Krishna Vrindavanam कृष्ण वृन्दावनम् ◆ श्रीशुक उवाच
: ततश्च पौगण्डवयःश्रीतौ व्रजे
बभूवतुस्तौ पशुपालसम्मतौ।
गाश्चारयन्तौ सखिभिः समं पदैर्
वन्दावनं पुण्यमतीव चक्रतुः ॥१॥ तन्माधवो वेणुमुदीरयन्वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः।
पशून्पुरस्कृत्य पशव्यमाविशद्विहर्तुकामः कुसुमाकरं वनम् ॥२॥ तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनःप्रख्यपयःसरस्वता।
वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान्मनो दधे ॥३॥ स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः।
स्पृशच्छिखान्वीक्ष्य वनस्पतीन्मुदा स्मयन्निवाहाग्रजमादिपूरुषः ॥४॥ श्रीभगवानुवाच :
अहो अमी देववरामरार्चितं पादाम्बुजं सुमनः फलार्हणम्।
नमन्त्युपादाय शिखाभिरात्मनस्तमोऽपहत्यै तरुजन्म यत्कृतम् ॥५॥ एतेऽलिनस्तव यशोऽखिललोकतीर्थं
गायन्त आदिपुरुषानुपथं भजन्ते।
प्रायो अमी मुनिगण भवदीयमुख्या
गूढं वनेऽपि न जहत्यनघात्मदैवम् ॥६॥ नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः
कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन।
सूक्तैश्च कोकिलगणा गृहमागताय
धन्या वनौकस इयान्हि सतां निसर्गः ॥७॥ धन्येयमद्य धरणी तृणवीरुधस्त्वत्
पादस्पृशो द्रुमलताः करजाभिमृष्टाः।
नद्योऽद्रयः खगमृगाः सदयावलोकैर्
गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥८॥ श्रीशुक उवाच :
एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून्
रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥९॥ क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः
उपगीयमानचरितः पथि सङ्कर्षणान्वित ॥१०॥ अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित्
क्वचित्सवल्गु कूजन्तमनुकूजति कोकिलम्।
क्वचिच्च कालहंसानामनुकूजति कूजितम्
अभिनृत्यति नृत्यन्तं बर्हिणं हासयन्क्वचित् ॥११॥ मेघगम्भीरया वाचा नामभिर्दूरगान्पशून्
क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥१२॥