Govind Ashtakam गोविन्द अष्टकम् ★
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्राङ्गणरिङ्गणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारं भुवनाकारं
क्ष्मामानाथमनार्थं प्रणमत गोविन्दं परमानन्दम् ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासं
व्यादितवक्त्रालोकितलोक आलोकचतुर्दशलोकालिम् ।
पुरमूलस्तम्भं लोकालोकम अनालोकं
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥
गोपालं भूलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृति लीलालालितगोपालम् । गोभिर्निगदितगोविन्द स्फुटनामानं बहुनामानं
गोगोचर दूरं गोविन्दं परमानन्दम् ॥
गोपीमण्डलगोष्टीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्धूतोद्गतधूलिधूसर सौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसदद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥
स्नानव्याकुलयोषिद्वस्त्रम उपादायागमुपारुढं
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तः स्थं
सत्तामात शरीरं प्रणमत गोविन्दं परमानन्दम् ॥
कान्तं कारणकारणमादिमनादिं कालघनाभासं
कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥
बृन्दावनभुवि बृन्दारकगण बृन्दाराधितवन्द्यायां
कुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम्
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं।
नन्द्याशेषगुणाधिं प्रणमत गोविन्दं परमानन्दम् ॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौत समस्ताधो
गोविन्दं परमानन्दामृतमन्तः स्थं स तमभ्येति ॥