
Sign up to save your podcasts
Or


कल्पनालोके विहरन् कश्चन तरुणः कदाचित् स्वप्ने राजत्वं प्राप्तवान् आसीत् । अग्रिमदिनात् आरभ्य सः महाराजवत् व्यवहारम् आरब्धवान् । मातापितरौ किमपि कार्यं वदतः चेत् सः वदति 'अहं महाराजः अस्मि । किं महाराजः स्वयं कार्यं कुर्यात्?’ इति । एषः कथं बोधनीयः इति गृहसदस्याः यदा चिन्ताक्रान्ताः आसन् तदा तस्य अनुजा उपायेन तं समीकरोति । वस्तुस्थितिम् अवगत्य सः तरुणः कल्पनालोके विहारात् कीदृशं कष्टं भवति इति जानन् स्वस्य कर्तव्यम् अवगच्छति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A young man, lost in the world of imagination, once dreamt of becoming a king. From the next day onward, he began behaving like a king. Whenever his parents asked him to do something, he would reply, "I am the king. Why would a king do tasks himself?" Concerned about how to bring him back to reality, his family members grew anxious. His younger sister, however, devised a clever plan to help him see reason. Realizing the truth of his situation, the young man understood the hardships that come with living in a world of fantasy and recognized his responsibilities.
कदाचित् राज्ञः विक्रमादित्यस्य मनसि त्रयः प्रश्नाः उदिताः -’ईश्वरात् पूर्वं कः आसीत्?’, 'ईश्वरः कुत्र निवसति?’, 'ईश्वरः किं करोति?’ । 'सन्तोषप्रदानि उत्तराणि यः यच्छति तम् अर्धं राज्यं दास्यामि, असम्यक् उत्तरं यः ददाति तस्मै कठोरदण्डनम्' इति घोषणां कारितवान् । दण्डभयात् कः अपि जनः उत्तरं दातुं साहसं न कृतवान् । किन्तु कश्चन हलवाहकः आगत्य राज्ञः त्रयाणां प्रश्नानाम् उत्तरं निर्दर्शनेन प्रतिपाद्य राजानं सन्तोषयति । वचनानुसारेण राजा हलवाहकाय अर्धं राज्यं अयच्छत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, King Vikramaditya was pondering three profound questions: "Who existed before God?", "Where does God reside?", and "What does God do?" He proclaimed, "Whoever provides satisfactory answers to these questions will be rewarded with half my kingdom. However, anyone giving an unsatisfactory answer will face severe punishment. Out of fear of the punishment, no one dared to respond. However, a plowman came forward and through practical demonstrations, provided convincing answers to all three questions, thus satisfying the king. As promised, King Vikramaditya awarded the plowman half of his kingdom.
कस्यचित् धनिकस्य अन्त्यकाले पुत्राणां साहाय्यम् अपेक्ष्य एकैकं पुत्रम् आहूय साहाय्यं याचते । त्रयः अपि पुत्राः भिन्नं भिन्नम् उत्तरं अयच्छन् । तृतीयस्य पुत्रस्य उत्तरं श्रुत्वा धनिकः शान्त्या दिवङ्गतः । ते एव त्रयः पुत्राः धनजनपुण्यरूपाः । प्रथमः पुत्रः धनकनकादिसम्पद्रूपः । द्वितीयः आप्तजनः । तृतीयस्तु परोपकारः । एषा कथा परोपकारस्य महत्त्वं सम्यक् प्रकारेण व्यक्तं करोति । मानवजीवनस्य मूल्यं परहिते अस्ति । धनं सम्बन्धः च क्षणमात्रं भवति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
At the end of his life, a wealthy man sought help from his three sons, calling each one individually to ask for assistance. The three sons gave different responses. Upon hearing the answer of his third son, the wealthy man passed away peacefully. The three sons symbolize the three forms of wealth: The first son represents material wealth, such as money and gold. The second son signifies relationships and loved ones. The third son embodies altruism and service to others. This story beautifully conveys the importance of selfless service. It emphasizes that the true value of human life lies in benefiting others. Material wealth and relationships, though significant, are transient.
कस्मिंश्चित् ग्रामे शास्त्रग्रन्थादीन् पठितवान् कश्चन गर्वी पण्डितः आसीत् । सः स्वीयां प्रशंसां स्वयमेव सर्वत्र कुर्वन् भ्रमति स्म । कदाचित् कश्चन बुद्धिमान् जनः तं पण्डितं 'अन्यं ग्रामं गत्वा तत्रत्यान् पण्डितान् जयति चेत् भवतः पाण्डित्यस्य मूल्यम् अत्रत्याः जनाः अवगच्छेयुः' इति अवदत् । पण्डितः ससन्तोषं यावत् सः पार्श्वस्थं ग्रामं प्राविशत् कश्चन अजपालः तेन दृष्टः । सम्भाषणावसरे पण्डितः गर्वी इति ज्ञातः अजपालेन सरलः प्रश्नः पृष्टः यत् पण्डितः उत्तरं दातुम् असामर्थः जातः । एतेन अपमानितः पण्डितः तस्मात् दिनात् आत्मप्रशंसां परित्यक्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain village, there lived a proud scholar who had studied many sacred texts and scriptures. He wandered everywhere, praising himself and boasting of his knowledge. One day, a wise man suggested to him, "If you go to another village and defeat the scholars there, people here will truly understand the worth of your scholarship." Pleased with the idea, the scholar entered a nearby village, where he encountered a simple shepherd. During their interaction, the shepherd noticed the scholar's arrogance and asked him a straightforward question. The scholar, however, was unable to provide an answer. Humiliated by this incident, the scholar gave up his habit of self-praise from that day onwards.
कदाचित् वनप्रदेशे तृणसेवनमग्नात् मेषसमूहात् एकः मेषशावकः पृथक् जातः । शावकः एकाकी स्वगृहमार्गस्य अन्वेषणं यदा आरब्धवान् तदा निर्झरस्य समीपे विद्यमानासु वालुकासु वनराजस्य सिंहस्य सुचारूणि पदचिह्नानि अपश्यत् । एकाग्रतया भक्त्या च वनराजस्य पदचिह्नानि पश्यन्तं शावकं जम्बूकः, वृकः, व्याघ्रः च यथाक्रमं दृष्ट्वा सौजन्येन व्यवहृत्य ततः पलायनं अकुर्वन् । साक्षात् सिंहः यदा शावकस्य दृढं भक्तिभावं अपश्यत् तदा गजम् आदिशत् 'मेषशावकं पृष्ठे आरोप्य वनविहारं कारयतु यत्र वृक्षाणां मृदूनि पर्णानि, स्वादूनि फलानि च खादेत्' इति । वनराजभक्तेः एतत् पारितोषिकम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, in a forest region, a lamb got separated from its flock while grazing. As it wandered alone in search of its way home, it spotted the beautifully marked footprints of the king of the jungle—the lion—on the sandy banks of a stream. The lamb, filled with deep reverence and devotion, focused intently on the footprints. Observing the lamb's unwavering devotion, a jackal, a wolf, and a tiger approached the lamb but then fled, sensing its sincere admiration for the lion. When the lion himself noticed the lamb's steadfast devotion, he commanded an elephant, saying, ‘Carry this lamb on your back and let it roam freely in the forest where it can feed on the soft leaves of trees and sweet fruits’. This was the reward for the lamb's deep devotion to the king of the jungle.
आसीत् कश्चन नापितः यः प्रतिदिनं भगवतः ध्यानं कृत्वा एव कार्ये प्रवर्तते स्म । अथैकदा भगवन्तं पूजयित्वा ध्यानमग्नः अभवत् । समये तस्य उनुपस्थितिं दृष्ट्वा कुपितः राजा भटान् प्रेषयति । भीता नापितस्य पत्नी पतिः गृहे नास्ति इति अवदत् । असूयावन्तः भटाः भार्या अनृतम् अवदत्, नापितः गृहे एव अस्ति इति अवदन् । तत् श्रुत्वा क्रुद्धः राजा नापितम् आनेतुं भटान् यदा आदिशत् तदा स्वयं देवः नापितवेषं धृत्वा राज्ञः क्षौरम्, शरीरमर्दनं च अकरोत् । प्रवृत्तं सर्वं ज्ञात्वा नापितेन भगवतः दर्शनं प्रार्थ्यते । सन्तुष्टः भगवान् प्रत्यक्षः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was once a barber who became deeply engrossed in meditation. Noticing his absence, the king grew angry and sent soldiers to fetch him. Terrified, the barber's wife lied, saying her husband was not at home. However, the suspicious soldiers accused her of deceit and claimed that the barber was indeed present at home. Upon hearing this, the enraged king commanded the soldiers to bring the barber to him immediately. At that moment, God Himself, disguised as the barber, appeared before the king and performed his shaving and body massage. When the truth of the divine intervention was revealed, the barber humbly prayed for God's darshan. Pleased, God manifested before him.
अस्ति भारते हिमालयस्य सन्निकटे बोयलनामकः ग्रामः । अथैकदा अत्रत्याः बहवः ग्रामीणाः यदा कुम्भस्नानाय प्रयागं प्रति प्रस्थिताः तदा मार्गे खड्गहस्ताः लुण्ठकाः आगताः । सर्वे यात्रिणः भीताः । तेषु शिवदेवनामकः अतीव भीतः पर्वतीयभाषया 'ओ.. इ.. जा.. आ.. ज.. मर् यां.. अम्ब ! अद्य मृताः वयम्' इति उच्चैः क्रन्दनं कृत्वा कूर्दितवान् । तत् सर्वं दृष्ट्वा लुण्ठकाः भीताः । भीमकायस्य शिवदेवस्य कूर्दनं दृष्ट्वा लुण्ठकानां प्रमुखः अवदत् 'अयं तु भीमावतारः । शीघ्रम् इतः पलायनं करवाम' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In India, near the Himalayas, there is a village named Boyal. Once, many villagers from there set out for the Kumbh Mela in Prayag. On their way, armed robbers appeared, wielding swords. All the travelers were terrified. Among them, Shivadeva, who was extremely frightened, cried out loudly in a mountain dialect, "Oh... Ee... Ja... Aa... Ja... Mar Yam... Mother! Today we are doomed!". Seeing this, the robbers became scared. Witnessing Shivadeva's massive stature and his dramatic cries, the leader of the robbers exclaimed, "This is surely an incarnation of Bhima. Let us flee from here immediately!
कस्मिंश्चित् नगरे विजयरामनामकः कश्चन महाधनिकः अत्यन्तं लोभी आसीत् । सम्पत्तेः सङ्ग्रहणं तस्य विकृतः स्वभावः आसीत् । एकदा कश्चन साधुः धनिकस्य गृहसमीपस्थात् उद्यानात् कस्यचित् पक्षिणः मधुरं गानं श्रुत्वा एकं सुवर्णनाणकं दत्त्वा 'अनेन फलानि बीजानि पक्षिणः प्रियखाद्यानि च क्रीत्वा पक्षिणे ददातु' इति उक्तवान् । किन्तु सः लोभी धनिकः मम पक्षिणः गानश्रवणाय शतं सुवर्णनाणकानि ददातु इति कथयति । तदनन्तरं सः साधुः उपयामेकं कृत्वा विजयरामं समीचीनं पाठं पाठयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain town, there was a wealthy man named Vijayarama, who was extremely greedy. Accumulating wealth was his distorted nature. One day, a sage heard a bird's melodious singing in the garden near Vijayarama's house. He gave a gold coin and said, "With this, buy fruits, seeds, and treats favored by birds and give them to the bird." But the greedy man insisted, "For listening to my bird's singing, pay me a hundred gold coins." Thereafter, the sage crafted a clever plan and taught Vijayarama a valuable lesson.
41.भीमावतारः
सुन्दरपुरनाम्नि ग्रामे कस्यचन कृषकस्य पुत्रः अनिलः अलसः युवकः निरुद्योगी सन् आदिनं मित्रैः सह इतस्ततः भ्रमन् आसीत् । कदाचित् सूर्यास्तसमये समीपस्थात् पर्वतात् अवरोहद्भिः आरुह्यमाण: कश्चन वृद्धः लघुना दीपेन सह दृष्टः । आचर्येण यदा अनिलः अपृच्छत् तदा सः वृद्धः शिखरस्थं शिवालयं गन्तुम् इच्छामि इति अवदत् । तदनन्तरं यानि हितवचनानि वृद्धेन उक्तानि तानि वचनानि हासः च अनिलस्य मनसि मुहुर्मुहुः गुञ्जनम् अकुर्वन् । उद्यमस्य महत्त्वमपि अवगतं तेन । अपरेद्युः ब्राह्मे अहनि हलं गृहीत्वा गच्छन्तं पुत्रं दृष्ट्वा पित्रा आनन्दः अनुभूतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a village named Sundarpuri, there was a farmer’s son, Anil, who was a lazy and unemployed youth wandering around aimlessly with his friends. One evening at sunset, he noticed an elderly man descending from a nearby mountain with a small lamp. Out of curiosity, Anil asked him what he was doing. The elderly man replied that he wished to reach the Shiva temple located at the mountaintop. Subsequently, the wise words spoken by the elderly man left a profound impression on Anil. He also came to understand the importance of hard work. The very next day, his father was overjoyed to see Anil waking up early in the morning and heading out with a plow.
कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता । सहसा तस्याः दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च । अग्रिमदिने यदा सा कलिका पुष्पतां गता कश्चन भक्तः तत् पुष्पम् अविचित्य देवविग्रहस्य चरणयोः समर्पितवान् । स्वस्य अधोगतिं दृष्ट्वा कलिकया महान् खेदः अनुभूतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a bud admired her unparalleled beauty and became proud. Suddenly, her gaze fell upon a nearby dust-covered piece of stone and she said, 'What a distorted state the Creator has placed you in!' The stone remained silent and unresponsive. The next day, a sculptor arrived and carved that stone into an idol of a deity, which he then placed in a temple. On the following day, the bud, now turned into a flower, was plucked by a devotee and offered at the feet of the deity's idol. Witnessing her own downfall, the bud felt immense regret.
From the publisher's feed