
Sign up to save your podcasts
Or


रमणमहर्षेः भक्ताः वदन्ति स्म यत् रमणमहर्षिः भगवत्साक्षात्कारम् अपि प्राप्तवान् अस्ति इति । एतत् असहमानाः केचन क्रिस्तधर्मप्रचारकाः महर्षेः दाम्भिकता सप्रमाणं प्रकाशनीया इति सङ्कल्पितवन्तः । अतः ते कतिपयैः विदेशीयैः पत्रकारैः सह महर्षेः आश्रमं गत्वा भवतः ईश्वरस्य साक्षात्कारं द्रष्टुम् इच्छामः इति अवदन् । तदङ्गीकृत्य महर्षिः तान् कुष्ठरोगपीडितस्य गृहम् अनयत् । तस्य सर्वविधसेवाः कृत्वा आङ्ग्लान् सम्बोध्य महर्षिः अवदत् 'एषः एव मम ईश्वरः । इत्थम् ईशसेवां करोमि । तस्य साक्षात्कारमपि प्राप्नोमि' इति । स्तब्धाः आङ्ग्लाः पत्रकाराश्च महर्षिं साष्टाङ्गं नमस्कृतवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Devotees of Ramana Maharshi used to say that he had attained the direct vision of God. Unable to tolerate this, some Christian missionaries decided to expose Maharshi's so-called arrogance. They went to his ashram with a few foreign journalists and said, 'We wish to see your vision of God.' Maharshi agreed and took them to the home of a leprosy patient. After serving him in every possible way, Maharshi addressed the Englishmen and said, 'This is my God. This is how I serve Him, and I attain His vision through this service.' The stunned English journalists bowed before Maharshi.
अमेरिकादेशे कस्याञ्चित् नद्यां कश्चित् विद्युत्स्तम्भः पतितः । अतिभारयुक्तं तं स्तम्भम् उन्नेतुं कर्मकराः असमर्थाः जाताः । इतोऽपि एकस्य जनस्य साहाय्ये अपेक्षितेऽपि तत्रत्यः प्रमुखः मम योग्यतायाः अननुगुणः व्यवहारः इति मत्वा साहायार्थं न गतवान् । तावता कश्चन अश्वारोही तत्रत्यां स्थितिं दृष्ट्वा कार्ये संलग्नः अभवत् । तस्य प्रोत्साहवचनेन कर्मकराः उत्साहध्वनिं कुर्वन्तः बलेन विद्युत्स्तम्भम् उन्नीय तीरं प्रापितवन्तः । यदा सः अश्वम् आरुह्य गन्तुम् उद्यतः तदा कर्मकरनायकः अपृच्छत् 'भवान् कः?’ इति । 'अहमस्मि अमेरिकायाः राष्ट्रपतिः जार्ज् वाशिङ्गट्न्' इति अवदत् सः अश्वारोही ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain river in America, an electric pole had fallen. The workers were unable to lift the heavily loaded pole. Despite needing one more person’s assistance, the local leader, considering the task beneath his dignity, did not offer his help. Meanwhile, a horseman, seeing the situation, got involved in the task. Encouraged by his words, the workers raised the pole with great effort and brought it to the shore. As the horseman was about to leave, the leader of the workers asked, 'Who are you?' The horseman replied, 'I am George Washington, the President of the United States’. This story beautifully illustrates the values of humility, leadership and the importance of offering help regardless of one's position.
कदाचित् मृगयायै गतः जुनागढदेशस्य मृगयाप्रियः राजा अङ्गारः वेगेन अश्वं चालयन् सहचरेभ्यः पृथक् जातः । मृगयायां मारितान् बहून् शशान् अश्वस्य पुच्छे अबध्नात् सः । प्रतिगमनमार्गम् अजानन् सः इतस्ततः पश्यन् अश्वं मन्दं चालयन् वृक्षस्य मूले उपविष्टं ध्यानमग्नं कञ्चन संन्यासिनं दृष्टवान् । राजा तं प्रणम्य राजधानीं प्रति गमनार्थं मार्गम् अपृच्छत् । संन्यासी राज्ञः मृगयाप्रवृत्तिं दृष्ट्वा 'अहम् उभौ एव मार्गौ जानामि । प्राणिवधकर्ता नरकं याति, दयाशीलः जनः स्वर्गे विराजते' इति । एतस्मात् लज्जान्वितः राजा क्षमां याचित्वा प्राणिवधं परित्यक्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a king named Angara of Junagadh, who was fond of hunting, went on a hunting expedition. Riding his horse at great speed, he got separated from his companions. During the hunt, he killed many hares and tied them to the tail of his horse. Not knowing the way back, he wandered here and there, and saw a Sanyasi meditating under a tree. The king greeted the Sanyasi and asked for the way back to the capital. Observing the king's hunting activity, the Sanyasi said, 'I know two paths. The one who kills living beings goes to hell and the compassionate person ascends to heaven’. Feeling ashamed, the king sought forgiveness and gave up hunting.
कश्चन महात्मा सर्वसङ्गपरित्यागी इति ख्यातः आसीत् । धनादिषु अल्पा अपि आसक्तिः न आसीत् । कदाचित् प्रयाणावसरे नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः कश्चन श्रेष्ठी वणिक् महात्मनः पादौ अस्पृशत् । झटिति एव महात्मा अपि श्रेष्ठिनः पादौ अस्पृशत् । आश्चर्यान्वितः श्रेष्ठी 'भवादृशेन महात्यागिना सर्वसङ्गपरित्यागिना च किमर्थं मम पादौ स्पृष्टौ ?’ इति पृष्टे महात्मा अवदत् 'मया तु लौकिकमातापित्रोः सङ्गः परित्यक्तः । किन्तु भवता जगतः पित्रोः एव सङ्गः परित्यक्तः । अतः महात्यागी भवान् एव, न तु अहम्' । एतत् श्रुत्वा लज्जां प्राप्तवान् श्रेष्ठी स्वस्य दोषम् अङ्गीकृत्य महात्मनः अनुयायी जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a great saint known for renouncing all attachments. He had no attachment to wealth or any other material possessions. Once, while traveling through the city, a wealthy merchant came towards him and touched his feet. Immediately, the saint also touched the merchant's feet. The surprised merchant asked, 'Why did a great renunciant like you touch my feet?' The saint replied, 'I have renounced the attachment to worldly parents, but you have renounced the attachment to the parents of the world. Hence, you are the true renunciant, not I'. Hearing this, the merchant felt ashamed, acknowledged his mistake, and became the disciple of the saint.
आसीत् कश्चन वरेण्यनामकः राजा यः धर्मानुयायी प्रजावत्सलः च । तस्य पतिव्रता धर्मपरायणा च पत्नी पुष्पका कदाचित् कञ्चित् विलक्षणं शिशुं प्रसूतवती । चत्वारः हस्ताः, मुखे दन्तः च आसन् तस्य । विलक्षणशिशोः जननं ज्ञातवता राज्ञा शिशुं सरोवरे त्यक्तुम् आदिश्यते । सरोवरस्य समीपे आसीत् पार्श्वमुनेः आश्रमः । प्रतिदिनं सरोवरे स्नानं कर्तुम् आगतवता मुनिना एषः शिशुः दृष्टः । परमात्मास्वरूपः अयं शिशुः इति मत्वा तम् आश्रमं प्रति अनयत् । तस्य पत्नी दीपवत्सला नितरां सन्तुष्टा जाता । एवं जन्मदात्री पोषयित्री चेति उभे मातरौ स्तः इत्यतः सः बालः द्वैमातुरः इति ख्यातः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Varenya was virtuous and cared for his people. His wife, Pushpaka, gave birth to a unique child with four arms and a tusk. Disturbed by this, the king ordered the child to be abandoned in a lake. Nearby, Sage Parshva lived in a hermitage and often visited the lake. He found the child, saw its divine nature, and brought it to his hermitage. His wife, Deepavatsala, happily took the child in. With two mothers—one who gave birth. and the other who nurtured—the child was named "Dvimaatura," meaning "the one with two mothers.
शबरीं द्रष्टुम् आगवन्तं रामं आश्रमं परितः विद्यमानानां सुगन्धपूर्णानां पुष्पाणां कथां वदति सा - 'पूर्वम् आश्रमपरिसरे मातङ्गः नाम महर्षिः निवसति स्म । कदाचित् महर्षिः अचिन्तयत् यत् वृष्टेः आरम्भतः पूर्वं यदि काष्ठानि न सङ्गृह्येरन् तर्हि वर्षाकाले महत् कष्टम् अनुभोक्तव्यं भवेत् इति । शिष्येषु केनापि अवधानं न दत्तम् इति कारणतः स्वयं महर्षिः परशुं गृहीत्वा काष्ठसङ्ग्रहाय आश्रमात् निर्गतवान् । तं सर्वे शिष्याः अनुसृतवन्तः । सूर्यास्तसमये आगवतां शिष्याणां शरीरतः यत्र यत्र स्वेदबिन्दवः अपतन् तत्र सर्वत्र सुन्दाराणि पुष्पाणि दृष्टानि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Shabari speaks to Rama, who has come to see her, about the fragrant flowers present around the ashram - 'Once, in the vicinity of the ashram, there lived a great sage named Matanga. One day, the sage thought that if the wood was not collected before the onset of rain, it would be very difficult during the rainy season. Since none of the disciples paid attention to it, the sage himself took an axe and went out of the ashram to gather the wood. All the disciples followed him. By the time they returned at sunset, wherever the sweat drops from the bodies of the disciples fell, beautiful flowers were seen blooming there’.
कस्याञ्चित् महावाणिज्यसंस्थायां विक्रेतृविभागस्य निमित्तम् अभ्यर्थिनां सन्दर्शनं प्रचलत् आसीत् । अनुभवराहित्येऽपि कस्यचन तरुणस्य सरलतां दृष्ट्वा तम् उद्योगे न्ययोजयत् प्रबन्धकः । 'विक्रयणे विशेषास्था दर्शनीया, प्रगतिः साधनीया च भवता' इति अबोधयत् सः । कञ्चित् कालानन्तरं ज्ञातं कथं सः तरुणः स्वस्य कौशलेन वाणिज्यसामर्थ्येन च संस्थायै दशलक्षरूप्यकमितः लाभः दापितः इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a large commercial organization, interviews were being conducted for the sales department. Despite his lack of experience, a young man's simplicity impressed the manager, who decided to hire him. The manager advised him, saying, "You should show a special interest in sales and work towards progress." After some time, it became known how the young man, through his skill and commercial wisdom, brought a profit of ten lakh rupees to the organization.
पूर्वं कश्चन राजुकुमारः सकलज्ञानसम्मन्नः बलवान् अधीतराजोचितविद्यः च असीत् । किन्तु धर्मलक्षणं तेन न ज्ञातम् । सः पण्डितान् अपृच्छत् । एकैकः एकैकप्रकारेण धर्मलक्षणं विवृतवान् येन राजकुमारस्य भ्रमः जातः । अन्ते सः कञ्चित् संन्यासिनं दृष्ट्वा स्वस्य समस्यां निवेदितवान् । संन्यासिना कारितायां क्रीडायां राजकुमारेण प्रतिस्पर्धिनि गौरवप्रधानं, मृदु व्यवहारः, दयापरार्थं, प्राणत्यागाय सज्जता इत्यादयः दर्शितः । एते एव धर्मस्य साराः इति सन्यसिनः कथनात् सन्तुष्टः राजकुमारः संन्यासिनं कृतज्ञतापूर्वकं प्रणम्य ततः निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, there was a prince who was endowed with all kinds of knowledge, strong and well-versed in the sciences suitable for a king. However, he did not understand the essence of dharma (righteousness). He asked the scholars. Each one of them explained dharma in different ways, which confused the prince. Finally, he saw a Sanyasi and expressed his problem. In a game arranged by the Sanyasi, the prince displayed qualities such as prioritizing honor over competition, gentle behavior, compassion for others, and readiness to sacrifice his life. The Sanyasi then explained that these very qualities are the essence of dharma. Satisfied with the Sanyasi's explanation, the prince thanked him with gratitude and departed.
'यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुरा कृतं कर्म कर्तारमनुगच्छति ।। 'प्रियम् अप्रियं वा कर्मफलं कर्तारमेव उपैति' इति वचनं अस्माभिः ज्ञातमेव । शास्त्रकुशलोऽपि कश्चन पण्डितः कथं पापं करोति? यदा कर्मफलं पापपुरुषरूपं धृत्वा पण्डितं ग्रहीतुम् आगतवान् तदा तस्य निवारणाय कम् उपायं करोति ? परन्तु अन्ते कर्मफलस्य भोक्ता स्वयमेव अस्ति इति कथं पण्डितेन विदितम् इति ज्ञातुम् इमां स्वारस्यकरीं कथां शृण्मः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Just as a calf finds its mother among a thousand cows, so does the karma of the past find its doer. The saying 'One reaps the fruits of their actions, whether pleasant or unpleasant' is well-known to us. How does even a learned scholar commit a sin? When the fruits of karma, assuming the form of a sinful person, come to capture the scholar, what means does he employ to prevent it? In the end, how does the scholar realize that he himself must bear the fruits of his karma? Let us hear this intriguing story to understand".
त्रिषु लोकेषु देवताभ्योऽपि महान् पूजनीयः प्रह्लादः इन्द्रेण न असह्यत । सः ब्राह्मणवेषं धृत्वा प्रह्लादनिकटम् आगत्य अकथयत् 'भवतः इहलौकिकस्य पारलौकिकस्य च कल्याणमार्गस्य तत्त्वम् उपदिशतु' इति । तदङ्गीकृत्य प्रह्लादः ज्ञानतत्त्वं बोधयित्वा अन्ते' यद् इष्यते तद् याच्यताम्' इति यदा अवदत् तदा कपटवेषधारी इन्द्रः 'भवतः शीलं ग्रहीतव्यम् इति मम इच्छा' इति प्रत्यवदत् । प्रह्लादः तस्य वचनं पूरितवान् । तदनन्तरं प्रह्लादः एतत् भगवतः आशीर्वादं मन्यमानः नैमिषारण्यं गत्वा भगवतः ध्यानं कुर्वन् आनन्देन दिनानि अयापयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Prahlada, who is greater and more venerable than the gods, was unbearable to Indra. Disguised as a Brahmin, Indra approached Prahlada and asked, "Please teach me the essence of the path to welfare in this world and the next". Accepting this request, Prahlada imparted the knowledge of the truth. At the end, when Prahlada asked Indra to request whatever he desired, the deceitful Indra replied, "It is my wish to imbibe your character". Prahlada fulfilled his request. Thereafter, considering this as a blessing from the Lord, Prahlada went to Naimisharanya, meditated on the Lord, and spent his days in bliss.
From the publisher's feed