Agastya Ashtakam अगस्त्य अष्टकम् ◆
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं शंभो त्वत्पाददर्शनात् ॥१॥
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनाद्भक्तवत्सल ॥ २ ॥
शिवश्शंभुः शिवश्शंभुः शिवश्शंभुः शिवश्शिवः ।
इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥३॥
शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवेभवे ।
सदा भूयात्सदा भूयात्सदा भूयात्सुनिश्चला ॥४॥
अजन्म मरणं यस्य महादेवान्यदैवतम् ।माजनिष्यत मद्वंशे जातो वा द्राग्विपद्यताम् ॥५॥
जातस्य जायमानस्य गर्भस्थस्याऽपि देहिनः ।
माभून्मम कुले जन्म यस्य शंभुर्नदैवतम् ॥६॥
वयं धन्या वयं धन्या वयं धन्या जगत्त्रये ।
आदिदेवो महादेवो यदस्मत्कुलदैवतम् ॥७॥
हर शंभो महादेव विश्वेशामरवल्लभ ।
शिवशङ्कर सर्वात्मन्नीलकण्ठ नमोऽस्तु ते ॥८॥
अगस्त्याष्टकमेतत्तु यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥९॥
◆
।। इति अगस्त्याष्टकम् संपूर्णम् ।।
◆