बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • घटस्य मौनम्

    विसनामके नगरे कश्चन कुम्भकारः आसीत् । कदाचित् मङ्गलगीतानि गायन्त्यः स्त्रियः तस्य आपणम् आगत्य विवाहनिमित्तं कञ्चन घटं सपादरूप्यकं दत्त्वा नीतवत्यः । किञ्चित्कालानन्तरं द्वित्राः जनाः आगत्य बन्धोः अन्त्येष्टिकर्मनिमित्तम् आवश्यकमिति यदा उक्तवन्तः तदा कुम्भकारः एकं घटं विना मूल्यम् अयच्छत् । सर्वं पश्यन् आपणे स्थितः घटः स्वजातिबान्धवयोः भिन्ना भिन्ना गतिः जाता इति समीपस्थं घटं स्वाभिप्रायम् असूचयत् । तदा सः कर्तव्यनिष्ठः घटः जीवनस्य मूल्यं कर्तव्यम् अधिकृत्य निर्धारितं भवति इति उपदिशति । कर्तव्यनिष्ठस्य घटस्य वचनं श्रुत्वा सः घटः मौनम् असेवत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In the city of Visanama, there was a potter. One day, women singing auspicious songs visited his shop and bought a pot for a wedding, paying a small sum. Later, a few people came seeking a pot for a funeral. The potter gave it to them for free. Observing this, a nearby pot remarked that two pots of the same kind had met entirely different fates. Another pot, wise and dutiful, explained that the value of life is determined by its purpose and duties. Hearing this, the questioning pot fell silent in realization.

    8 min
  • लोकज्ञानमेव वरम्

    रामस्य एकः विशेषगुणः आसीत् यत् श्रुतां लोकोक्तिं सूक्तिं वा सर्वदा स्मरति स्म । सन्दर्भानुसारं सः स्वानुभावेन पुरजनेभ्यः मार्गदर्शनं करोति स्म । ग्रामजनाः तस्य समीपं मार्गदर्शनार्थं गच्छन्ति स्म । एकदा तस्य देशस्य राजा अल्पसैन्येन सामन्तान् विरुद्ध्य युद्धार्थं प्रस्थितः । मार्गमध्ये ज्ञातवान् यत् एषः रामः वयसा कनिष्ठः चेदपि अस्य महान् अनुभवः अस्तीति । राजा युद्धस्य विषये यदा अभिप्रायम् अपृच्छत् तदा रामः अवदत् 'लघुः अपि सर्पः बृहता दण्डेन प्रहर्तव्यः । अतः इतोऽपि अधिकं सैन्यं नियोज्यताम्' इति अवदत् । अधिकेन सैन्येन सह राजा सामन्तम् अजयत् । रामं मन्त्रिमण्डले नियोजितवान् च ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Rama had a remarkable ability to recall proverbs and wise sayings, using them to guide people according to the situation. Villagers often sought his advice. One day, the king of his land set out to battle the feudal lords with a small army. On the way, he realized that although Rama was young, he possessed great wisdom. When asked for his opinion, Rama advised, “Even a small snake must be struck with a large stick. Deploy more troops”. Following his advice, the king expanded his army and won the battle. Impressed, he appointed Rama to his council of ministers.

    4 min
  • भगवद्भक्तः कुलशेखरः

    'मुकुन्दमाला' नामकस्य उत्कृष्टस्य स्तोत्रस्य रचयिता अस्ति भगवद्भक्तः कुलशेखरः । केरलदेशस्य राज्ञः दृढव्रतस्य पुत्रः अयं राज्ये सुसमृद्धिं सम्पाद्य सदा रामध्याने निरतः भवति स्म । कदाचित् रामकथाश्रवणसमये कथाकारः वदति '.....श्रीरामः एकाकितया खरदूषणाभ्यां सह युद्धाय गतवान्’ इति । कुलशेखरः कथाश्रवणे तावत् तन्मयः आसीत् यत् मया श्रूयमाणा कथा इत्यपि विस्मृत्य झटिति उत्थाय प्रासादं गत्वा श्रीरामस्य साहाय्यार्थं सेनां सज्जीकृतवान् । यदा ते ततः गन्तुम् उद्युक्ताः तदा कथाकारः अवदत् 'श्रीरामः खरदूषणादिसहितां राक्षससेनां संहृतवान्' इति । तत् श्रुत्वा निश्चिन्ततां प्राप्य राजा कुलशेखरः प्रत्यावर्तनाय सेनाम् आदिष्टवान् । एवम् आसीत् तस्य रामभक्तिः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    King Kulasekhara, having brought great prosperity to his kingdom, was deeply devoted to Lord Rama. One day, during a recitation of Rama’s story, he became so engrossed that he forgot it was just a narration. Hearing that Rama had gone alone to battle against Khara and Dushana, he immediately prepared his army to assist. Just as they were about to march, the narrator revealed that Rama had already defeated the demons. Relieved, the king called off his troops. Such was his unwavering devotion.

    3 min
  • बुद्धिवन्तः पशुपक्षिणः

    कस्मिंश्चित् वने सर्पाः निवसन्ति इति कारणेन तत्र मानवाः न गच्छन्ति स्म । किन्तु कदाचित् कश्चन शशशावकः केनचित् व्याधेन नीतः । तम् अन्विश्य यदा पिता अगच्छत् तदा एकः वानरः मिलितः । वानरः सर्वान् पशुपक्षिणः आहूय एतं विचारम् अकथयत् । तदा ते सर्वे मिलित्वा एकम् उपायम् अकुर्वन् । ते मिलित्वा लतादिभिः आच्छन्नस्य कूपस्य उपरि बहूनि तृणानि प्रसार्य, तन्मध्ये वानरेण आनीतां शशप्रकृतिं स्थापितवन्तः च । पुनः सः व्याधः यदा मृगयार्थम् आगतः तदा शशं ग्रहीतुं पादं स्थापितवान् । तत्रत्यैः तृणैः सह कूपे पतित्वा मरणं प्राप्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In a forest inhabited by snakes, humans never ventured. One day, a hunter captured a young rabbit. When its father set out to find it, a monkey joined in and gathered all the animals and birds to discuss a plan. Together, they devised a clever trick. They spread grass over a well covered with vines and placed a rabbit figure in the middle. When the hunter returned for another hunt and stepped forward to seize the rabbit, he fell into the well along with the grass and met his end.

    5 min
  • नम्रस्वभावः एव श्रेष्ठः

    नद्याः तीरे एकः बलिष्ठः शाल्मलीवृक्षः स्थितः आसीत्, यः जलेन सिक्तः महाबलवान् अभवत् । तस्य समीपे अन्ये वृक्षाः अपि आसन्, किन्तु ते नम्राः आसन्, अर्धशरीरं जले निमग्नम् आसीत् । एकदा तीव्रेण प्रचण्डेन च वायुना बलवान् अपि शाल्मलीवृक्षः भूमौ अपतत् । परम् अन्येषां वृक्षाणां काऽपि हानिः न अभवत् । शाल्मलीवृक्षः आश्चर्यम् अनुभवन् अन्यान् वृक्षान् अपृच्छत् "कथं भवतां हानिः न अभवत्?" इति । ते अवदन् "भवान् अहङ्कारी अस्ति यः वायोः प्रभुतां न स्व्यकरोत् । अतः वायुः भवन्तम् अपातयत् । परं वयं नम्राः भूत्वा वायोः प्रभुतां स्वीकृतवन्तः । अतः सुरक्षिताः स्मः" इति । एतत् श्रुत्वा शाल्मलीवृक्षस्य ग्रीवा अवनता अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    By the riverbank stood a mighty silk cotton tree, strengthened by the water that nourished it. Nearby, other trees grew, but they were humble, with half their trunks submerged in the water. One day, a fierce storm struck, toppling the powerful silk cotton tree. However, the other trees remained unharmed. Astonished, the fallen tree asked them, “How did you survive?”. They replied, “You were arrogant and refused to yield to the wind’s force, so it brought you down. We, however, bowed humbly before its power, and thus, we remained safe”. Hearing this, the fallen tree lowered its head in realization.

    2 min
  • अश्रुतपूर्वः श्लोकः

    शाकडालः पाटलीपुत्रस्य नन्दनृपस्य सुशीलः सदाचारी च मन्त्री आसीत् । तस्य सप्त पुत्र्यः आसन् । नन्दराजः नूतनश्लोकान् श्रावयद्भ्यः प्रभूतं पारितोषिकं ददाति स्म । एतेन राजकोषागारमेव रिक्तं भवति इति विचिन्त्य शाकडालः कञ्चन उपायं करोति । कदाचित् कश्चन कविः यदा नूतनश्लोकं श्रावितवान् तदा शाकडालः 'सः नूतनश्लोकः न, मम पुत्रीणां मुखात् श्रुतवान् अस्मि' इति अवदत् । यदा ताः पुत्र्यः राजसभां प्रति आनीताः, तदा कविमुखतः श्लोकम् एकवारं श्रुत्वा झटिति एका तीक्ष्णमती पुत्री तं श्लोकम् उच्चारितवती । द्वितीया च कविना भगिन्या चेति द्विवारम् उक्तं तं श्लोकं श्रुत्वा विनालोपम् अश्रावयत् । एवमेव अन्याः अपि पुत्र्यः पुनरुच्चारितवत्यः । राजा तं कविं रिक्तहस्तेन प्रेषितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Shakadala was a wise and virtuous minister of King Nanda of Pataliputra who had seven daughters. King Nanda used to generously reward poets who recited new verses, which eventually led to the depletion of the royal treasury. Concerned about this, Shakadala devised a plan. One day, when a poet recited a newly composed verse, Shakadala claimed, “This is not a new verse; I have heard it from my daughters”. When his daughters were summoned to the royal court, one of them, who had a sharp intellect, quickly recited the verse after hearing it just once from the poet. The second daughter, upon hearing the verse twice, repeated it flawlessly. Similarly, the other daughters also recited the verse perfectly. As a result, the king sent the poet away empty-handed.

    6 min
  • विवेकोदयः

    संस्कृतपुरे गौतमनामा कश्चन दरिद्रः कृषकः तर्कनामानं वणिजं ऋणं प्रार्थयते । किन्तु वणिक् निराकरोति । कथञ्चिदपि तर्कात् ऋणं स्वीकरणीयमेव इति विचिन्त्य केनचित् उपायेन पञ्चाशत् रूप्यकाणि स्वीकृतानि गौतमेन । यदा धनं प्राप्तं तदा गौतमः उच्चैः हसित्वा पञ्चविंशतिं रूप्यकाणि प्रत्यर्पयन् अवदत् 'भवन्तं पाठयितुम् अहम् एवम् अभिनयं कृतवान् । अवशिष्टं पञ्चविंशतिं रूप्यकाणि ऋणरूपेण दत्तम् इति भावयतु' इति । एतेन प्रसङ्गेन तर्कः अतीव लज्जितः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the city of Samskritapura, a poor farmer named Gautama requested a loan from a merchant named Tarka, who refused. Determined, Gautama cleverly secured fifty coins through an ingenious method. Upon receiving the money, he laughed aloud, returned twenty-five coins, and said, "I staged this act to teach you a lesson. Consider the remaining twenty-five coins as a loan". Ashamed, Tarka realized the deeper message behind Gautama’s actions.

    8 min
  • गुरुदक्षिणा

    पूर्वकाले गुरवः शिष्यान् बोधयितु, तेभ्यः गुरुदक्षिणां स्वीकर्तुं वा बहुधा परीक्षाः कुर्वन्ति  स्म । गुरुतः चतस्रः विद्याः प्राप्तवान् कश्चन शिष्यः गुरुदक्षिणा का इति पृष्टे, गुरुः अवदत् 'उच्छिष्टं, वान्तं, काकविष्ठातः आगतं, शवस्योपरि आच्छादितं वस्त्रं चेति चत्वारि वस्तूनि आनीय ददातु' इति ।  गुरुणा पृष्टानि वस्तूनि अपवित्राणि सन्ति चेदपि अन्तरार्थः कोऽपि स्यात् इति विचिन्त्य वस्तूनाम् अन्वेषणाय ततः निर्गतवान् । गच्छता कालेन तेन ज्ञातं यत् गुरुणा पृष्टाणि चत्वारि वस्तूनि एवं सन्ति इति - गोक्षीरमेव उच्छिष्टम्, मधुमक्षिकाभिः वान्तं मधु, काकविष्ठातः आगतम् अश्वत्थबीजं, कौशेयवस्त्रमेव शववस्त्रम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In ancient times, teachers often tested their disciples before accepting guru dakshina. One such disciple was asked to bring four impure objects—leftovers, vomit, crow droppings, and a cloth from a corpse. Though puzzled, the disciple believed there was a deeper meaning and set out to find these items. Over time, he realized their symbolic significance: Leftovers represented cow’s milk, Vomit referred to honey, regurgitated by bees. Something from crow droppings symbolized the sacred Ashwattha (peepal) seed. Cloth from a corpse meant fine silk.

    5 min
  • नन्दीश्वरः

    आसीत् कश्चन शिलादनामा धर्मात्मा मुनिः यः अयोनिजस्य मरणरहितस्य पुत्रस्य प्राप्त्यर्थं तपः तेपे । प्रसन्नः महादेवः प्रकटीभूय 'वरं वृणीष्व' इति अकथयत् । यदा मुनिः 'भवत्समम् अयोनिजपुत्रम् इच्छामि' इति अवदत् तदा शिवः 'अचिरात् एव कञ्चित् अवतारं ग्रहीष्यामि । अहं तव अयोनिजपुत्रः भविष्यामि । तदा मम नाम नन्दी इति भविष्यति' इति उक्त्वा अन्तर्हितः जातः । कदाचित् मुनयः यज्ञाय यज्ञक्षेत्रं तर्पयन्ति स्म तदा यज्ञात् पूर्वमेव शम्भोः आज्ञया कश्चन जटामुकुटत्रिशूलधारी बालकः उत्पन्नः जातः । शिवादेशानुसारं बालकस्य नाम नन्दी इति निश्चितम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    There was a virtuous sage named Shilada who performed intense penance to obtain an unborn and immortal son. Pleased, Lord Shiva appeared and granted him a boon. When Shilada wished for a son like Shiva himself, the Lord promised to incarnate as his child, naming him Nandi. Later, during a sacrificial ritual performed by sages, a divine child with matted hair and a trident emerged before the yajna was completed—manifested by Shiva’s will. As per the Lord’s decree, the child was named Nandi, destined to be a great devotee and Shiva’s mount.

    5 min
  • पातिव्रत्यप्रभावः

    प्रतिष्ठानपुरे सुदती पतिव्रतपरा स्वं कुष्ठरोगपीडितं पतिं कौशिकं श्रद्धया असेवत । एकदा तं स्कन्धे आरोप्य रात्रौ अनयत् । तदा प्रमादवशात् राजभटाः माण्डव्यमुनिं चोरत्वेन शूलारोपणाय नीतवन्तः । कौशिकस्य पादस्पर्शात् माण्डव्यमुनिः क्रुद्धः भूत्वा तम् अशपत् 'सूर्योदयात् पूर्वं पञ्चत्वम् आप्नोतु' इति । व्याकुला सुदती सूर्यदेवं प्रार्थितवती, परन्तु कौशिकः सपदि मृतः अभवत् । सूर्यदेवः शापग्रस्तः उदयं प्राप्तुम् असमर्थः जातः। दुर्दशां परिहर्तुं सुराः अनसूयादेवीं सम्प्राप्य तां प्रार्थितवन्तः । अनसूया सुदतीं सम्प्राप्य अवदत् 'यदि भवतीं सूर्योदयं साधयितुं शक्नोति, तर्हि पतिदेवं पुनर्जीवितं करिष्यामि' इति । सुदती आत्मदत्तं शापं प्रतिस्वीकृतवती, ततः सूर्यः उदितः। अनसूयादेव्याः पातिव्रत्यप्रभावेण कौशिकः पुनर्जीवितः अभवत् । इन्द्रादयः अनसूयां स्तुतवन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Sudati, a devoted wife, cared for her ailing husband, Kaushika. One night, as she carried him, Kaushika's feet touched Mandavya sage who was mistakenly taken by royal guards as a thief. The enraged sage cursed him to die before sunrise. Though Sudati prayed to the Sun God, Kaushika perished, and the Sun couldn't rise. To restore balance, the gods sought Anasuya’s help. She told Sudati that if she ensured sunrise, Kaushika would be revived. Sudati accepted the curse, allowing the Sun to rise, and Anasuya restored Kaushika. The gods then praised Anasuya’s virtue.

    7 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।