बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • दृढा मातृभक्तिः

    आशुतोषमुखर्जी कोलकाताविश्वविद्यालयस्य कुलपतिः कोलकातायाः उच्चन्यायालयस्य न्यायाधीशश्च आसीत् । एतम् इङ्गलेण्डं प्रति प्रेषयितुम् ऐच्छत् तत्कालीनः सर्वकारः । किन्तु धार्मिकैः कारणैः मात्रा न अनुमन्यते ।  मातुः आज्ञां शिरसा वहन् आशुतोषमुखर्जी सर्वकारं सूचयति । एतत् ज्ञात्वा कठोरमनस्कः लार्ड् कर्झनः कोपाविष्टः जातः । तस्य आदेशस्य तिरस्कारं कोऽपि कर्तुं न अर्हति स्म । तथापि आशुतोषः अल्पाम् अपि भीतिम् अप्राप्नुवन् गाम्भीर्येण अवदत् 'मातुः आज्ञां तिरस्कर्तुं न अर्हामि । मातृदेवो भव इति बोधयति अस्माकं संस्कृतिः' इति । आशुतोषस्य दृढां मातृभक्तिं दृष्टवतः कर्झनस्य आक्रोशः उपशान्तः । स्वस्य विचारं सः परिवर्तितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Ashutosh Mukherjee was the Vice-Chancellor of Calcutta University and a judge of the Calcutta High Court. The then government wished to send him to England, but his mother disapproved due to religious reasons. Honoring his mother's wishes, Ashutosh conveyed his decision to the authorities. Upon learning this, the rigid-minded Lord Curzon became enraged, believing that none could defy his orders. However, Ashutosh, without the slightest fear, firmly stated, ‘I cannot disregard my mother's command. Our culture teaches us to revere the mother as divine’. Witnessing Ashutosh's unwavering devotion, Curzon's anger dissipated, and he ultimately changed his stance.

    3 min
  • सा योग्यता

    यद्यपि बहवः ऋषयः जनकमहाराजस्य आगमानात् पूर्वमेव आगच्छन्ति स्म तथापि महर्षिः याज्ञवल्क्यः  जनकमहाराजस्य अगमानानन्तरमेव उपदेशस्य आरम्भं करोति स्म । 'जनकमहाराजे अस्मासु अविद्यमाना का योग्यता अस्ति?’ इति ऋषीणां परस्परं वार्तालापः याज्ञवल्क्येन ज्ञातः । सः तेषां बोधनाय एकम् उपायं चिन्तितवान् ।  कदाचित् धर्मोपदेशसमये कश्चन वटुः आगत्य 'कुटीराणि अग्निना ज्वलन्ति अस्ति' इति यदा वदति तदा सर्वे ऋषयः धावित्वा स्वीयानि वस्तूनि आनीतवन्तः ।  किञ्चित्कालानन्तरम् यदा अन्यः कश्चन वटुः आगत्य 'मिथिलानगरे अग्निस्पर्शः जातः' इति अवदत् तदा महाराजः किञ्चिदपि विचलितः न अभवत् । अनेन उपायेन ऋषीणां राज्ञः च भेदः महर्षिणा दर्शितः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Despite many sages arriving before King Janaka, Sage Yajnavalkya started his discourse only after the king's arrival. Hearing the sages question Janaka's superiority, he devised a plan. During a discourse, a student ran in, claiming the huts were on fire, prompting the sages to rush for their belongings. Later, another student declared Mithila was ablaze, yet Janaka remained calm. Through this, Sage Yajnavalkya demonstrated the difference between the sages and the king - true detachment and unwavering equanimity in the face of adversity.

    5 min
  • सद्यः प्रक्षालकवृत्तिः

    कश्चन दैवभक्तः महाराजः तस्य परमसुन्दरीं भक्तिमतीं च पुत्रीं भगवति यस्य सम्पूर्णः विश्वासः भवति तस्मै दातुम् इच्छति । कदाचित् सुप्रसन्नं, कौपीनधारिणं,  भगवतः पुरतः स्थित्वा ध्यायन्तं च तरुणं दृष्ट्वा कांश्चन प्रश्नान् राजा अपृच्छत् । तस्य उत्तराणि श्रुत्वा सानन्दं तेन सह पुत्र्याः विवाहं कारितवान् । गृहगमनसमये कस्यचित् वृक्षस्य कोटरे स्थापितं जलं रोटिकाखण्डं च तरुणः पत्न्यै अयच्छत् । पतिः भगवति विश्वासम् अकृत्वा श्वः खादनार्थम् इति रोटिकां सञ्चितवान् इति ज्ञात्वा पत्नी रोदनम् आरब्धवती । लज्जितः तरुणः रोटिकां अक्षिपत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A devout king wished to marry his beautiful and pious daughter to someone who had complete faith in God. One day, he saw a young man, serene and wearing simple attire, meditating before the deity. The king asked him some questions, and upon hearing his answers, he joyfully arranged his daughter's marriage with him. On their way home, the young man offered his wife some water and a piece of bread he had stored in the hollow of a tree. Realizing that her husband had kept the bread for the next day's meal rather than trusting God to provide, the wife began to weep. Ashamed, the young man discarded the bread, understanding the depth of true faith.

    7 min
  • यद्यदाचरति श्रेष्ठः.....

    कश्चन वृद्धः प्रतिदिनं प्रवचनं श्रोतुं गृहस्य समीपस्थम् आश्रमं गच्छति स्म । गच्छता कालेन तस्य श्रवणशक्तिः न्यूना जाता चेदपि सः प्रवचनं श्रोतुं गच्छति स्म । एकदा प्रवचनकारेण कारणे पृष्टे वृद्धः वदति 'अहं परिवारस्य प्रमुखः अस्मि । अहम् अत्र आगच्छामि इति ज्ञात्वा मम परिवारजनाः अपि आगच्छन्ति । तेन तेषां हृदये भगवतः विषये श्रद्धा जीविता तिष्ठति । अतः श्रोतुम् अशक्तः अपि अहम् अत्र आगच्छामि' इति । प्रवचनकारः 'यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः' इति गीतायाः वाक्यं स्मृतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    An elderly man would go to a nearby ashram every day to listen to discourses. Over time, his hearing ability declined, yet he continued attending the discourses. One day, the speaker asked him the reason for his persistence. The old man replied, "I am the head of my family. Seeing me come here, my family members also follow. This keeps their faith in God alive in their hearts. Hence, even though I am unable to hear, I still come." The speaker was reminded of the verse from the Bhagavad Gita: "Whatever a great person does, others follow in their footsteps."

    3 min
  • कुटीरपरिवर्तनम्

    कस्यचन वणिजः गृहम् उभयतः द्वौ लोहकारौ कुटीरं निर्माय प्रतिदिनं प्रातः आरभ्य रात्रिपर्यन्तं कार्यं कुरुतः । आदिनं कर्कशं लोहकुट्टनशब्दं सोढुम् अशक्नुवन् वणिक् एकम् उपायं करोति । परेद्यवि ताभ्यां लोहकाराभ्याम् अन्यकुटीरगमनार्थं सहस्रं रूप्यकाणि अयच्छत् । उभौ अपि अङ्गीकृतवन्तौ । किन्तु अग्रिमदिवसे पुनः कुट्टनशब्दं श्रुत्वा यदा वणीक् तौ पृच्छति तदा तौ वदतः 'आवां कुटीरपरिवर्तनं कृतवन्तौ । वामभागे कुटीरे स्थितः अहम् इदानीं दक्षिणभागे निवसामि । सः इदानीं वामभागे निवसति' इति । एतत् उत्तरं श्रुत्वा वणिक् मूकः एव अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The story humorously narrates the struggle of a merchant who had two blacksmiths working in huts on either side of his house, creating a constant racket from dawn till night. Unable to tolerate the noise, he offered each blacksmith a thousand rupees to move to a different hut. Both agreed, but the next day, the merchant heard the same clanging noise. When he questioned them, they explained, "We have moved to a different hut. I now live in the hut on the right, and he lives in the hut on the left". Hearing this, the merchant was left speechless.

    4 min
  • सः एव साधुः

    कदाचित् कश्चन शिष्यः बौद्धधर्मप्रसारणार्थं सूनप्रातपरिषदं गन्तुम् इच्छामि इति बुद्धं वदति ।  बुद्धः सर्वदा गमनसमये शिष्याणां मनोबलं सम्यक् परिशील्य एव तान् अन्यत्र प्रेषयति । अतः बुद्धः एतं शिष्यं  परीक्षते ।  बुद्धः बहून् प्रश्नान् पृच्छति, भाययति च ।  किन्तु शिष्यः किञ्चिदपि विचलितः न अभवत् ।  शिष्यस्य मुखात् निर्गतानि वचनानि श्रुत्वा तस्य ज्ञानं धैर्यं च ज्ञात्वा बुद्धः अत्यन्तं सन्तोषम् अनुभूतवान् ।  सः एव साधुः यः कस्याञ्चिदपि स्थितौ परिच्छिद्रान् न पश्यति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A disciple wanted to go to Sunaprat Parishad to spread Buddhism. Before sending him, Buddha tested the disciple's mental strength by asking many questions and provoking him. However, the disciple remained calm and composed. Buddha was pleased with the disciple's wisdom and patience, realizing he was ready for the task. The story highlights the importance of calmness in the face of challenges.

    6 min
  • वैराग्यस्य महिमा

    इयं कथा पितापुत्रयोः व्यासशुकदेवयोः मध्ये संवादरूपेण वर्तते । शुकदेवः यदा जन्म प्राप्तवान् तदा एव उत्थाय पितरं नमस्कृत्य वनं गन्तुं सज्जः अभवत् । पुत्रस्य एतादृशं व्यवहारं दृष्ट्वा विस्मितः व्यासः पुत्रस्य मनसि कथमपि संस्कारविषये आसक्तिः जनयितव्या इति मत्वा बहून् विषयान् वदति । परन्तु केनापि शुकदेवः न विचलति । वादप्रतिवादयोः अनन्तरं व्यासः विरक्तः सन् पुत्रस्य वनगमननिर्णयम् अङ्गीकरोति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The story revolves around a conversation between Vyasa and his son, Shukadeva. When Shukadeva was born, he stood up, bowed to his father, and prepared to leave for the forest. Vyasa, surprised by his son's behavior, tried to engage him in worldly matters, hoping to spark some attachment. However, Shukadeva remained unaffected. After much discussion, Vyasa, feeling detached himself, eventually accepted his son's decision to renounce worldly life and head to the forest.

    5 min
  • यादृशं मनः तादृशः कायः

    कदाचित् कश्चन काव्यकुशलः जैनाचार्यः किञ्चन महाकाव्यं रचयितुम् आरब्धवान् । कस्मिंश्चित् सर्गे जलधेः वर्णनं कर्तुम् आरभते । जलधेः विषयमेव सर्वदापि सः चिन्तयन् भवति । तन्मधे जलोदररोगेण ग्रस्तः भवति । सर्वं वृत्तान्तं ज्ञात्वा वैद्यः वदति 'जलधेः वर्णनं समाप्य मरुभूमेः वर्णनं करोतु' इति । जैनाचार्यः विस्मितः सन् अपि वैद्यस्य सूचनां श्रद्धया अपालयत् । जलोदररोगः शान्तः भवति । मनसि यादृशः विचारः क्रियते तादृशः एव प्रभावः शरीरे अपि भवति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A Jain poet began composing an epic poem. While describing the ocean in one section, his constant thoughts about it led to water-related illness. A physician, upon learning this, advised him to complete the ocean description and shift focus to the desert. Trusting the physician’s advice, the poet complied and his ailment subsided. The story highlights how thoughts in the mind can directly influence the body.

    3 min
  • उपदेशाचरणयोः अन्तरम्

    कदाचित् कश्चन बौद्धभिक्षुः कम्बोजराज्यम् आगत्य महाराजं तिङ्गभिङ्गं प्रति तस्य राज्यस्य राजपुरोहितः भवितुम् इच्छामि इति कामनां प्राकटयत् । किन्तु राजा 'पुनरपि एकवारं धर्मग्रन्थानाम् आवृत्तिं कृत्वा अगच्छेत्' इति अवदत् । कुपितः सन् सः भिक्षुः किमपि अनुक्त्वा धर्मग्रन्थानाम् अध्ययनम् एकवर्षं यावत् कृत्वा पुनरागच्छति । किन्तु राजा 'एकान्तवासम् अनुभवन् पुनरपि धर्मग्रन्थानां पारायणं करोति चेत् उत्तमं भवति' इति वदति । नागरिकप्रपञ्चस्य समग्रकोलाहलतः दूरे नदीतीरे प्रार्थनाकरणेन भिक्षुणा आनन्दः प्राप्तः । यदा राजा स्वयमेव गत्वा भिक्षुम् आह्वयति तावता भिक्षोः कामना संपूर्णतया अपगता आसीत् । उपदेशेन अहङ्कारः भवति किन्तु आचरणेन आनन्दः भवति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A Buddhist monk approaches King Tingabhanga of Kamboja, expressing a desire to become the royal priest. The king instructs him to study religious scriptures once more before returning. The monk, annoyed but determined, spends a year studying and returns, only to be asked to retreat in solitude and reread the texts. The monk complies and, through prayer by a river far from worldly chaos, finds deep joy. When the king invites him back, the monk realizes his desire has faded, discovering that teaching brings pride, but practicing virtue leads to true happiness.

    5 min
  • सर्वश्रेष्ठः पुण्यात्मा

    कदाचित् साक्षात् भगवान् विश्वनाथः मन्दिरस्य पूजकस्य स्वप्नम् आगत्य 'अहं सर्वश्रेष्ठाय पुण्यात्मने कमपि पुरस्कारं दातुम् इच्छामि' इति अवदत् । अनन्तरदिने पूजकः सर्वत्र घोषम् अकरोत् । ततः विभिन्नेषु प्रदेशेषु विद्वांसः, धर्मात्मानः, दातारः, साधकाः च मन्दिरं समागताः । पूजनसमये भगवतः मूर्तेः पुरतः एकं स्वर्णपात्रम् आगतम् । परीक्षार्थं सः पूजकः येषां हस्ते स्वर्णपात्रं ददाति तेषां हस्तं प्राप्य तत्क्षणं मृत्तिकामयं भूत्वा स्वप्रकाशरहितं भवति । कदाचित् कुष्ठरोगपीडितं जनं सेवित्वा वृद्धकृषकः आगतवान् । पूजकः तस्य हस्ते स्वर्णपात्रं स्थापितवान् । तस्य हस्ते पात्रस्य प्रकाशः द्विगुणितः जातः । तदा पूजकः ज्ञापितवान् यत् यः निःस्वार्थः, दयायुक्तः, दाता च भवति, सः एव सर्वश्रेष्ठः इति । भगवता दत्तं स्वर्णपात्रं तस्मै वृद्धकृषकाय दत्तवान् च ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Lord Vishwanath appeared to the temple priest in a dream, expressing a desire to reward the most virtuous soul. The priest spread the announcement, attracting scholars, donors, and spiritual seekers. During the worship, a golden vessel appeared before the deity but turned to mud in everyone’s hands. When a humble, elderly farmer—who had served a person suffering from leprosy—held it, the vessel’s glow doubled. The priest recognized that true greatness lies in selflessness, compassion, and generosity, and awarded the golden vessel to the farmer.

    9 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।