बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • सेवा क्षालयति पापम्

    पूर्वस्मिन् जन्मनि उत्पन्नया प्रतीकारभावनया काचित् गर्भवती नर्तकी अग्रिमजन्मनि राजगृहे हारीतिः नामिका यक्षिणी भूत्वा नगरस्थान् बालान् चोरयित्वा खादनम् आरब्धवती । राजा तस्याः बन्धनं कारयित्वा कारागृहे स्थापितवान् । गौतमबुद्धेन तस्याः पुत्रः अपहरणीयः इति राजभटाः आदिष्टाः । तथा कृते हारीतिः पश्चात्तापं अनुभवन्ती पापात् कथं विमुक्तिः प्राप्तव्या इति प्रार्थितवती ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A dancer in her previous birth, with a desire for revenge, is reborn as yakshini named Haariti. In this life, she steals children from the town and eats them. The King had her captured and imprisoned. Gautama Buddha instructed the King’s soldiers to kidnap her son. After this, Haariti, feeling guilty, prayed, asking how she could be freed from the consequences of her sins.

    5 min
  • जीवनसूत्रम्

    जीवने महान्तम् आघातं प्राप्तः कश्चन जनः, तस्य मित्रं च वाताटस्य उड्डयनं, सूत्रस्य खण्डनं, ततः वाताटस्य पतनं च दृष्टवन्तौ । विषादेन उपविष्टवन्तं मित्रं, सुहृत् जीवनतत्त्वम् उपदिशति - परिवारसंस्कृतादयः सूत्रम् इव व्यवहरन्तः जीवने स्थिरत्वं समतोलनं च ददाति । तस्मात् तेषां खण्डनं कदापि न करणीयम् । एतत् अनवगच्छन्तः वयं परिवारसंस्कृत्यादिकं विस्मृत्य धनैकदृष्ट्यः, उन्नत्यैकदृष्ट्यः सन्तः, अग्रे गच्छामः, पतनं च प्राप्स्यामः इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A person who had faced great difficulty in life, sitting in a park with his friend, noticed the ascent of a kite, the breaking of its string, and then its fall. Observing this, the friend imparted a life lesson to the saddened person: 'Family values and culture are like the string of the kite, providing stability and balance in life. The breaking of such bonds should never happen. However, when we are blinded by the pursuit of wealth or progress, we forget these bonds, move forward, and ultimately, we fall’.

    4 min
  • बालकः चोरः च

    कश्चित् निर्दयः चोरः कस्मिंश्चित् गृहं प्रविश्य जागरितं बालकं रज्जुभिः बध्नाति । क्षणाभ्यन्तरे बालकः बन्धनात् आत्मानम् अमोचयत् । कीदृशः चोरः भवान् यः दृढं बन्धुम् अपि न शक्नोति, कथं बन्धनं करणीयमिति दर्शयिष्यामि इति वदन् बालकः चोरस्य पादौ हस्तौ ग्रीवां च बध्नाति । ग्रन्थीनां शिथीलीकरणे चोरः न शक्तः । रज्जुभिः बन्धनं कर्मभिः बन्धनमिव । कर्मणां बन्धनेभ्यः अस्माभिः मुक्तैः भवितव्यम् । 
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a ruthless thief entered a house and tied up a boy with ropes, who had been awakened by the thief's arrival. Soon, the boy freed himself. The boy said, "What kind of thief are you, who cannot even bind firmly? I will show you how to make a proper bondage." Saying this, the boy tied the thief's feet, hands, and neck, with the result that the thief was unable to loosen the knots. Binding with ropes is like binding with actions. The boy is not bound by them. We must be freed from the bondage of actions.

    4 min
  • नाशस्य कारणं व्याक्षेपः

    चतुरस्य कस्यचित् बालकस्य आलस्यकारणात् धनविद्यादीर्घायुष्यादीनि हस्तच्युतानि जातानि । कथं, कुत्र, किमर्थमिति ज्ञायते अनया कथया । तद्दिनस्य कार्याणि तद्दिने एव करणीयानि । श्वः अग्रे वा करिष्यामि इति चिन्तनमेव अनर्थस्य कारणम् इति अनया कथया ज्ञायते।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A clever person, due to laziness, lost wealth, knowledge, and long life, all of which slipped from his hands. Through this story, it is understood how, where, and why this happened. The tasks of the day must be completed on the same day. The thought of postponing things for tomorrow is the very cause of misfortune, as revealed by this story.

    4 min
  • तत्त्वस्य आचरणम्

    प्रतिदिनं कस्यचित् महात्मनः प्रवचनं बहुभ्यः वर्षेभ्यः श्रुण्वन् कश्चित् सज्जनः पुत्रेण हठात् मरणे प्राप्ते प्रवचनकाले न दृष्टः । महान्तं विषादम् अनुभवन् सः महात्मा यदा ग्रन्थपरिशीलने मग्नः आसीत्, तदा सः सज्जनः महात्मनः गृहमागतवान् । किमपि अजानन् इव व्यवहरन् महात्मा अनागमस्य कारणं पृच्छति । सज्जनः वदति - 'अतिथेः सम्प्रेषणव्यवस्थायां व्यग्रः आसम्' इति । एतत् श्रुत्वा भावगद्गदः सन् वदति - 'बोधनं सुकरम्, आचरणं दुष्करम् । ममापि गुरुः अस्ति भवान्' इति ।

    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A noble person, who had been attending the lectures of a sage for many years, did not attend one day due to the sudden demise of his son. Deeply saddened by the loss, the noble person went to the sage's house while the sage was engrossed in reading scriptures. Acting as though unaware of the situation, the sage asked the reason for his absence. The noble person replied, "I was occupied with arrangements for the guest's departure." Upon hearing this, the sage, with a trembling voice, said, "Teaching is easy, but living the teachings is difficult. You, are actually my teacher".

    4 min
  • अन्तरङ्गसंस्कारः

    वस्तूनां क्रयणाय नगरं गच्छद्भ्यां धान्यवणिक्-चर्मवणिग्भ्यां मध्येमार्गं श्रमनिवारणाय यः आश्रमः प्रविष्टः तत्रत्यः संन्यासी धान्यवणिजे कुटीरस्य अन्तः, चर्मवणिजे बहिः च भोजनं दत्तवान् । प्रत्यागमनावसरे संन्यासी चर्मवणिजे अन्तः, धान्यवणिजे बहिः च भोजनं परिवेषितवान् । किमर्थम् एतादृशः व्यवहारः इति पृष्टे संन्यासी अवदत् - अन्तरङ्गस्वरूपभेदः एव सत्कारभेदस्य कारणम् । जीवने अन्तरङ्गसंस्कारः एव मुख्यः, न तु बाह्यः स्वरूपम् । अनतरङ्गे कः भेदः लक्षितः इति यदा सकुतूहलं चर्मवणिजा पृष्टे संन्यासी विस्तृतरूपेण विवृणोति अस्यां कथायाम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A grain merchant and a leather merchant, on their way to the city, entered an ashram to rest. There, the sage made the grain merchant sit inside the hut and the leather merchant outside, serving food accordingly. When returning from the city, the merchants visited the ashram again, and this time, the leather merchant was served food inside and the grain merchant outside. When they asked about the difference in treatment, the sage replied, "The difference in how the food was served is due to the difference in inner qualities. In life, it is the inner transformation that matters most, not the external form." When the leather merchant, curious, asked further, the sage elaborated in detail.

    4 min
  • अर्ज्यतां गुणोत्कर्षः

    कश्चन राजा स्वेन सम्पादितम् अपारम् ऐश्वर्यम् अतिथिभ्यः साभिमानं दर्शयति स्म । तं प्रति आगतवन्तं संन्यासिनं सम्पत्तिं दर्शयितुं यं दीपं राजा गृहीतवान् आसीत्, तं हठात् मुखवायुना संन्यासी निर्वापितवान् । तेन अन्धकारः प्रसृतः । अनन्तरं संन्यासी राजानं अबोधयत् - दीपप्रकाशस्य अभावे तु मौक्तिकादीनां महामूल्यता नास्ति । यथा दीपप्रकाशः तथा भवति आत्मविकासः गुणोकर्षः च । सर्वोपकारकं गुणोत्कर्षम् अर्जयितुं विशेषप्रयासः भवतु इति ।

    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king who had acquired immense wealth used to show off his riches to his guests. Once, when a sage arrived, the king was displaying his wealth while holding a lamp in his hand. Suddenly, the sage blew out the lamp, and darkness spread everywhere. The sage then advised the king, saying, “Without light, pearls and other jewels hold no special value. Likewise, self-development and the cultivation of virtues are of great importance. Therefore, make an effort to acquire virtues that are beneficial to all.”

    4 min
  • कार्ये श्रद्धा

    स्वप्ने आगतायाः देव्याः वचनानुसारं मन्दिरनिर्माणकार्यम् आरब्धवान् कश्चित् धनिकः । देव्याः अनुग्रहेण प्राप्तः कश्चन उत्कृष्टः शिल्पी, श्रद्धया भक्त्या च यत् मूर्तिनिर्माणं कृतवान्, तस्याः मूर्तेः मुखे लघु कलङ्कः जातः इति कारणतः पुनः तेन अन्या मूर्तिः निर्मिता । सूक्ष्मदर्शानात् अपि कोSपि कलङ्कः न दृश्यते, किमर्थं नूतना मूर्तिः निर्मिता इति धनिकेन पृष्टे सति, शिल्पी उदतरत् - मनःसाक्षिविरोधार्थं कार्यं कर्तुं न अर्हामि इति । शिल्पिनः कार्यश्रद्धां दृष्ट्वा धनिकः आचर्यान्वितः अभवत् ।

    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A wealthy man started constructing a temple according to the instructions given by the Goddess, who had appeared in his dream. By the Goddess's grace, he found a skilled sculptor who created an idol with faith and devotion. However, a small defect appeared on the idol’s face, so he made a new one. When the wealthy man asked why he had created a new idol when no defect could be seen even upon close inspection, the sculptor replied, “I cannot perform work against my conscience.” Moved by the sculptor’s dedication, the wealthy man was deeply touched. 

    5 min
  • पूज्यः वृक्षः

    पूर्वं सुमात्राद्वीपे वृद्धः तपस्वी कश्चन गुहायामेव तपः आचरन् ग्रामतः आगतानां कृषिकाणां मार्गदर्शनं करोति स्म । अन्ये असूयपराः तपस्विनः एकदा यदा वृद्धं तपस्विनं मारयितुं प्रयतन्ते, तदा कश्चन महान् सर्पः आकाशात् पतित्वा रक्षति । अपरक्षणॆ प्रसारितफणातः उद्भूताभिः शाखाभिः कश्चन वृक्षः प्रत्यक्षः भवति । पश्चात्तापम् अनुभवन्तः तपस्विनः - अस्मासु कश्चित् भवन्तं पीडयेत् चेत् अस्य वृक्षस्य शाखा खड्गः भूत्वा तं मारयेत् इति अकथयन् । ततः आरभ्य तज्जातीयवृक्षस्य शाखा एव परशोः दण्डत्वेन उपयुज्यते लोके ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, on the island of Sumatra, an elderly sage who usually lived in caves, practised intense penance would guide the village farmers. Other jealous sages once when tried to kill him, a large serpant fell from the sky protecting him. Later, branches started emerging from the serpant’s hood and a tree became visible in its place. Realizing their mistake, the sages told – ‘If anyone tries to harm the elderly sage, then let the branches of this tree turn into a sword and kill him’. Hencefoth, the branches of that tree were used as swords in the world.

    6 min
  • भक्तिमती श्रुतावती

    अनुपमसुन्दरी सद्गुणसम्पन्ना विद्यावती च भरद्वाजमहर्षेः पुत्री श्रुतावती, इन्द्रमेव वरितुम् इष्ट्वा तं पूजयति स्म। एकदा इन्द्रः तां परीक्षितुं विशिष्ठवेषेण आगत्य कानिचन बदरफलानि पक्वीकृत्य दीयतामिति उक्तवान्। चुल्ल्यां बहुधा काष्ठानि योजितानि चेदपि बदरफलानि तु पक्वानि न अभवन् । परीक्षार्थमेव इदम् इति विचिन्त्य स्वस्य पादौ चुल्ल्यां स्थापितवती श्रुतावती । ततः इन्द्रः प्रत्यक्षीभूय तां पत्नीत्वेन अङ्गीकृतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Shrutavati, a woman of unmatched beauty, learned, knowledgeable daughter of the great sage Bharadwaja, who wanted to marry Lord Indra, always worshipped him with great devotion. One day, Indra disguised himself in the form of a sage to test her, gave her some fruits and asked to get it cooked. Inspite of using many wooden sticks, she was unable to cook them. She then realized that she was being tested and placed her feet in the fire. Soon, the king of gods, Indra, appeared in his true form and accepted her as his wife.

    5 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।