बालमोदिनी

बालमोदिनी

By सम्भाषणसन्देशःReligion & SpiritualityKids & FamilyStories for KidsHinduism
Download on the App Store

बालमोदिनी episodes

  • तदर्थमेव तव सृष्टिः

    कश्चन धनिकः दानार्थं प्रसिद्धः आसीत् । सः एकदा एकस्याः दुःखितायाः बालिकायाः सन्दर्शनं कृत्वा तस्याः कल्याणं प्रार्थितवान् । तस्याः गृहं गत्वा सः तस्याः अत्यन्तं दारिद्र्यं ज्ञात्वा तां चिकित्सायै चिकित्सालयं नीतवान् । एतेन अनुभवेन सः अल्पभाग्यानां साहाय्यार्थम् अधिकं समयं, साधनानि च समर्पयितुम् उद्यतः अभवत् । तेषां दुःखनिवारणाय तेषां जीवने सार्थकं परिवर्तनं कर्तुं च सः प्रतिबद्धः जातः।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A rich man was known for his charity. He once visited a grieving girl and asked for her welfare. After visiting her home, he discovered her extreme poverty and took her to a hospital for treatment. This experience led him to devote more time and resources to helping the less fortunate. He became committed to alleviating their suffering and making meaningful changes in their lives.

    5 min
  • श्रेष्ठः कः?

    कश्चन गर्वितः विद्वान् स्नानार्थं गच्छन् स्वीयां पादरक्षापट्टिकां समीकर्तुम् चर्मकारम् आज्ञापितवान् । चर्मकारेण पादरक्षां समीकृत्य दत्तायां विद्वान् चर्मकारदिशि नाणकं क्षिप्तवान् । तत् तिरस्कुर्वन् चर्मकारः पूगफलं दत्वा गङ्गामात्रे दातुं सूचितवान् । गङ्गामाता तु चर्मकाराय दीयताम् इत्युक्त्वा एकं सुवर्णकङ्कणं दत्तवती । परन्तु सः विद्वान् तस्य पत्न्यै अददात् । अन्ते तत् कङ्कणं राज्ञा प्राप्तम् । राजा तादृशमेव अपरं कङ्कणम् इष्टवान् । सः अनन्यगत्या पुनः साहाय्यं याचमानः चर्मकारस्य समीपं आगतवान् । अन्ते चर्मकारः पण्डितम् अवदत्  उत्तमव्यवहारेण जनाः आदरं प्राप्नुवन्ति न तु पाण्डित्येन ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A proud scholar lived on the bank of the Ganga. One day, his sandal strap broke while going for a bath, and he ordered a nearby cobbler to fix it. The cobbler repaired it respectfully but refused the payment the scholar offered, suggesting he donate betel nuts to the Ganga instead. Later, the scholar sold a bracelet to the king but failed to produce another when requested. Seeking help, he followed the cobbler's advice and offered a betel nut to the Ganga, who then granted him another bracelet. He presented it to the king and escaped punishment. In the end, the cobbler taught the scholar that respect is earned through good conduct, not just knowledge or birth.

    5 min
  • मूर्खाः शुकाः

    कस्मिंश्चित् वने कश्चन ऋषिः कांश्चन शुकान् पालयति स्म । सः तान् उपदिशति स्म यत् "व्याधः आगच्छेत्, सः जालं प्रसारयेत्, परन्तु वयं तस्य समीपं न गमिष्यामः" इति । एकदा ऋषिः भिक्षाटनार्थम् अन्यं ग्रामम् अगच्छत् । मार्गे गच्छन् व्याधः शुकान् दृष्ट्वा तान् ग्रहीतुम् इच्छन् जालं प्रसार्य तस्मिन् किञ्चित् फलम् अस्थापयत् । किञ्चित्कालानन्तरं व्याधः निद्रां गतः, यदा व्याधस्य जागरणम् अभवत् तदा सः दृष्ट्वान् यत् सर्वे शुकाः “व्याधः आगच्छेत्, सः जालं प्रसारयेत्....” इति गायन्तः जाले गृहीताः आसन् । तेषां मूर्खतां दृष्ट्वा हसन् व्याधः सर्वान् शुकान् नीतवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In a certain forest, a sage was raising some parrots, and he taught them to say, "The hunter is coming; he spreads a net, but we shall not go near it." One day, the Sage went to a village. A hunter passing by saw the parrots and, wanting to capture them, spread a net and placed some fruit on it, thinking, “Perhaps some foolish parrot will come for the fruit and fall into the net.” After a while, the hunter woke up and saw the parrots singing, “The hunter is coming; he spreads a net, but we shall not go near it,” yet they were all caught in the net. Laughing at their foolishness, the hunter took all the parrots away in the net.

    4 min
  • मम माता देवता

    कस्मिंश्चित् नगरे दरिद्रस्य पुत्रः सदानन्दः निवसति स्म । एकदा पुष्पाणि क्रेतुम् इच्छन् सः धनाभावे अश्रुपूर्णनयनः तत्रैव स्थितवान् ।  केनचिन् सज्जनेन रोदनस्य कारणे पृष्टे सदानन्दः अवदत् - 'मातुः निमित्तं पुष्पमालाम् इच्छामि' इति । सज्जनेन तस्य भक्तिं दृष्ट्वा तस्मै पुष्पमाला क्रीत्वा दत्ता । ततः बालकः उक्तवान् - "मम माता देवता अस्ति, यत्र सा निवसति तत्र एव मम स्वर्गः" इति । इदं श्रुत्वा सः सज्जनः स्तब्धः जातः, मातुः महत्त्वं मनसि गृहीतवान् च ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In a certain city lived Sadananda, the son of a poor man. Once, when he wanted to buy flowers, he stood there with tears in his eyes. Then a man asked him, "Why are you crying?" Sadananda said, "I want a garland of flowers for my mother." The gentleman, seeing his devotion, bought him a garland of flowers. Then the child said, "My mother is a goddess, and where she lives is my paradise." Hearing this, the gentleman was shocked and took his mother's importance to heart.

    4 min
  • जयमत्याः आत्माहुतिः

    कदाचित् असमराज्ये रत्नध्वजः शासनं कृतवान् । परन्तु तस्य मन्त्री लालुकसोलः दुष्टः आसीत् । लालुकसोलः रत्नध्वजस्य पितुः हननं कारयित्वा, स्वकन्यायाः विवाहं रत्नध्वजेन सह अकारयत् । जामातुः सम्भाव्यप्रतिद्वन्द्वीनां निराकरणाय लालुकसोलः अहोमकुलीयानाम् अङ्गक्षतं कारितवान् । परन्तु गदापाणेः अङ्गक्षतं कर्तुं नाशक्नोत् । लालुकसोलः गदापाणेः पत्नीं जयमतीं तस्य मर्मस्थलं प्रकाशयितुं पीडयति स्म, परन्तु सा तत् रहस्यं न प्रकाशितवती । अन्ते गदापाणिः सैन्यं सज्जीकृत्य युद्धस्य घोषणां कृत्वा रत्नध्वजं लालुकसोलं च पराजितवान् । जयमत्याः बलिदानेन राज्यस्य समृद्धिः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In the second half of the 17th century, the Ratna Dhwaj Ahomraj dynasty ruled Assam. But his minister, Laluksol, was evil. Laluksol killed Ratna Dhwaj's father and married his daughter to Ratna Dhwaj. To neutralize the potential rivals of the son-in-law, Lalusola massacred the Ahom tribesmen. But Gadapane couldn't make it. Laluksol had been pressuring Gadapane's wife, Jayamati, to reveal his whereabouts, but she did not reveal the secret. Finally, Gadapani raised an army and declared war, defeating Ratna Dhwaja and Lalukasola. Jayamati's sacrifice brought prosperity to the kingdom.

    6 min
  • उत्तमः सेवापाठः

    कस्मिंश्चित् ग्रामे कश्चन परिवारः प्रतिवेशिगृहिण्या ग्राममगमनप्रसङ्गे परिवारं पाकसाहाय्यार्थं प्रार्थितः । गृहिणी नित्यं गृहद्वयस्य कृते पाकं करोति स्म । तस्याः पुत्रः एतदवलोक्य मातरम् अपृच्छत् यत् आदौ परेषां कार्यं कर्तव्यं खलु? तस्य जिज्ञासया प्रसन्ना सा परसेवायाः महत्त्वं, प्रतिवेशिनः कृते उष्णभोजनं श्रेयस्करं इति च व्याख्यातवती । बालः तस्याः भावम् अवगत्य सेवाविषये बहुमूल्यं पाठं पठितवान् । पश्चात् "विनोबा भावे" इति नाम्ना प्रथितः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In a village, a cultured family helped their neighbor by cooking while she was away. The wife cooked for both homes daily. Her son, Vinu, noticed this and questioned the appropriateness of prioritizing the neighbor's needs. Pleased with his inquiry, she explained the importance of serving others and that hot food for the neighbor was preferable. Vinu understood her sentiment and learned a valuable lesson about service. He later gained recognition as "Vinoba Bhave."

    4 min
  • अध्येतव्यं बहु अस्ति

    कश्चन तरुणः गुरोः सकाशात् धनुर्विद्याम् अधीत्य महत् कौशलं प्राप्तवान् । सः धनुर्विद्यायां गुरुमपि अतिशेते इत्यतः अहङ्कारयुक्तः अभवत् । गुरुः एतत् ज्ञात्वा न किमपि उक्तवान् । एकदा शिष्यः कठिनं सेतुम् अतिक्रान्तुं प्रयत्नरतः सन् कम्पितः, शाखायाम् अधःपतनभयेन आकुलः अभवत् । अन्ते सः अवगतवान् यत् अध्येतव्यं बहु अस्तीति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    A young man learned a great skill in archery from a guru. He was also a master in archery and became arrogant because he was led to his growing pride. The teacher, aware of this, remained silent. One day the disciple was trying to cross a difficult bridge, and he trembled, and the two branches trembled for fear of falling. Finally, he realized that there was much to learn.

    4 min
  • परोपकारी स्वामी

    परोपकारी स्वामी ग्रामे ग्रामे भ्रमन् रोगिणां सेवां कुर्वन् स्वच्छतायाः महत्त्वं प्रचारयति स्म । जनाः तस्य प्रेरणया स्वच्छतायां प्रवृत्ताः । सः मन्दिरे भक्तजनैः अर्पितं सर्वं निर्धनेभ्यः वितरति स्म । कदाचित् विष्णोः दूतः स्वर्णादीनि पुरस्काररूपेण दातुम् आगतः, किन्तु स्वामी उक्तवान्, "मम किमपि आवश्यकं, एतानि निर्धनेभ्यः ददातु ।" तदा दूतः तस्य सेवायाः प्रशंसां कृत्वा मोक्षं दातुम् ऐच्छत्, परन्तु स्वामी उक्तवान् यत् "सेवा एव मम धर्मः" इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The compassionate saint wandered from village to village, serving the sick and promoting the importance of cleanliness. Inspired by him, the people took up the cause of cleanliness themselves. He would distribute all offerings given by devotees at the temple to the needy. One day, a messenger of Lord Vishnu came with gold and other rewards for him, but the saint said, "I need nothing for myself; let these be given to the poor. "The messenger then praised the saint's service and offered him liberation, but the saint replied, "Service is my duty."

    5 min
  • अध्यापनं मम धर्मः

    कश्चन राजा स्वपुत्रान् शिक्षयितुम् आचार्यं नियुक्तवान् । आचार्येण नानाविधैः उपायैः राजपुत्राणां शिक्षणं कृतं, किन्तु ते शीघ्रं विस्मरन्ति स्म । ततः आचार्यः तान् शिष्यान् घटस्य उदाहरणेन मननस्य महत्त्वं अबोधयत् । एतत् श्रुत्वा राजकुमाराः मननेन बुद्धिमन्तः अभवन् । तेषां बुद्धिमत्तां दृष्ट्वा सन्तुष्टः राजा आचार्याय अर्धराज्यं दातुम् ऐच्छत् । परं आचार्येण उक्तं यत् "अध्यापनमेव मम धर्मः, न प्रतिफलम् ।"
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A king appointed a teacher to educate his sons. The teacher tried to teach them in various ways, but they would forget quickly. Then, the teacher explained to them the importance of reflection, just as a pot must be repeatedly dipped to collect water. Hearing this, the princes began reflecting on their learning and became wise. Seeing their wisdom, the king was pleased and wished to grant the teacher half his kingdom. However, the teacher said, "Teaching is my duty, not receiving rewards."

    5 min
  • धर्मस्य प्रभावः

    राजगृहं गच्छन् कश्चन मुनिं अपृच्छत्, किमर्थं भवान् धर्मं बोधयति चेदपि लोके धर्मः न दृश्यते इति । मुनिः अवदत् । राजगृहम् इतः 20 किलोमीटर् दूरे अस्ति इति भवान् जानाति । परन्तु प्रवृत्तिं विना तत्र गन्तुं न शक्नोति । धर्मस्यापि एषा एव व्यवस्था इति । 

     

    A sage tells a disillusioned man, "Just as you must take steps to reach the palace 20 km away, effort is required to achieve goodness in life, it won't come automatically."

    2 min

About बालमोदिनी

From the publisher's feed

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।