
Sign up to save your podcasts
Or


राजसूययज्ञे श्रीकृष्णः समागतः । सर्वे पाण्डवाः तस्य स्वागते संलग्नाः सञ्जाताः । श्रीकृष्णः युधिष्ठिरम् अकथयत् 'मया किं कार्यं करणीयम्?’ इति । युधिष्ठिरः तम् आदरपूर्वकम् आसनग्रहणाय आमन्त्रितवान्, किन्तु श्रीकृष्णः कार्यं कर्तुम् दृढसङ्कल्पं कृतवान् । पाण्डवानां प्रतिरोधेऽपि श्रीकृष्णः ततः गत्वा अतिथीनां भोजनपत्राणाम् अपनयने संलग्नः सञ्जातः । एतत् दृष्ट्वा कश्चन अतिथिः अकथयत् 'श्रेष्ठः जनः स्वकीयं गौरवं रक्षितुं लघुतरमपि कार्यं महत्तरं भावयति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During the Rajasuya Yajna, Lord Krishna arrived, and all the Pandavas eagerly welcomed him. When Krishna asked Yudhishthira what task he should perform, Yudhishthira respectfully invited him to take a seat. However, Krishna was determined to contribute through action. Despite the Pandavas' insistence, Krishna went ahead and engaged himself in clearing the guests' food plates after their meals. Witnessing this, one of the guests remarked, "A truly great person upholds their dignity by valuing even the smallest task as significant".
कदाचित् काचित् काकमाता शुकस्य इव मम रूपैश्वर्यं नास्ति इति हीनभावनया सर्वदा खिद्यते स्म । अथ कदाचित् पञ्चवर्णशुकः आगत्य वृक्षशाखायाम् उपविष्टवान् । तं दृष्ट्वा एतादृशं सौन्दर्यं मम नास्ति इति काकमाता चिन्तयन्ती आसीत् तावता कुतश्चित् आगतः कश्चन बाणः शुकस्य कण्ठे लग्नः । एतत् दृष्ट्वा काकमाता भीतवती । चिन्तयति च 'देवस्य सृष्टिः व्यवस्थिता वर्तते । अव्यवस्थितं तु अस्माकं मनः एव' इति । एतेन सत्यज्ञानेन काकमाता हीनभावनां विमुच्य आनन्देन शावकैः सह अजीवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a mother crow was constantly troubled by feelings of inferiority, believing she lacked the beauty of a parrot. One day, a vibrant five-colored parrot perched on a tree branch nearby. Seeing its dazzling appearance, the mother crow felt even more disheartened. Suddenly, an arrow struck the parrot’s neck. Witnessing this, the mother crow was terrified and realized a profound truth: ‘The divine creation is well-ordered, it is only our minds that remain unsettled’. With this newfound wisdom, she let go of her complex and lived happily with her young ones.
महाभारते विद्यते अयं श्लोकः - 'न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ।। ' कथायाम् अस्यां श्रीपतिः नाम कश्चित् कृषिवलः यद्यपि श्रीविठ्ठलस्य परमभक्तः तथापि तस्य साहाय्यार्थम् आगतवन्तं देवं न परिज्ञातवान् । अतिवृष्टेः कारणतः समीपवर्तिनी नदी मर्यादाम् उल्लङ्घ्य ग्रामं प्राविशत् । सर्वे ततः पलायितवन्तः श्रीपतिं विहाय । ' श्रीविठ्ठलः मां रक्षति' इति तस्य चिन्तनम् । एकदा जीप्यानं गृहीत्वा, पश्चात् नौकाम् आनीय, अनन्तरं लघुवातयानेन च सह रूपान्तरं धृत्वा देवः स्वयं तस्य रक्षणार्थम् आगतः । किन्तु तस्य साहाय्यं तिरस्कृतवान्, मरणं च प्राप्तवान् । देवः केनापि रूपेण आगच्छति । अस्माभिः एव ज्ञातव्यः, द्रष्टव्यः, श्रोतव्यः च सः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In this story, a farmer named Shripati was a devoted follower of Lord Vitthala, yet he failed to recognize the divine presence when help arrived. Due to heavy rainfall, the nearby river overflowed and flooded the village. Everyone fled, leaving Shripati behind, as he firmly believed, "Lord Vitthala will save me". To rescue him, the Lord appeared in different forms—first as a jeepman, then as a boatman, and finally as a pilot in small aircraft. But Shripati refused all aid, rejecting them as unnecessary. Ultimately, he perished in the flood. The lesson: Divinity comes in many forms; it is up to us to recognize, see, and hear it.
कदाचित् अकबर-बीरबलयोः संवादसमये बीरबलः अवदत् यत् मार्जारस्य शिक्षणं कष्टम् इति । किन्तु अकबरः प्रयत्नेन सर्वं साधयितुं शक्यं इति विचिन्त्य षड् मासान् यावत् षड् मार्जारान् शिक्षितवान् । भोजनसमये तेषां मार्जाराणां मस्तकेषु दीपं संस्थाप्य अकबरः तद्दीपप्रकाशे भोजनं करोति स्म । कदाचित् स्वीयभोजनसमये बीरबलः समाहूतः । एतत् सर्वं दृष्ट्वा बीरबलः अपि विस्मितः । बीरबलः परेद्युः अपि भोजनसमये अगच्छत् । यदा राज्ञा भोजनम् आरब्धं तदा बीरबलेन एकः मूषकः कोषात् निष्कास्य मुक्तः । तं दृष्ट्वा झटिति सर्वे मार्जाराः उत्प्लुत्य अधावन् । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति इत्येतत् सत्यं गीतावचनम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, during a conversation between Akbar and Birbal, Birbal remarked that training cats is difficult. Akbar, believing that anything could be achieved with effort, spent six months training six cats. At mealtime, he placed lamps on their heads and dined by their light. One day, Birbal was invited to witness this spectacle and was amazed. The next day, during mealtime, Birbal returned and, at the right moment, released a mouse from a hidden pouch. Upon seeing it, all the cats immediately leapt and ran after it. This event illustrated an important truth from the Bhagavad Gita: "Beings follow their nature; restraint alone cannot change it".
लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । कदाचित् दर्शनार्थं आगतवन्तं दुलीचन्दं दृष्ट्वा गुरुनानकः अवगतवान् यत् एतस्य धनमदः अधिकः अस्ति इति । अतः सः एकां सूचीं दुलीचन्दाय दत्त्वा अग्रिमजन्मनि प्रत्यर्पणीया इति अवदत् । किञ्चित्कालानन्तरं दुलीचन्दः अवदत् यत् कथं सूचीम् अग्रिमजन्मनि प्रत्यर्पयितुं शक्यते इति । तदा गुरुनानकः अवदत् 'मरणसमये येन एका सूची अपि नेतुम् अशक्या, भवान् स्वस्य समग्रां सम्पत्तिं किं नेतुं शक्नुयात्?’ इति । एतेन ज्ञानोदयं प्राप्य दुलीचन्दः स्वस्य सम्पत्तेः दानम् आरब्धवान् । गुरुनानकस्य परमभक्तः जातः च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Lahore, the wealthy Duli Chand visited Guru Nanak, who immediately sensed his arrogance. To teach him a lesson, the Guru gave him a needle, saying it must be returned in his next life. Confused, Duli Chand asked how that was possible. Guru Nanak responded, "If you can't take even a needle with you after death, how can you carry your wealth?". Realizing the truth, Duli Chand began donating his riches and became a devoted disciple.
भारतस्य पूर्वतटे 'जगन्नाथपुरी' नाम महत् पवित्रं क्षेत्रमस्ति इति तु वयं जानीमः एव । राजा इन्द्रद्युम्नः एव तस्य मन्दिरस्य निर्माणं कृतवान् । जगन्नाथस्य मूर्तिः नेत्रमात्रयुक्ता अस्ति । किमर्थं हस्तपादविरहिता मस्तकयुक्ता मूर्तिः तत्र दृश्यते इति जानन्ति वा ? सा मूर्तिः अधुना अपि भक्तान् 'यः प्रभुकार्यं कर्तुम् इच्छति, सः अहङ्कारं त्यजेत् एव' इति उपदिशति । एवं किमर्थम् इति सर्वम् इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
On the eastern coast of India lies the sacred site known as 'Jagannath Puri', a place well known to many. It was King Indradyumna who constructed the temple there. The idol of Lord Jagannath is unique, as it has only eyes. Do you know why the idol lacks hands and feet but has a head? Even today, this idol conveys a profound message to devotees: "One who wishes to serve the Lord must first relinquish pride". To understand why this is so, one must listen to the intriguing story behind it.
कश्चन अविवेकी, उद्धतः, कोपशीलः, विलासी च राजा प्रजाभ्यः अधिकं करं स्वीकरोति स्म । अथ कदाचित् सञ्चरन्तौ राजपुत्रौ अश्वाभ्याम् पतितवन्तौ । राजपुत्रौ इति ज्ञात्वा जनाः तयोः साहाय्यं न कृतवन्तः । 'भवतोः पिता अस्मान् पीडयन् अस्ति । निर्गच्छताम् इतः' इति अवदन् । अग्रे गच्छन्तौ तौ वृषभेन तुम्फनं प्राप्य व्रणितं निर्धनं बालकमेकं शुश्रूषया सत्कृत्य गृहं प्रापितवतः जनान् दृष्टवन्तौ । प्रासादम् आगतौ पुत्रौ राजानं प्रवृत्तं सर्वं विदितवन्तौ । एतत् श्रुत्वा राजा जनानां प्रीतेः सम्पादनार्थं प्रयत्नम् आरब्धवान् । विवेकेन शासनपरिष्कारं कृत्वा सः श्रेष्ठः राजा इति ख्यातः जातः । स एव चालुक्यचक्रवर्ती षष्ठः विक्रमादित्यः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A foolish, arrogant, short-tempered, and indulgent king imposed heavy taxes on his subjects. One day, his two sons, while riding, fell off their horses. Seeing them, people refused to help them, saying, ‘Your father oppresses us. Leave this place!’. As the two continued on their journey, they came across a wounded, impoverished boy struck by a bull. The people compassionately treated his injuries and brought him home. Upon returning to the palace, they informed the king of what had transpired. Hearing this, the king realized his mistakes and began efforts to earn his people's goodwill. Reforming his governance with wisdom, he became a revered ruler, known as Chalukya Emperor Vikramaditya VI.
पुरा कौशिकीनद्याः जलौघकारणात् बहवः ग्रामाः जनशून्याः जाताः । कस्यचन वृद्धकृषकस्य कुटुम्बजनाः अपि कष्टम् अनुभूतवन्तः । ग्रामम् अपि त्यक्तुम् इच्छन्ति स्म । कदाचित् शौचार्थं गतेन वृद्धेन पत्रविहीने शुष्के आम्रवृक्षे एकः काकः दृष्टः । तत् दृष्ट्वा वृद्धः अचिन्तयत् यत् शुष्केऽपि वृक्षे अयं काकः वृक्षमेतं परित्यज्य अन्यत्र न गतः । किं वयं काकादपि अधमाः जाताः?’ इति । एतत् सर्वं ज्ञात्वा गृहजनाः ग्रामत्यागस्य विचारं त्यक्तवन्तः । अनन्तरं तस्मिन् ग्रामे एव कृषिकार्यं सम्यक् सम्पाद्य सः वृद्धकृषकः पुनः धनाढ्यः सन् महत् सुखम् अनुभूतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Long ago, due to the overflowing waters of the Kaushiki River, many villages became deserted. A poor farmer and his family also suffered hardships and considered leaving their village. One day, while going out for his morning routine, the farmer spotted a crow perched on a barren mango tree. He wondered, ‘Even this crow refuses to abandon the dry tree. Are we, as humans, weaker than a mere bird?’. Realizing this, his family abandoned their plan to leave. They stayed back, worked diligently on their land, and over time, their efforts bore fruit. The farmer regained prosperity and lived a life of contentment in the same village.
आसीत् रामदासः नाम कश्चित् गुरुः यः शिष्याणां परीक्षां कर्तुम् ऐच्छत् । तदर्थं सः एकं फलं पादे संस्थाप्य, तं वस्त्रपट्टिकया बद्धवान् च । वेदनायाः शान्त्यर्थं तस्मात् पिटकात् स्वमुखेन पूयं चूषणीयम् इति यदा गुरुः शिष्येभ्यः वदति तदा शिष्याः स्तब्धाः अभवन् । 'गुरुः प्राणरक्षणार्थं किं भवत्सु कोऽपि नास्ति किम्?’ इति गुरुः यदा पृच्छति तदा सहसा एव कश्चन शिष्यः पिटकात् मुखेन पूयस्य चूषणम् आरब्धवान् । आश्चर्यम्! पिटकात् न पूयं निर्गतम्, अपि तु अतिमधुरः आम्ररसः । आनन्दितः गुरुः वदति 'विषं पातुं महत् धैर्यम् आवश्यकम् । एषः न सामान्यः । भाविनि काले जगत्प्रसिद्धः नृपः भवति' इति । एषः एव बालकः भाविनि काले 'छत्रपतिः शिवाजिः’ इति ख्यातिं गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a guru named Ramdas who wished to test his disciples. To do so, he placed a fruit on his foot and tied it with a cloth strip. He then told his disciples that to relieve his pain, someone must suck out the pus from the wound. Shocked, the disciples remained silent. The guru asked, ‘Is there no one among you who can save me?’. Suddenly, one disciple stepped forward and began sucking from the wound. To everyone's surprise, instead of pus, sweet mango juice emerged. Delighted, the guru declared, ‘Drinking poison requires great courage. This boy is no ordinary person—one day, he will become a renowned ruler’. That very boy later became the legendary ‘Chhatrapati Shivaji’.
कदाचित् ज्वरेण ग्रस्तः कश्चन मूर्खः पण्डितः वैद्यसमीपम् अगच्छत् । 'भवता लङ्घनं करणीयम्' इति वैद्यः उक्तवान् । मूर्खः पण्डितः गृहस्य पुरतः स्थितायाः कुल्यायाः उल्लङ्घनम् अकरोत् । ज्वरः अधिकः जातः । पुनः सैन्धवलवणं सेवनीयम् इति वैद्यः अवदत् । कोषे तस्य अर्थः आसीत् अश्वमलम् इति । सः तम् असेवत । पुनः वैद्यः अवदत् कण्टकारिकषायः सेवनीयः इति । कोषे तस्य अर्थः पादरक्षा इति आसीत् । जीर्णया पादरक्षया कषायं सज्जीकृत्य अपिबत् । यदा वैद्यः सर्वं ज्ञातवान् तदा अवदत् 'अहो मूर्खता भवता! लङ्घनं नाम उपवासः, सैन्धवलवणं नाम लवणविशेषः, कण्टकारिः कश्चन मूलविशेषः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a foolish scholar suffering from fever visited a physician. The doctor advised him to undergo langhana. Misunderstanding the term, the scholar jumped over a nearby canal, worsening his condition. Later, the doctor recommended Saindhava lavana, but the scholar interpreted it as horse dung and consumed it. The physician then prescribed Kantakari kashaya, which the scholar misunderstood as worn-out footwear. He prepared a decoction using an old shoe and drank it. When the doctor learned of this, he exclaimed, ‘What foolishness! Langhana means fasting, Saindhava lavana is a special salt, and Kantakari is a medicinal root!’. This story highlights the dangers of ignorance and misinterpretation.
From the publisher's feed