Jain Vajra Panjar Kavacham जैन वज्र पंजर कवचम् ★
प्रागादीशानपर्यन्तं पुष्टिं विद्वेषणं तथा।
आकृष्टिं मोहनं वश्यं उच्चाटं स्तम्भमारणे।।1।
सर्वातिशयसम्पूर्णन् ध्यात्वा सर्वजिनाधिपान्।
पंच वर्णन् पंच रूपविषयद्रुमकुंजरान्।।2।।
चतुर्गात्रान् चतुर्वक्त्रान् चतुविशतिसम्मितन्।
जैनीं सर्वांगेषु रक्षां कुर्वें दुःखौघघातिनीम्।।3।।
शिरो में वृषभः पातु भालं श्रीअजितप्रभुः।
पातां में श्रीजिनौ नेत्रे सम्भवश्चाभिनन्दन।।4।।
सुमतिः पद्प्रभुश्च श्रवणे मम रक्षताम्।
सुपाश्र्वों रक्षतु घ्राणं मुखं चन्द्रप्रभः प्रभुः।।5।।
रसनां सुविधिः पातु कंठं श्रीशीतलो जिनः।
स्कन्धौ श्रेयांसश्रीवासुपूज्यश्च विमलो भुजौ।।6।
अनन्तरीधर्मनाथौ पातां में करपल्लवौ।
शांतिर्मे हृदयं रक्षेत् मध्यं नाभिं च कुंथ्वरौ।।7।।
मल्लिः कटिं सक्थिनी च रक्षतान्मुनिसुव्रतः।
नाभिर्जनुद्वयं पायान्नेमिर्जंघाद्वयीं पुनः।।8।।
श्रीपाश्र्वों वर्द्धमानश्च रक्षतां में पदद्वयम्।
चतुर्विंशतिरूपोऽव्यादर्हन् में सकलं वपुः।।9।।
एतां जिवलोपेतां रक्षां यः सुकृती पठेत्।
स चिरायुः सुखी भूत्वा न व्याधिर्विजयी भवते्।।10।।
पातालभूतलव्योमचारिणश्छद्मकारिणः।
न दृष्टुमपि शक्तास्तं रक्षितं जिननामभिः।।11।।
जिनेति जिभद्रेति जिनचन्द्रेति वा स्मरन्-
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति।।12।।
बज्रपंजरनाभेदं यो जैनः कवचं पठेत्।
अव्याहतांगः सर्वत्र लभते जयमंगलम्।।13।।
जगज्जैत्रैकमन्त्रण जिननाम्नैव रक्षितं।
लिखित्व धारयेद् यस्तु करस्थाः सर्वसिद्धयः।।14।।
ललाटे दक्षिणस्कन्धे वामस्कन्धे करेऽपि च। वामकक्षावामकट्योर्जानौ पदतलेऽपि च ।।15।।
नाभी गुह्ये दक्षिणांत्रितले दक्षिणजानुके। कटीकक्षाहस्ततलस्तनेषु दक्षिणेषु च।।16।।
यथेमां दृष्टवान् स्वप्ने जैनरक्षामिह प्रभुः।
जिनेन्द्राख्यो गुरूः प्रातः प्रबुद्धस्तां तथा लिखेत्।।17।।
वामस्तने चेतिमन्त्रवर्णन् सप्तदश स्मरन्।
ऊँ ह्मां ह्मी प्रमुखास्तस्य स्युर्मनीषितसिद्धयः।।18।।
◆
आपदा-नाशन-मन्त्रः। ◆
ऊँ नमो वृषभनाथाय मृत्युंजयाय सर्वजीवशरणाय परमपवित्र-पुरूषाय चतुर्वेदाननाय अष्टादशदोषरहिताय सर्वाय सर्वदर्शिने अष्ट-महाप्रातिहार्याय चतुस्त्रिंशदतिशयसहिताय श्रीसमवसरणे द्वादशपरिखावेष्टिताय ग्रहनागभूतयक्षराक्षसवश्यंकराय सर्वशांतिकारय मम शिवं कुरू कुरू स्वाह। ◆
इति आपदानाशनमन्त्र‘
◆
सर्वरक्षामन्त्रः।
◆ ऊँ क्षां क्षीं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः नमोऽर्हते सर्व रक्ष रक्ष हूं फट् स्वाहा।
◆
ऋषभदेवक्षामन्त्रः ◆
ऊँ ऋषभाय अमृतविन्दवे ठः ठः ठः स्वाह।
◆
सर्वरक्षामन्त्रः
◆ ऊँ ह्मू क्षूं फट् किरटिं घातय घातय परिविघ्नान् स्फोटय स्फोटय सहस्त्रखण्डान् कुरू कुरू परमुद्रां छिन्द छिन्द परमान्त्रान् भिंद भिंद ह्मां क्षां क्षं वः फट् स्वाहा।
◆
आत्मरक्षामन्त्रः।
◆ ऊँ क्षिप ऊँ स्वाहा।
★