
Sign up to save your podcasts
Or


विकृतवर्मा नाम कश्चन राजा स्वविषये प्रजामतं ज्ञातुम् इच्छन् वेषान्तरं धृत्वा देशपर्यटनं कृतवान् । तदा सर्वत्रापि तस्य विषये असमाधानम् अस्ति इति तेन ज्ञातम्। तेन कुपितः राजा राज्ये विद्यमानानां सर्वेषां मरणदण्डनं घोषितवान् ।अत्रान्तरे आगतः कश्चन संन्यासी - राज्ये जनेषु सुखेन असत्सु कथं महाराजत्वेन तिष्ठति भवान् इति उपदिशति । ततः स्वदोषं जानन् महाराजः राज्यस्य अभिवृद्ध्यर्थम् अहर्निशं कार्यं करोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a king named Vikritavarma wanted to know people’s opinion about him. Disguising himself, he travelled everywhere and learnt that the people were unhappy. The furious King, ordered death penalty for all the people in his kingdom. Just then a sage arrived and said – ‘The people are not happy. Without people, how can a king remain in power?’. Realizing his mistake, the King devoted himself to working day and night for his people."
बुन्देलखण्डस्य शासकः अनिरुद्धसिंहः एकदा रणरङ्गतः पलायितः । तदा तस्य भगिनी सारन्धा कोपेन एतादृशेन व्यवाहारेण कुलस्य गौरवं नाशितम्, पलाय्य उचितं कार्यं न कृतं च इति वदति । तस्मात् जागरितः अनिरुद्धः मासत्रयं यावत् युद्धं कृत्वा विजयं प्राप्य प्रत्यागच्छति । तस्य स्वागताय ससन्तोषेण भगिनी सारन्धा पत्नी शीतलादेवी च सज्जा अभवताम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Aniruddha Singh, the ruler of Bundelkhand, once fled from the battlefield. Seeing this, his sister Sarandha angrily said that he has brought disgrace to the family and by fleeing, he has not done the right thing. Moved by her words, Aniruddha decided to fight again. After three months, he returned home victorious. His sister Sarandha and wife Sheetaladevi welcomed him with great joy.
जीवनं नाम किम् इति जिज्ञासुः कश्चन जनः सर्वत्र परिभ्रमन् अरण्यं प्रविष्टवान् । तत्र जीवनविषये पृष्टे सति शुकः, शशः, हरिणः, नदी, वृक्षः, बीजः, उलूकः च स्वाभिप्रायम् प्रकटयन्ति । अनन्तरं तेन कश्चन संन्यासी दृष्टः । ततः ज्ञातवान् यत् केवलम् अन्वेषणेन जीवनं यापयितुम् अवसरः न प्राप्यते । आदौ उत्तमं जीवनं करणीयम् । सदाचरणमेव जीवनम् इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A curious person, wanting to know what life is, wandered everywhere and entered a forest. There, when he asked about life, a parrot, a rabbit, a deer, a river, a tree, a seed, and an owl all shared their opinions. After this, he met a wise sage who explained, that one must lead a good life first instead of simply searching for the life’s meaning. Living a life of virtue is what life truly means.
काचन निर्धना माता पुत्रजननसमये धात्रै दत्तं वाक्यं पालयितुम्, पञ्चवर्षाणि पश्चात् सर्वमपि धनं यत् पुत्रेण प्राप्तं तत् सर्वं धात्रै अर्पयति। निर्धनमहिलायाः वचनपरिपालकतां निर्लोलुपतां च दृष्ट्वा सा धात्री तेन धनेन एकं कासारं निर्मितवती । अयं कासारः अद्यापि दरभङ्गानगरे 'धात्रीकासार' नाम्ना ख्यातः । सः बालकः भाविनि काले 'शङ्करमिश्र' नाम्ना ख्यातः, न्यायशास्त्रक्षेत्रे च महती ख्यातिः विद्यते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A poor mother made a promise to the midwife duirng childbirth. To keep up to the promise, five years later, when the child earned wealth, she gave it all to the midwife. Seeing the poor mother’s commitment to her word and her selflessness, the midwife used the money to build a pond. This pond, known as "Dhatrikasara," is still famous in Darbhanga today. The boy, in due course, became renowned as "Shankara Mishra" and gained great fame in the field of law.
शान्तियुतं जीवनं कर्तुम् इच्छन् राजा शान्तियुतजीवनस्य मार्गं ज्ञात्वा आगच्छन्तु इति भटान् प्रेषयति । कञ्चन तेजस्विनं सन्यासिनं दृष्ट्वा अपेक्षायाम् उक्तायां 'शान्तिमार्गः अन्तरङ्गे भवति' इति संन्यासी वदति । परन्तु राजा स्वयमेव आगत्य विनयेन वचनस्य तात्पर्यं पृच्छति । तदा शान्तिमार्गस्य अन्वेषणम्, अन्तरङ्शोधनस्य सोपानानि इत्यादीनि विस्तरेण विवृणोति संन्यासी ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Desiring to live a peaceful life, the king, sent soldiers to find a path from great souls. Upon meeting a radiant sage, the king’s messenger inquired about the king’s wish. The sage replied, "The path to peace lies within the heart." However, the king himself went to the sage and, with humility, when inquired about the inner meaning, the sage then explained in detail how to seek the path of peace and necessary steps for inner purification.
कदाचित् बौद्धविहारे भगवता बुद्धेन ज्ञातं यत् शिष्याः सर्वदा ध्यानमग्नाः सन्तः ज्वरग्रस्तं शिष्यम् उपेक्षितवन्तः इति ।तदा तान् सर्वान् आहूय - केवलं ध्यानमार्गेण गमनेन न प्रयोजनम्, दीनसेवादिभ्यः एव मार्गस्य शुद्धिः भवति, मार्गस्य अनुसरणं यावत् मुख्यं भवति, मार्गस्य शुद्धता अपि तावती एव मुख्या इति बोधयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, in a Buddhist monastery, Lord Buddha learnt that the disciples were always engrossed in meditation and overlooked a disciple suffering from fever. Then, Lord Buddha gathered them and enlightened them saying - : 'Simply following the path of meditation is not sufficient. Purity of the path is attained only through acts of humble service and similar deeds. Both meditation and compassionate service are integral components of spiritual practice and so on’.
कस्मिंश्चित् ग्रामे कश्चन वणिक् धनिकात् स्वीकृतम् ऋणं प्रत्यर्पयितुम् अशक्तः अभवत् । सः धनिकः वृद्धः क्रूरः च वणिक्कन्यां वञ्चनया परिणेतुम् इच्छति । परन्तु, सा दक्षा कन्या उपायेन व्यवहृत्य अपायं निवार्य, पितरम् अपि ऋणात् कथं रक्षितवती इति अनया कथया जानीमः । अतः विवेकः एव सर्वत्र जयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a merchant who had taken a loan from a wealthy person, failed to repay it. The greedy wealthy person, wanted to marry his daughter through deceit. But let us hear how the clever daughter acted wisely and saved both herself and her father from the control of the wealthy man. Hence, wisdom prevails everywhere
केनचित् कृषिकेन कश्चन सज्जनः चक्रावाततः रक्षितः । प्राणापायमपि अविगणय्य रक्षणरूपम् उपकारं कृतवतः कृषिकस्य परोपकारस्वभावं दृष्ट्वा सः सज्जनः पारितोषिकं दातुम् इच्छति । 'अपाये स्थितवतः रक्षणं मानवधर्मः । तत् कर्तव्यबुद्ध्या मया कृतं, न तु पारितोषिकेच्छया' इति उक्त्वा पारितोषिकं निराकरोति सः कृषकः । एतादृशानां जनानां कारणात् एव लोके वृष्ट्यादयः भवन्ति इति मनसि एव चिन्तयति सः सज्जनः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a farmer rescued a person from a whirlwind, risking his own life. Grateful for the help, the person wanted to reward the farmer. However, the farmer humbly declined, saying, "Helping the needy is the duty of every human being. With that principle in mind, I helped you, not for the sake of a reward. This story emphasizes the idea that helping others is a moral responsibility and should not be motivated by the desire for personal gain.
एकदा धारायाः अधिपतेः भोजस्य सभायां दूरदेशात् कश्चन पण्डितः आगत्य एकां समस्यां प्रस्तुतवान् । किन्तु पण्डितेषु श्रेष्ठः वाग्विभूषणः अपि उत्तरं दातुं न शक्तवान् । अतिथिपण्डितेन सप्ताहं यावत् समयः दत्तः । तावता श्रेष्ठः पण्डितः वाग्विभूषणः समस्यायाः परिहारं स्वयमेव अन्विषति उत अन्येन उत्तरं प्राप्यते ? कः सः प्रश्नः? तस्य उत्तरं किं भवितुम् अर्हति? इति सर्वैः कथां श्रुत्वा ज्ञायताम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a scholar from a distant land came to King Bhoja's palace and presented a riddle. Since none of the king’s scholars were able to answer, the scholar gave them a week's time to find the solution. Will one of the king's greatest scholars, named Vagvibhushana, find the solution on his own or with the help of others? Let us listen to the story and find out.
कस्यचित् राज्ञः समीपे केनचित् तपस्विना दत्तः कश्चन विशिष्टः खड्गः असीत् येन सः सर्वेषु अपि युद्धेषु जयं लभते स्म । कदाचित् कश्चन असूयापरः राक्षसः निद्रासमये तं खड्गं चोरयित्वा राजानं कारागृहे स्थापयति । स्वप्ने काचित् देवी द्विवारम् आगत्य वरं ददाति येन आगामिषु दिनेषु सः पुनरपि राज्यं प्राप्नोति । तदा देवी प्रत्यक्षीभूय – 'इतः परं खड्गः युद्धाय न, अपि तु शान्तिपालनाय उपयोक्तव्यः' इति उक्त्वा अदृश्या भवति । एतत् अङ्गीकुर्वन् राजा युद्धचिन्तनं पूर्णतः परित्यज्य देशहितकार्ये निरतः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a sage gave a powerful sword to a king, with which he won all his wars. However, a jealous demon stole the sword while the king was asleep and put him in the jail. Two times, a goddess appeared in the king's dreams and granted him boons with which he could regain his lost kingdom. Later, the goddess appeared and said, ‘From now on, the sword should be used only for maintaining peace, not for war.’ Accepting this, the king fully devoted himself to the welfare of his people and his kingdom.
From the publisher's feed