Lakshmi Suprabhatam ■ मातः प्रसन्नवदनाम्बुजनिर्जिताग्रे
क्षिराब्धिजे सकललोकपवित्रमूर्ते।
आर्तः प्रपन्नजनवन्दितपादपद्मे
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१॥सद्योविकासि कुसुमेषु सुगन्धमत्ताः
गायन्ति मातरमितं भ्रमरा यशस्ते।
तन्मञ्जुनादपरिबोधितदिव्यदेवि
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२॥ स्नात्वामलः सुरगजः सुरदीर्घिकायां
शुण्डोधृताब्जविलसद्वदनेन तूर्णम्।
सन्तिष्ठते गृहमुखे तव भक्तवर्यः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥३॥ शोभां तवैव वदनस्य सदा नवीनां
सम्प्राप्य भानुरिह लोकतमःप्रहन्ता।
प्राचीं दिशं भजति सोऽपि तवैव भक्तः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥४॥ पद्मानि सन्ति रुचिराणि मनोहराणि
वायुस्तथा वहति मन्दगतिः प्रभाते।
चेतोहरीह सुषमा प्रकृतेस्तवेयं
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥५॥ पूर्वाद्रिसानुशिखरात् क्रमतिष्ठितोऽयं
भानुः क्षणं लसति देवि महाप्रकाशः।
त्वन्मूर्तिराजितकिरीटमणिप्रकाशः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥६॥ त्वद्दर्शनार्थमभियान्ति सुरेन्द्रमुख्याः
देवास्त्वदीयपदपङ्कजदत्तचित्ताः।
आयोज्य तान् लससि कर्मचये त्वमेव
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥७॥ प्रत्यग्रपुष्पनिचयं स्वकरैर्गृहित्वा
त्वत्पूजनाय मनुजा धृतशुभ्रवस्त्राः।
आयान्ति मन्दिरमितस्तव भक्तियुक्ताः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥८॥ पद्मप्रिये रुचिरपद्ममुखी स्मितासि
पद्मालये विजितपद्मविभेत्रि तन्वि।
त्वं पाहि नूनमनिशं जनतां भयार्तेः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥९॥ अम्ब त्वमेव जगतां प्रतिमा रिरिक्षुः
नित्योऽर्पिता लससि शश्वतधर्मगोप्त्री।
त्वामाश्रिता जहति दुःखचयं हि भक्ताः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१०॥ मातर्मदीयहृदये सदयं वसाना
मज्जीवनं हि कुरु सार्थकमात्मदीत्या।
त्वामाश्रितो भवति नैव विपद्भयार्तः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥११॥ त्वं श्रीहरेर्हृदयमेव सदाऽऽश्रितासि
प्रीतिं ततो वहसि लोकशुभाय मातः।
तत्प्रेममूर्तिरभयं सदयं तनोषि
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१२॥ हेमप्रफुल्लनयनाञ्चनरीक्षणेन
श्रिमन् तनोषि जगतां दयया दयाब्धे।
वात्सल्यमूर्तिरसि सन्तत लोकमाता
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१३॥ त्वन्नेत्रभानुसुविकासितपद्मतल्पो
भानुश्चकास्ति गगने सतत प्रकाशः।
नित्यं न भक्तबलिनी जलमध्यभागे
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१४॥ मन्दस्मिताङ्कुरविभा कमनीयशोभः
चन्द्रो विभाति रुचिरो नभसि प्रदीप्तः।
त्वन्मन्दहास इव भाति हि चन्द्रिकेयं
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१५॥ त्वन्निर्मलेषु हृदयेषु सदैव रूढा
तत्संपदं च सततं द्विगुणां करोषि।
सम्पन्नता त्वमसि मङ्गलदेवि मातः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१६॥ आजन्मनः सकललोकविशिष्टवाञ्छाः
सम्पूर्य मोक्षमपि देवि त्वमेव तत्से।
त्वामाश्रितोऽस्मि वरदायिनि लोकमातः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१७॥ नारायणस्य परिपूर्णमहत्स्वरूपे
नारायणि प्रियतरे कुरु मान्त्रितार्थम्।
त्वं श्रीहरिप्रियतमासि तदीयचित्ता
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१८॥नेत्राञ्जलप्रणयवर्षणमत्तचित्तो
नारायणस्तव सदा रमते हृदब्जे।
तत्प्रेममूर्तिरसि देवि सदैव मातः
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१९॥ पश्यात्र देवि मुनिलोकमविप्रपन्नं
श्रीसूक्तमन्त्रजपकोटिपवित्रचित्तम्।
पायात्तमुग्रतपसं तव भक्तिपूतं
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२०॥ पृथ्वी_जलं_तपन_वायु_नभांसि चापि
त्वामाश्रितानि खलु कर्म सुशक्तिकानि।
सर्वं तवैव महिमेति श्रुति समित्ते
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२१॥ श्रुत्यन्तमूर्तिमनतमानसपद्मपूगे
फुल्लारविन्दनिचये च शिशोश्च हासे।
त्वं निर्मले वससि देवि सदैव चित्ते
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२२॥ लक्ष्मि स्वयं वससि शुद्धधनेऽत्र लोके
धान्ये तथैव विजये स्वपराक्रमाप्ते।
ज्ञाने च शान्तिसहिते परिपूर्णरूपे
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२३॥ सायन्तने वससि निर्मलगोसमूहे
वत्सप्रिये शिशुषु दोहनकर्मसक्ते।
दुग्धेऽपिगोरिहसता परिपोषरूपा
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२४॥ त्वं पर्वतेषु परिरम्यशिखिस्थलेषु
पुष्पादिकेषु निबिडेषु वनस्थलेषु।
मन्दाकिनीषु तटिनीषु जलस्थलेषु
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२५॥ प्राणादि संयमपरेषु सदा हृदन्ते
नारायणस्पृतिपरेषु च मानवेषु।
मातः सदा लससि बोधमहतरूपा
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२६॥त्वामाश्रितो जगति पुण्यफलं समस्तं
सम्प्राप्नुते तदनुमोक्षपदं प्रविन्ते।
त्वामाश्रितश्च मधुसूदनमाश्रितः सन्
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२७॥ सम्प्रत्यहो मनुजबुद्धिरतीव दुष्टा
सम्पत्फलाय कुरुते खलु दुष्टयत्ना।
संस्कार्य ताञ्च जननीव समुद्धरेस्त्वं
श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम्