money for daily expenses or a village administrator position, Gumphana Das replied that money was like a troublesome insect and that he was content with being a devotee of God. He did not need anything else. Seeing his selflessness, the king respectfully bowed to him and left.

    4 min
  • चिन्तनस्य विषयः तु ......

    कदाचित् अश्वम् आरुह्य गच्छन्तौ गुरुशिष्यौ रात्रिवेलायां कस्मिंश्चित् जीर्णगृहे वासं कृतवन्तौ । अश्वः वृक्षे बद्धः अस्ति । तं रक्षतु ।  अहं निद्रां करोमि । निद्रानिवारणाय किमपि चिन्तयन् भवतु' इति गुरुः अवदत् । तथैव शिष्यः अकरोत् । मध्ये मध्ये गुरुः उत्थाय पृच्छति किं चिन्तयन् अस्ति, तदा शिष्यः अवदत् - नक्षत्राणि स्वयमेव उत्पन्नानि उत केनचित् स्थापितानि इति, समुद्रजलं स्वयमेव लवणमयं जातम् उत कोऽपि समुद्रे लवणं योजितवान् इति च । उषःकाले गुरुणा पृष्टे तदा शिष्यः वदति - वृक्षे बद्धः अश्वः न दृश्यते । सः स्वयमेव बन्धनात् विमुक्तः जातः उत कोऽपि तम् उन्मोच्य नीतवान् इति । तस्य अविवेकं दृष्ट्वा हसनीयम् उत विषादः प्रकटनीयः इति अजानन् गुरुः मौनम् आश्रितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a Guru and his student were traveling on horseback and decided to stay in a hut for the night. The horse was tied to a tree. The Guru said, ‘Guard it. I will sleep. Think of something to stay awake’. The student did as told. During the night, the Guru woke up occasionally and asked what the student was thinking about. The student responded with thoughts like whether the stars appeared on their own or someone placed them, and whether the sea became salty on its own or someone added salt to it. At dawn, the Guru asked again, and the student said, ‘The horse tied to the tree is not visible. Did it free itself or did someone untie it and take it away?’ Seeing the student's lack of wisdom, the Guru was unsure whether to laugh or be sad, and remained silent.

    4 min
  • आतपत्रपादत्राणयोः उद्भवः

    ग्रीष्मकालः आसीत् । महर्षिः जमदग्निः सूर्यतापस्य तीक्ष्णतां न्यूनीकर्तुं पत्न्या रेणुकादेव्या धनुम् आनाय्य सूर्यम् उद्दिश्य एकैकशः बाणानां प्रक्षेपणं अकरोत् । किन्तु भास्करः तथैव ज्वलन् स्थितवान् । महर्षेः क्रोधः पराकाष्ठां गतः । एतदभ्यन्तरे सूर्यदेवः विप्रवेषधारी भूत्वा महर्षिम् उपेत्य एतस्मात् यत्नात् विरमयितुं वदति । यदा महर्षिः एतत् न अङ्गीकरोति तदा सूर्यदेवः स्वस्य दिव्यशक्त्या आतपत्रं, पादत्राणं च सृष्ट्वा तस्मै महर्षये अदात् । इत्थम् आदिमयोः आतपत्रपादत्राणयोः उद्भवः जातः । वैशाखमासे श्राद्धवेलायां च आतपत्रस्य पादत्राणस्य च दानम् इत्थम् आरब्धम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    It was summer. The sage Jamadagni, to reduce the intensity of the sun's heat, brought a bow with the help of his wife Renuka and started shooting arrows towards the sun. However, the sun continued to blaze. The sage's anger reached its peak. In the meantime, the sun god, disguised as a Brahmin, approached the sage and tried to stop him. When the sage did not agree, the sun god used his divine power to create an umbrella and sandals and gave them to the sage. Thus, the origin of the first umbrella and sandals came into being. This is why, during the Shraadha in the month of Vaishakha, the donation of umbrellas and sandals began.

    5 min
  • कूपरहितं गृहम्

    दशमे शतके राजा यशस्करदेवः काश्मीरदेशं पालयति स्म । कदाचित् राजभवनस्य पुरतः प्राणत्यागाय प्रयतमानं सज्जनं आनाय्य कारणम् अपृच्छत् राजा । तदा ज्ञातवान् यत् न्यायाधीशेन अन्याय्यः निर्णयः श्रावितः आसीत् इति । सज्जनः कूपसहितः कश्चन भागः पत्न्यै रक्षित्वा गृहं विक्रीतवान् आसीत् । धनसम्पादनाय अन्यदेशं प्रति गतः यावत् प्रत्यागतः तावता कूपसहितायाः भूमितः पत्नी निष्कासिता आसीत् । ततः राजा न्यायाधीशं, गृहस्य विक्रेतारम्, राजलेखकम् आनाय्य गृहस्य पत्रं परिशील्य ज्ञातवान् यत् राजलेखकः सहस्रं मुद्राः उत्कोचं प्राप्य 'कूपरहितं गृहं' इति पत्रे लिखितवान् इति । राजा कूपभूमिं भवनं च स्वामिने दापयित्वा क्रेतारं धनिकं देशात् निर्वासितं कृतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the tenth century, King Yashaskara was ruling the Kashmir region. One day, a man who was trying to take his own life was brought before the king and asked him the reason. The king then learned that an unjust decision had been made by the judge. The man had sold everything except a piece of land with a well for his wife to lead a life and had gone to another country to earn money. When he returned, his wife had been evicted from the land. The king then summoned the judge, the seller of the house, and the royal clerk, and upon examining the property documents, discovered that the clerk had received a thousand coins as a bribe and had written ‘house without a well’ in the document. The king then ordered the land with the well and the house to be returned to the rightful owner and exiled the wealthy buyer from the country.

    5 min
  • योग्यतापरीक्षा

    कस्मिंश्चित् राज्ये नूतनमन्त्रिणः चयनदायित्वं राजा वृद्धाय मन्त्रिणे दत्तवान् । निश्चिते दिने बहवः युवकाः अर्हतापरीक्षार्थं राजभवने उपस्थिताः अभवन् । वृद्धः मन्त्री पेयवितारकरूपेण, कृषकरूपेण च वेषं धृत्वा परीक्षाम् अकरोत् । तत्र एकः एव युवकः चषकसङ्ग्रहणे, पङ्कात् शकटस्य उन्नयने च साहाय्यम् अकरोत् । सः एव योग्यतमः इति विचिन्त्य तमेव नूतनमन्त्रित्वेन चितवान् मन्त्री ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In a certain kingdom, the king gave the responsibility of selecting a new minister to an old minister. On the decided day, many young men came to the king's palace to take the eligibility test. The old minister, disguised as a drink server and farmer, conducted the test. One young man helped in collecting cups and lifting a cart from the mud. Considering him the most suitable, the old minister chose him as the new minister.

    4 min
  • अनुभोक्तव्यम् एव पापफलम्

    चन्द्रनामा चोरः चौर्यकर्मकलाकोविदः एकदा लक्षाधिकानि रूप्यकाणि चोरयित्वा सुरक्षिते स्थले संस्थाप्य निश्चिन्तः अभवत् । तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । अतः सः विष्णुमन्दिरं गत्वा समग्रं धनं देवाय अर्पितवान् ।  ततः तेन विलक्षणः आनन्दः महती तृप्तिः च अनुभूता । मरणानन्तरं यमभटैः सः चित्रगुप्तस्य समीपं नीतः यत्र तस्य पापपुण्यादिविवरणं परिशीलितम् । चित्रगुप्तः अवदत् यत् तस्य चौर्यकर्मणः निमित्तं मासात्मकः नरकवासः दण्डः भवेत् । 'चोरितं धनं भगवते अर्पितम् अतः पापं क्षालितं भवेत्' इति चन्द्रेण उक्ते चित्रगुप्तः अवदत् 'यत् पापम् आचरितं तस्य दण्डः अनिवार्यः । अनन्तरम् एव पुण्यकर्मणः फलम् अनुभूयेत' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Chandra, a thief skilled in the art of theft, once stole a large amount of money and kept it in a safe place. He saw the image of Vishnu, the family deity in his dreams. Therefore, he went to Vishnu's temple and offered all the money to the deity. He experienced immense joy and great satisfaction from this virtuous act. After his death, he was taken by Yama's attendants to Chitragupta, where his sins and merits were reviewed. Chitragupta declared that Chandra would be punished with a month's stay in hell for his theft. When Chandra asked if offering the stolen money to God would cleanse his sin, Chitragupta replied that the punishment for the committed sin was inevitable. Only after serving the punishment would he experience the fruits of his good deed.

    4 min
  • नादस्य कारणम्

    कृष्णः बाल्ये यदा गृहिण्यः गृहे न स्युः, तदा सः मित्रैः सह प्रतिवेशिगृहं गत्वा नवनीतं चौरयति स्म । एकदा काचित् गोपिका शिक्यायां घण्टिकां बध्नाति । यदा कृष्णः नवनीतं चोरयति तदा घण्टानादः भवेत् इति । परन्तु कृष्णः घण्टिकां दृष्ट्वा ताम् आदिष्टवान् यत् मम स्पर्शे शब्दं न करोतु इति । तथापि, नवनीतं मुखे स्थापनसमये घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः आगमनात् पूर्वं सः पलायितवान् । अनन्तरं कृष्णः घण्टिकां 'किमर्थ मम आदेशं न पालितवती' इति पृष्टवान् । तदा घण्टिकया उक्तं यत् नैवेद्यसमये नादोत्पादनं मम धर्मः' इति । ततः कृष्णः हसन् निर्गतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    When Krishna was a child, he would go with his friends to the neighboring houses to steal butter. One day, a gopi tied a bell to the butter pot, so that it would ring when Krishna tried to steal the butter. However, when Krishna saw the bell, he instructed it not to make any sound when he touched it. Despite this, when Krishna put the butter in his mouth, the bell rang loudly. Krishna escaped before the gopi arrived. Later, Krishna asked the bell why it did not obey his command. The bell replied that making a sound during the offering was its duty. Krishna laughed and left.

    3 min
  • स्वर्गः नरकं च इहैव

    कश्चित् सज्जनः एकदा ग्रामस्य देवालये साधोः प्रवचनं आयोजितवान् यत्र प्रतिदिनं जनाः साधोः प्रवचनं श्रोतुं आगच्छन्ति स्म । एकस्मिन् दिने साधुः स्वर्गनरकयोः विषये सविस्तरं व्याख्यानं कृत्वा यदा अपृच्छत् 'कति जनाः स्वर्गं गन्तुम् इच्छन्ति?’ सर्वे एकस्वरेण 'अहम् अहम्" इति अवदन् ।  किन्तु एकः बालकः प्रतिस्पन्दं न अकरोत् । पुनः साधुः अपृच्छत् "कति जनाः नरकं गन्तुम् इच्छन्ति?’ सर्वे मौनेन आसन् । साधुः बालकस्य प्रतिस्पन्दं न दृष्ट्वा तम् अपृच्छत्, 'स्वर्गनरकयोः विषये तव प्रतिस्पन्दः किमर्थं नास्ति?" इति । बालकः अवदत् 'अहं अत्रैव जीवितुम् इच्छामि । अहं यत्र भवामि  तत्रैव स्वर्गं रचयिष्यामि' तस्य वचनं श्रुत्वा साधुः स्तब्धः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A gentleman once organized a sage’s lecture in the village temple, where people gathered daily to listen to the sage’s teachings. One day, the sage gave a detailed discourse on heaven and hell and then asked, ‘How many of you want to go to heaven?’. Everyone responded in unison, ‘I do, I do’. However, one boy did not respond. The sage then asked, ‘How many of you want to go to hell?’ Everyone remained silent. The sage, noticing the boy's lack of response, asked him, ‘Why are you not responding about heaven or hell?’. The boy replied, ‘I want to live here itself. Wherever I am, I will create heaven there’. Hearing his words, the sage was stunned.

    3 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।