
Sign up to save your podcasts
Or


सङ्गीतक्षेत्रे करीमखानवर्यः सुविख्यातः । एकलव्यः इव कश्चन युवकः करीमखानवर्यस्य ध्वनिमुद्रिकां श्रावं श्रावं सङ्गीताभ्यासं करोति स्म । अग्रे करीमखानवर्येण मिलित्वा, 'सम्यक् अभ्यासं कृत्वा प्रगतिं ख्यातिं च प्राप्नुहि' इति आशीर्वादं प्राप्तवान् । सः एव कुन्दनलालसेहगलवर्यः यः भाविनि काले चलनचित्रगायकत्वेन चित्रनटत्वेन च ख्यातः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Kareem Khan was one of the renowned singers in the world of music. Like Ekalavya, a young boy used to listen to Kareem Khan’s recordings and practice with great effort. One day, when he met Kareem Khan, he received his blessings. This very boy was Kundan Lal, who later became famous as a playback singer and an actor.
१८८५ तमे वर्षे नेल्सन् नाम्नः कश्चन निवृत्तः सेनाधिकारी यदा वायुविहारार्थं गतवान् तदा समुत्पन्नेन चक्रवातेन तस्य शिरस्त्रं वायुना नीतम् । चक्रवातबाधाम् उपेक्ष्य शिरस्त्रम् आनीय दत्तवत्यै पुष्पानामिकायै बालिकायै सः सेनाधिकारी कृतज्ञतां समर्प्य, तस्याः नामसङ्केतादिकं स्वीये लघुपुस्तके लिखित्वा ततः निर्गतः। अनन्तरं यदा पुष्पायाः पतिः प्लेग्रोगेण ग्रस्तः असीत् तदा चिकित्सालये कश्चन वैद्याधिकारी तस्याः नाम ज्ञात्वा, तां घटनां वदति । सः एव तस्य सेनाधिकारिणः पुत्रः यः पुष्पायाः पत्युः चिकित्सार्थं समुचितां व्यवस्थाम् अकरोत् । कदाचित् कृतः अल्पः उपकारः महत् एव फलं ददाति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the year 1885, while a retired military commander named Nelson was walking in the garden, his hat was carried away by a whirlwind. A young girl, ignoring the risk, brought the hat back and gave it to him. The commander, feeling grateful, wrote down her name in a small book and left. A few years later, when the girl’s husband was suffering from plague, the doctor who was treating him asked for the girl’s name and recalled the incident. The doctor was none other than the commander’s son, who later treated her husband with the utmost care. Even the slightest act of help and kindness can yield great results.
ताराचन्द-वख्तमलनामानौ गुरुहरिगोविन्दशिष्यौ गुरवे अश्वौ उपायनीकर्तुं स्वस्थानात् यदा प्रस्थितवन्तौ तदा मध्यमार्गे यवनराजः शाहजहानः अश्वौ वशीकृत्य तौ शिष्यौ ताडयित्वा च प्रेषितवान् । प्रवृत्तं सर्वं विदित्वा अन्यः कश्चन शिष्यः विधिचन्दः अश्वौ आनेतुं प्रतिज्ञाम् अकरोत् । शूरः उपायचतुरः च सः विधिचन्दः केनोपायेन अश्वौ अपहृत्य गुरोः हरिगोविन्दवर्यस्य पुरतः प्रत्यक्षः भवति इति पश्यामः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Tarachand and Vakhtmal, two disciples of Guru Harigovind, set out with the intention of gifting two horses to their Guru. On the way, Shah Jahan seized their horses, beat them, and sent them back. Upon learning of this incident, another disciple, Vidhichand, made a vow to bring the horses back. Let us hear the story of how the clever and brave Vidhichand successfully brings back the horses.
परीक्षायाम् अधिकान् अङ्कान् प्राप्तवतः सत्काराय कार्यक्रमः आयोजितः आसीत् कस्मिंश्चित् सर्वकारीये विद्यालये । मुख्यातिथिः पारितोषिकं यच्छन् कांश्चन प्रश्नान् पृष्टवान् । किन्तु एकस्यापि प्रश्नस्य उत्तरं दातुम् असमर्थः बालकः कारणे पृष्टे, केवलं कण्ठस्थीकृत्य उत्तरं लिखामि इति उक्तवान् । तत्रैव स्थितः अन्यः बालकः सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत् श्रुत्वा अतिथिः तस्मै स्वयं पारितोषिकं ददाति । कथं सर्वं जानाति इति पृष्टे, बालकः वदति - पाठ्यपुस्तकानि इव अन्यानि अपि पुस्तकानि ज्ञानसङ्ग्रहाय पठामि इति । सः एव दादाभायि नवरोजि ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, an award ceremony was organized at a government school. While giving the prize to the top scorer, the chief guest asked a few questions. The student was unable to answer, as he only memorized the answers to write in the exam. A child standing nearby answered all the questions, as he read other books in addition to the textbooks. The chief guest, pleased with his knowledge, happily gave him the prize. This boy was none other than Dadabhai Naoroji.
केवलेन प्रवचनेन कार्यं न सिद्ध्यति । अतः केनचित् निदर्शनेन शिष्यान् दर्शयति कश्चन महात्मा - कथम् ईर्ष्याद्वेषादिकं अन्यान् पीडयति, कथम् ईर्ष्याद्वेषादिकं परित्यक्तं चेत् जीवनं निर्मलं स्वच्छं स्यात्, ईर्ष्याद्वेषादिकं सदा मनसि स्थापयेम तर्हि मनसः अस्वास्थ्यं ततः जीवनस्य दुर्गतिः च कथं भवति इति । किं तत् निदर्शनमिति शृण्मः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One cannot achieve anything by simply listening to lectures. Hence, a sage, through an activity, shows his disciples how envy and hatred can cause trouble to others, how one cannot be healthy with envy and hatred always in the mind, and how life becomes pure and clear when such emotions are cast aside. Let us hear what that activity is.
प्रथमस्वातन्त्र्यसङ्ग्रामस्य प्रमुखस्य नानासाहेबस्य उपस्थितिं सूचितवन्तं प्रति पञ्चाशत्सहस्रं दास्यन्ते इति आङ्ग्लसर्वकारेण घोषितमासीत्। कदाचित् बुभुक्षया पिपासया श्रान्त्या च किञ्चित् गृहम् आगतवन्तं नानसाहेबं, गृहस्वामिनी ससन्तोषेण भोजनं परिवेषितवती । तावता आरक्षाधिकारी तस्याः पतिः गृहं प्रविश्य नानासाहेबं बन्धुं प्रयतते । पतिपत्न्योः मध्ये वादविवादे आरब्धे पतिः लघुभुषुण्डिकां हस्तेन गृह्णाति । पत्नी तस्य हस्तात् भुषुण्डिकां बलात् स्वीकृत्य अग्रे किं करोति इति कथां श्रुत्वा जानन्तु।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The British government had announced a reward of fifty thousand rupees for anyone who informed them about Nana Saheb, a prominent leader during the First War of Indian Independence. Once, when the weary and exhausted Nana Saheb knocked at someone's door, the housewife, with great joy, served him food. By then, her husband, a police officer, entered the house and attempted to arrest Nana Saheb. An argument took place between the husband and wife. When the husband drew his gun, the wife forcibly snatched it from his hand. Listen to the story to find out what happens next.
कदाचित् रामनामजपं कुर्वन्तम् आञ्जनेयं शनिदेवः गर्वेण युद्धाय आह्वयते । गुरुपुत्रेण सह अहं युद्धं न करोमि इति युद्धप्रस्तावननिराकुर्वन्तम् आञ्जनेयं शनिः मुष्ट्या प्रहृतवान् । अनन्यगतिकया आञ्जनेयः स्वपुच्छेन शनिं बद्ध्वा शिलानाम् उपरि गर्तेषु च नीतवान् । शनेः देहः क्षतविक्षतः जातः । शनेः प्रार्थनानन्तरं तं मोचयित्वा, तैलमर्दनेन पीडाम् अपनीतवान् आञ्जनेयः । ततः प्रभृति शनिदेवस्य तैलसमर्पणप्रथा आरब्धा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Shanideva invited Hanuman, who was muttering prayers, for a fight. Hanuman declined, saying he would not fight with the son of Surya, who was his Guru. However, Shanideva seized his hands and thrashed him. Left with no other option, Hanuman tied Shani with his tail, carried him to the top of the mountains, and lowered him into the pits, thus injuring him. After much pleading, Hanuman released Shani and relieved him of the pain by applying oil to his wounds. From that moment, the practice of offering oil to Shanideva began.
महादेवरानडे इति ख्यातः न्यायधीशः आसीत् । सः कोल्हापुरे स्थानान्तरणं प्राप्तवान् यत्र तस्य बहवः बान्धवाः आसन् । कदाचित् तस्य बन्धुः महादेवस्य पितरं यदि न्यायलयस्य व्यावहारः मदनुकूलः भविष्यति तर्हि उपकृतः भविष्यामि इत्यवदत् । महादेवः अवदत् - यदि अस्माकं बान्धवाः न्यायप्रक्रियायां बाधां जनयेयुः तर्हि निष्पक्षतया कर्तव्यपालनं न भवेत् । अपि च कर्तव्यच्युतिकारणात् मनसः अशान्तिः, स्वास्थ्यहानिः च भवेदिति । तदा पिता तस्य वचनं श्रुत्वा भवतः कर्तव्ये कोऽपि बाधां न जनयति, भवान् निश्चिन्ततया कार्ये प्रवर्तताम् इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Mahadeva Ranade was a famous judge. He was transferred to Kolhapur where he had many relatives. Perhaps his cousin had told Mahadeva's father that he would benefit if the court's dealings went in his favor. Mahadev said, "If our relatives obstruct the judicial process, then there will be no duty to be performed impartially. Also, a dereliction of duty can lead to mental turmoil and loss of health. When the father hears it, he says, "Don't let anyone hinder you from doing your duty; go on with your work."
काशीराज्ये राज्ञः ब्रह्मदत्तस्य पुत्रः बोधिसत्त्वः यदा जन्म प्राप्तवान् तदा एव दिने काचित् दासी अपि कटाहकनामकाय पुत्राय जन्म दत्तवती । कालक्रमेण कटाहकः पार्श्वराज्यस्थस्य धनिकस्य कन्यया विवाहं कृतवान् । बोधिसत्त्वः कटाहकेन मेलितुं तस्य गृहं गच्छति । कटाहकः स्वपत्नीं बहुधा पीडयति इति ज्ञात्वा बोधिसत्त्वः तस्य पत्नीं उपदिशति "तव पतिः कुपितः चेत् एतं श्लोकम् उच्चैः पठ" इति । कटाहकेन पत्न्यां निन्दितायां सा तं श्लोकम् उच्चैः पठति । तं श्लोकं श्रुत्वा कटाहकः चिन्तितवान् यत् मम पत्नी मम वञ्चनापूर्णं पूर्ववृत्तान्तं ज्ञातवती । रहस्यप्रकाशनभीत्या सः तया सह उत्तमतया व्यवहर्तुम् आरब्धवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
On the same day that the Bodhisattva, the son of King Brahmadatta, was born in the kingdom of Kashi, a maidservant also gave birth to a son named Katahaka. In time Katahaka married the daughter of a wealthy man in the neighboring kingdom. The Bodhisattva goes to his house to meet Katahaka Knowing that Katahaka often torments his wife, the Bodhisattva advises his wife, "If your husband is angry, read this verse aloud." When Katahaka rebukes his wife, she reads that verse aloud. After hearing that verse, Katahaka thought that my wife had learned of my cheating past. Afraid of revealing secrets, he began to treat her better.
कस्मिंश्चित् आश्रमे कश्चन तरुणः छात्रः दश वर्षाणि अधीत्य भगवद्दर्शनार्थम् आशावान् आसीत् । गुरुः तस्य इच्छां ज्ञातवान् । उद्विग्नेन छात्रेण भगवतः दर्शनं कदा इति पृष्टे गुरुः शान्ततया श्वः इति प्रत्युत्तरं ददाति स्म । द्वितीयदिने गुरुं प्रति गतं छात्रं गुरुः उक्तवान् - “यः भगवतः स्वरूपं तथा तस्य तत्त्वं स्पष्टं न जानाति, तस्य भगवतः दर्शनं कथं संभवति? तत् तु ध्यानमार्गेण एव साध्यम्” इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In one of the ashrams, a young student had been hoping to see God for ten years. The teacher knew what he wanted. When the excited student asked him when he would get a glimpse of the Lord, the Guru calmly replied, "Tomorrow." On the second day, the Guru said to the student who had gone to the Guru: "How can one have a vision of the Lord who does not clearly understand His nature and His essence? This is the path of meditation. "
From the publisher's feed