Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Akalank Stotra अकलंक स्तोत्र


Listen Later

Akalank Stotra अकलंक स्तोत्र •
त्रैलोक्यं सकलं त्रिकालविषयं सालोक-मालोकितम्,
साक्षाद्येन यथा स्वयं करतले रेखात्रयं साङ्गुलि रागद्वेषभया-मयान्तकजरालोलत्व-लोभादयो,
नालं यत्पद-लंघनाय स महादेवो मया वन्द्यते ॥१॥
दग्धं येन पुरत्रयं शरभुवा तीव्रार्चिषा वह्निना,
यो वा नृत्यति मत्तवत् पितृवने यस्यात्मजो वा गुहः ।
सोऽयं किं मम शंकरी भयतृषारोषार्तिमोह-क्षयं,
कृत्वा यः स तु सर्ववित्तनुभृतां क्षेमंकरः शंकरः ॥२॥
यत्नाद्येन विदारितं कररुहैः दैत्येन्द्रवक्षःस्थलं,
सारथ्येन-धनञ्जयस्य समरे यो मारयत्कौरवान् ।
नासौ विष्णुरनेककालविषयं यञ्ज्ञानमव्याहतं,
विश्वं व्याप्य विजृम्भते स तु महाविष्णुः सदेष्टो मम ॥३॥
उर्वश्या-मुदपादिरागबहुलं चेतो यदीयं पुनः,
पात्रीदण्डकमण्डलु-प्रभृतयो यस्याकृतार्थस्थितिं ।
आविर्भावयितुं भवन्ति सकथं ब्रह्माभवेन्मादृशां,
क्षुत्तृष्णाश्रमरागरोगरहितो ब्रह्माकृतार्थोऽस्तु नः ॥४॥
यो जग्ध्वा पिसितं समत्स्यकवलम् जीवं च शून्यं वदन्,
कर्त्ता कर्मफलं न भुक्तं इति यो वक्ता सबुद्धः कथम् ।
यज्ञानं क्षणवर्तिवस्तुसकलं ज्ञातुं न शक्तं सदा,
यो जानन्-युगपज्जगत्त्रयमिदं साक्षात् स बुद्धो मम ॥५॥
ईशः किं छिन्नलिंगो यदि विगतभयः शूलपाणिः कथं स्यात्,
नाथ किं भैक्ष्यचारी यतिरिति स कथं सांगनः सात्मजश्च
आर्द्राजः किन्त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं,
संक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥६॥
ब्रह्मा चर्माक्षसूत्री सुरयुवतिरसावेशविभ्रांतचेताः,
शम्भुः खट्वांगधारी गिरिपतितनया पांगलीलानुविद्धः ।
विष्णुश्चक्राधियः सन् दुहितरमगमद् गोपनाथस्य
मोहादर्हन् विध्वस्त-रागोजितसकलभयः कोऽयमेष्वाप्तनाथः ॥७॥
एको नृत्यति विप्रसार्य ककुभां चक्रे सहस्रं,
भुजानेकः शेषभुजंगभोगशयने व्यादाय निद्रायते
द्रष्टुं चारुतिलोत्तमामुखमगादेकश्चतुर्वक्त्रतामेते,
मुक्तिपथं वदन्ति विदुषामित्येतदत्यद्भुतम् ॥८॥
यो विश्वं वेदवेद्यं जननजलनिधे-भंगिनः पारदृश्वा,
पौर्वापर्य विरुद्धं वचन-मनुपमं निष्कलंकं यदीयम् ।
तं वन्दे साधुवन्द्यं सकलगुणनिधिं ध्वस्तदोषद्विषन्तं,
बुद्धं वा वर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ ९ ॥
ब्रह्मा चर्माक्षसूत्री सुरयुवतिरसावेशविभ्रांतचेताः,
शम्भुः खट्वांगधारी गिरिपतितनया पांगलीलानुविद्धः ।
विष्णुश्चक्राधियः सन् दुहितरमगमद् गोपनाथस्य
मोहादर्हन् विध्वस्त-रागोजितसकलभयः कोऽयमेष्वाप्तनाथः ॥७॥
एको नृत्यति विप्रसार्य ककुभां चक्रे सहस्रं,
भुजानेकः शेषभुजंगभोगशयने व्यादाय निद्रायते
द्रष्टुं चारुतिलोत्तमामुखमगादेकश्चतुर्वक्त्रतामेते,
मुक्तिपथं वदन्ति विदुषामित्येतदत्यद्भुतम् ॥८॥
यो विश्वं वेदवेद्यं जननजलनिधे-भंगिनः पारदृश्वा,
पौर्वापर्य विरुद्धं वचन-मनुपमं निष्कलंकं यदीयम् ।
तं वन्दे साधुवन्द्यं सकलगुणनिधिं ध्वस्तदोषद्विषन्तं,
बुद्धं वा वर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ ९ ॥
माया नास्ति जटाकपाल-मुकुटं चन्द्रो न मूर्द्धावली,
खट्वांगं च वासुकिर्न च धनुः शूलं न चोग्रं मुखं ।
काम यस्य न कामिनी न च वषो गीतं न नृत्यं पुन:,
सोऽस्मान् पातु निरञ्जनो जिनपतिः सर्वत्रसूक्ष्मः शिवः ॥ १० ॥
नो ब्रह्मांकितभूतलं न च हरे शम्भोर्न मुद्रांकितं,
नो चन्द्रार्ककरांकितं सुरपतेर्वज्रांकितं नैव च
षड्वक्त्रांकितबौद्धदेवहुतभुग्यक्षोरगैर्नांकितं,
नग्नं पश्यत वादिनो जगदिदं जैनेन्द्रमुद्रांकितम् ॥११॥
मौञ्जी- दण्ड- कमण्डलुप्रभृतयो नो लाञ्छनं ब्रह्मणो,
रुद्रस्यापि जटाकपालमुकुटं कौपीन-खट्वांगना ।
विष्णोश्चक्र-गदादि-शंखमतुलं बुद्धस्य रक्ताम्बरं,
नग्नं पश्यत वादिनो जगदिदं जैनेन्द्रमुद्रांकितम् ॥१२॥
नाहंकारवशीकृतेन मनसा न द्वेषिणे- केवलम्,
नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्धया मया ।
राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनः,
बौद्धोघान्सकलान् विजित्यसघटः पादेन विस्फालितः ॥१३॥
खट्वांगं नैव हस्ते न च हृदि रचिता लम्बते मुण्डमाला,
भस्मांगं नैव शूलं न च गिरिदुहिता नैव हस्ते कपालं ।
चन्द्रार्द्ध नैव मूर्धन्यपि वृषगमनं नैव कण्ठे फणीन्द्रः,
तं वन्दे त्यक्तदोषं भवभयमथनं चेश्वरं देवदेवम् ॥१४॥
कि वाद्योभगवान् मेयमहिमा देवोऽकलंकः कलौ,
काले यो जनतासुधर्मनिहितो देवोऽकलंको जिनः ।
यस्य स्फारविवेकमुद्रलहरी जाले प्रमेयाकुला,
निर्मग्ना तनुतेतरां भगवती ताराशिरः कम्पनम् ॥१५॥
सातारा खलु देवता भगवतीं मन्यापि मन्यामहे,
षण्मासावधि जाड्यसांख्यमगमद् भट्टाकलंकप्रभोः ।
वाक्कल्लोलपरम्पराभिरमते नूनं मनो मज्जनं,
व्यापारं सहते स्म विस्मितमतिः सन्ताडितेतस्ततः ॥१६॥ •
...more
View all episodesView all episodes
Download on the App Store

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersBy Rajat Jain

  • 5
  • 5
  • 5
  • 5
  • 5

5

2 ratings


More shows like Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

View all
The Rich Roll Podcast by Rich Roll

The Rich Roll Podcast

11,761 Listeners

The Stories of Mahabharata by Sudipta Bhawmik

The Stories of Mahabharata

874 Listeners

Om - Chanting and Recitation by Sukadev Bretz - Joy and Peace through Mantra

Om - Chanting and Recitation

7 Listeners

Kalupur Mandir by Shree Swaminarayan Mandir Kalupur

Kalupur Mandir

5 Listeners

The Workshop is in the Mind by Ven. Robina Courtin

The Workshop is in the Mind

39 Listeners

Guided Sleep Meditation & Sleep Hypnosis from Sleep Cove by Sleep Hypnosis, Meditations and Bedtime Stories

Guided Sleep Meditation & Sleep Hypnosis from Sleep Cove

2,242 Listeners

Khatu Naresh Bhajan by Hubhopper

Khatu Naresh Bhajan

1 Listeners

Choosing Gratitude by Karin Yee

Choosing Gratitude

6 Listeners

Hanuman Chalisa by Jay Sharma

Hanuman Chalisa

0 Listeners

Buddhability by SGI-USA

Buddhability

592 Listeners

Krishan Bhajan by Hubhopper

Krishan Bhajan

2 Listeners

Hanuman Aarti Sangrah by Rajshri Entertainment Private Limited

Hanuman Aarti Sangrah

0 Listeners

The Great Unbecoming by Eric Feltes

The Great Unbecoming

19 Listeners

Zephyr Yoga Podcast by Zephyr Wildman

Zephyr Yoga Podcast

4 Listeners

Wisdom of the Masters by Samaneri Jayasara

Wisdom of the Masters

65 Listeners