Chhinnmasta Dhyan Stotra छिन्नमस्ता ध्यान स्तोत्र ★ प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरःकर्त्तृकां ।
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ॥
नगाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालंकृतां ।
रत्यांसक्तमनोभवोपरि दृढां ध्यायेज्जपासन्निभाम् ॥ दक्षे चातिसिताविमुक्तचिकुरा कर्तृंस्तथा खर्परं ।
हस्ताभ्यां दधती रजोगुणभवो नाम्नापिसा वर्णिनी ॥
देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्तीं मुदा ।
नागाबद्धशिरोमणिर्म्मनुविदा ध्येय सदा सा सुरैः ॥ वामे कृष्णतनूस्तथैव दधती खंगं तथा खर्परं ।
प्रत्यालीढपदाकबन्धविगलद्रक्तं पिबन्ती मुदा ॥
सैषा या प्रलये समस्तभूवनं भोक्तुं क्षमा तामसी ।
शक्तिः सापि परात् परा भगवती नाम्ना परा डाकिनी ॥ ★