
Sign up to save your podcasts
Or


भारतीयेतिहासस्य मध्यकाले चित्रदुर्गनामके संस्थाने सैनिककुटुम्बे जयसिंहः नाम कश्चन युवकः खड्गादिभिः योद्धुं नेष्यते स्म । गाने वाद्यसङ्गीते च तस्य महती आसक्तिः । 'देशस्य रक्षणं न केवलं शस्त्रेण एव, अपि तु सङ्गीतेनापि शक्यम्' इति वदति स्म । कदाचित् सः ब्रिटिश्सैनिकैः निगृहीतः । उच्चाधिकारी 'अद्य रात्रौ दुर्गस्य मुख्यद्वारस्य पुरतः गातव्यम्' इति अवदत् । सः दुर्गसैन्यस्य जागरणाय गीतम् आरभत । जागरितं दुर्गसैन्यं ब्रिटिशसेनायाः उपरि शरवर्षम् अकरोत् । अनन्यगतिकता ब्रिटिश्सेना प्रत्यगच्छत् । जनाः जयसिंहं बहुधा अस्तुवन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In medieval India, in Chitradurga, a young man named Jayasimha, born into a soldier's family, loved music over weapons. He believed music could protect the nation as much as weapons could. Captured by British soldiers, he was asked to sing at the fort's main gate. Using his song to alert the fort's soldiers, they launched a fierce attack on the British, forcing them to retreat. Jayasimha was widely praised and celebrated by the people.
अङ्गारदेशस्य राज्ञः अङ्गदस्य पुत्रः अक्षयकुमारः । प्रधानमन्त्रिणा जीमूतेन युवराजस्य अध्यापनाय भानुमित्रः गर्गः चेति उभौ आचार्यौ चितौ । भानुमित्रः सुन्दरः सम्भाषाणचतुरः उत्कृष्टवस्त्रधारी च आसीत् । गर्गः तु सामान्यः वेषभूषादिषु अनासक्तः मितभाषी च आसीत् । अतः राज्ञ्यै गायत्र्यै गर्गः न अरोचत । केषाञ्चित् दिनानाम् अनन्तरं जीमूतः राजानं राज्ञीं च आयुधशालां नीत्वा मूषातः तप्तायःपट्टिकां स्वीकृत्य दर्शयन् अवदत् 'खड्गस्य तीक्ष्णता अयसः गुणवत्तातः, निर्मातुः कौशलतः भवति । तीक्ष्णताम् एव अवलम्बते खड्गस्य श्रेष्ठता, न तु बाह्य सौन्दर्यम्' इति । एतस्मात् राज्ञी अवगतवती यत् बाह्यदर्शनमात्रेण कस्यापि श्रेष्ठता न परिमातव्या इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Akshayakumar, the son of King Angada of Angaradesha, had two teachers appointed by the Prime Minister Jimuta—Bhanumitra, who was charming and elegant, and Garga, who was simple and reserved. Queen Gayatri preferred Bhanumitra due to his polished appearance and charisma, while she disliked the plain Garga. To teach an important lesson, Jimuta demonstrated in the armory that a sword’s value lies in its sharpness, not its looks. This helped the queen realize that true greatness should not be judged by appearance alone.
कदाचित् प.पू वल्लभदीक्षितः तत्पुत्रः च श्रीधरहर्गेमहाराजः तीर्थयात्रां कुर्वन्तौ गोदावरीनद्याः समीपे स्थितं राजमहेद्रपत्तनम् आगतवन्तौ । सुखसम्पन्नं नगरं दृष्ट्वा वल्लभदीक्षितः सङ्कल्पितवान् यत् सप्त दिनानि भागवतपारायणं कथाश्रवणं च करणीयम्, तदवसरे सर्वजातिबान्धवानाम् अपि भोजनव्यवस्था करणीया इति । किन्तु नगरस्य धनिकाः वणिजः अदृष्टपूर्वे जने अधिकं विश्वासं कर्तुम् अनिच्छन्तः साहाय्यं न कृतवन्तः । यस्मिन् दिने वल्लभदीक्षितः पारायणस्य आरम्भं कृतवान् तस्मिन्नेव भगवान् रामः, लक्ष्मणः, हनूमान् च वेषान्तरं धृत्वा आपणं स्थापयित्वा सहस्रशः जनेभ्यः भोजनं दत्तवन्तः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the revered Vallabhadikshita and his son, Shri Dharahargemaharaj, embarked on a pilgrimage and arrived at Rajamahendrapattanam, situated near the Godavari river. Upon seeing the prosperous town, Vallabhadikshita resolved to conduct a seven-day Bhagavata recitation and storytelling session. On this occasion, he decided to arrange food for people from all communities and castes. However, the wealthy merchants of the town, reluctant to trust an unfamiliar person, refused to offer help. On the very day Vallabhadikshita began the recitation, Lord Rama, Lakshmana, and Hanuman, disguised in different forms, established a stall and served food to thousands of people.
कदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् । किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत् इति जिज्ञासायां कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Akbar thought in his mind, 'Birbal always makes me the subject of ridicule. Once, I must make him a subject of ridicule instead'. Then, one day, Akbar even made an effort. However, Birbal was extraordinary. Defeating him was indeed difficult. Akbar's attempt proved futile. If you're curious to know what happened between Akbar and Birbal, listen to the story.
कदाचित् नारदः स्वसोदराणां सनक-सनत्कुमार-सनन्दन-सन्त्सुजातानां वैराग्यम् आत्मज्ञानप्राप्तिजिज्ञासां जानन् 'योग्यं गुरुम् अन्विष्य मुक्तिं प्राप्तुं प्रयत्नं कुर्वन्तु' इति स्मारितवान् । सनकादयः वैकुण्ठं यदा गतवन्तः तत्र लक्ष्मीसहितं विष्णुं, तत्रत्यं वैभवं दृष्ट्वा आत्मज्ञानं कथं लभेत इति अचिन्तयन् । सर्वम् अन्तर्ज्ञानेन जानन् शिवः सनकादीन् अनुग्रहीतुम् इच्छन् दक्षिणामूर्तिरूपेण अवतारं प्राप्य वटवृक्षस्य अधः चिन्मुद्रां धृत्वा उपाविशत् । वैकुण्ठतः प्रत्यागच्छन्तः सनकादयः शिवस्य दर्शनसमनन्तरं त्रिभिः प्रदक्षिणैः तं नमस्कृत्य पादमूले उपविश्य समाधिस्थाः सन्तः आत्मज्ञानवन्तः जाताः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Narada, noticing his brothers’ desire for self-realization, advised them to find a wise teacher to achieve liberation. The Sanakas visited Vaikuntha, where they saw Lord Vishnu with Goddess Lakshmi and the splendor of his realm. However, they wondered how self-realization was possible amidst such luxury. Understanding their quest, Lord Shiva appeared as Dakshinamurti, seated under a banyan tree in silence, symbolizing wisdom. When the Sanakas returned and saw Dakshinamurti, they bowed to him, meditated, and in his presence, achieved self-realization and ultimate truth.
शान्तिपुरं नाम किञ्चन राज्यं शान्तिप्रियः अमलवर्मा परिपालयति स्म । कदाचित् शान्तिपुरस्य प्रतिवेशिराज्यस्य परमक्रूरः लोभी च राजा क्रूरसिंहः पूर्वसूचनां विना युद्धघोषणं कृतवान् । कथञ्चिदपि युद्धं निवारयितुं अमलवर्मा मक्षिकाणां महाराजेन मक्षीशेन मिलित्वा साहाय्यं पृष्टवान् । युद्धतः प्रत्यागमनान्तरं राज्ये वासार्थम् अनुमतिः दातव्या इति मक्षीशः प्रार्थितवान् । मक्षिकाः उपायेन युद्धं जित्वा शान्तिपुरं यदा आगतवत्यः तदा शान्तिपुरे कुत्रापि अस्वच्छं स्थानम् अप्राप्य अन्यत्र गतावत्यः । एवं राजा अमलवर्मा स्वस्य विवेकायुधेन महाराजं क्रूरसिंहं महाराजं मक्षीशं च पराजित्य शान्त्या शान्तिपुरं परिपालितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a kingdom named Shantipur, ruled by the peace-loving king Amalavarma. Once, the neighboring kingdom’s cruel and greedy king, Krurasimha, declared war without any prior notice. To prevent the war, Amalavarma sought help from the king of flies, Makshisha. Makshisha agreed to assist on the condition that his flies would be allowed to reside in the kingdom after the battle. Using clever strategies, the flies helped win the war, and they came to Shantipur afterward. However, as the kingdom was impeccably clean, the flies found no unclean place to settle and went elsewhere. Thus, King Amalavarma, using his wisdom and cleanliness, overcame both Krurasimha and Makshisha, ensuring peace in Shantipur.
कस्यचन वणिजः गृहे प्रभूतः कार्पासः अस्तीति ज्ञात्वा कश्चन चोरः तं चोरयितुम् आगतः । कार्पासस्य बन्धनाय यावत् वस्त्रं प्रसारितवान् तावता चतुरेण वणिजा जागरणं प्राप्य मन्दम् उत्थाय वस्त्रम् अपसारितम् । कथञ्चिदपि कार्पासं नेतव्यमिति निश्चित्य स्वस्य युतकम् ऊरुकं च प्रसारितवान् यत् वणिजा अपसारितम् । चोरः निर्वस्त्रः जातः । ततः वणिक् गृहसदस्यान् जागरय्य चोरं बद्धवान् । एवं वणिजा स्वबुद्धिमत्तया चोरः गृहीतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A thief once learned that a merchant's house contained a large stock of cotton and arrived at the merchant's house. As he started spreading out a cloth to bundle the cotton, the clever merchant, who had been roused from his sleep, quietly removed the cloth. Determined to take the cotton at any cost, the thief then spread out his own shirt and trousers to tie up the cotton. Once again, the merchant removed them. Consequently, the thief ended up completely naked. The merchant then woke up his household members and captured the thief.
'यथा कृत्यं तथा फलम्' इति वचनस्य उत्तमम् उदाहरणं भवितुम् अर्हति एषा कथा । कदाचित् मित्रे गजवानरौ नद्याः अपरस्मिन् तीरे स्थितानि स्वादूनि फलानि खादितुम् उद्युक्तौ । वानरः अङ्कुशं गृहीत्वा गजस्य पृष्ठे उपविष्टवान् । सः कदाचित् अङ्कुशेन गजं ताडयित्वा, पीडयित्वा कार्यं कारयन्तं हस्तिपकं दृष्टवान् आसीत् । गजः नद्यां किञ्चिद्दूरं गतवान् तदा वानरः गजम् अङ्कुशेन पीडयितुम् उद्युक्तः । गजः महतीं वेदनाम् अनुभूतवान् । यदा गजः नद्याः मध्यभागं प्राप्तवान् जले निमग्नः अभवत् । तरणम् अजानन् वानरः जले निमज्जनेन अचिरात् मरणं प्राप्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story serves as an excellent example of the saying, "As you sow, so shall you reap". Once upon a time, two friends—a monkey and an elephant were eager to eat some delicious fruits on the other side of the river. The monkey, holding a goad (ankusha), climbed onto the elephant's back. Having seen how a mahout (elephant keeper) controlled an elephant by striking and causing pain with the goad, the monkey decided to do the same. He began striking the elephant with the goad, causing great pain to the elephant. When they reached the middle of the river, the elephant submerged itself in the water. Being unable to swim, the monkey drowned in the water shortly afterward.
सन्ततुकारामः पुण्यपत्तनसमीपे देहुनामके ग्रामे निवसति स्म । सः प्रातः उत्थाय स्नानादिकं कृत्वा भोजनादिचिन्ताम् अकृत्वा वीणां करतालं च गृहीत्वा निर्जनं पर्वतं गच्छति स्म भजनं कर्तुम् । सः सर्वेषु अपि प्राणिषु स्थितः परमात्मा एव इति विचिन्त्य धान्यक्षेत्रे पक्षिणः न निवरयति । कदाचित् क्षेत्रस्वामिनः प्रेषितं धान्यराशिम् अपि ग्रामजनेभ्यः वितरति । सः आत्मवत् सर्वभूतानि अपश्यत् इति अनया कथया ज्ञायते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Saint Tukaram lived in a village named Dehu near Pune. He would rise early in the morning, complete his daily rituals and without worrying about food or other worldly matters, he would take his veena and cymbals and head to a secluded mountain to engage in devotional singing and worship. Believing that the Supreme Soul resides in all living beings, he did not prevent birds from feeding in the grain fields. On occasion, he even distributed grain heaps, sent by the landowners, to the villagers.
दक्षिणभारते काञ्चिनगरे कस्यचन यज्ञस्य प्रवेशद्वारे मृत्युदेवस्य यमराजस्य वक्रदृष्टिः अपतत् इति कारणेन कश्चन पारवतः म्लानमुखः आसीत् । तत्रैव स्थितः सरलहृदयः सहायमनस्कः च गरुडः कारणं ज्ञात्वा पारवतं पारेयोजनसहस्रं सुमेरुपर्वतस्य कन्दरां प्रापय्य प्रत्यागतः। यज्ञसभातः निष्क्रामन् यमराजः पारवतस्य गहनतामासु सुमेरुकन्दरासु एकेन बिडालेन कथं सम्पाद्यते इति जिज्ञसां गरुडाय प्रकटयति तदा गरुडः प्रवृत्तं सर्वम् अकथयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In South India, near the entrance of a sacrificial ceremony, the god of death, Yamaraja, cast a stern glance, which caused a parrot to become distressed. Nearby, Garuda, known for his kind heart and helpful nature, understood the reason behind the parrot's sorrow. He swiftly carried the parrot across thousands of leagues to the caves of Mount Sumeru and returned. Later, as Yamaraja emerged from the sacrificial ceremony, he expressed curiosity to Garuda about how the parrot would meet its fate in the depths of Sumeru's caves through a cat. Garuda then narrated the entire sequence of events. A story of destiny and divine intervention.
From the publisher's feed