Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Narayan Atharvashirsha Paath नारायण अथर्वशीर्ष पाठ


Listen Later

Narayan Atharvashirsham नारायण अथर्वशीर्षम् •
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेती। नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । नारायणाद् ब्रह्मा जायते । नारायणाद्रुद्रो जायते । नारायणादिन्द्रो जायते । नारायणात्प्रजापतिः प्रजायते नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते । नारायणात्प्रवर्तन्ते । नारायणे प्रलीयन्ते। एतदृग्वेदशिरोऽधीते ।।१।।
अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः । कालश्च नारायणः । दिशश्च नारायणः । विदिशश्च नारायणः । ऊर्ध्वं च नारायणः । अधश्च नारायणः। अन्तर्बहिश्च नारायणः । नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम् । निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित्। य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति । एतद्यजुर्वेदशिरोऽधीते ।।२।।
ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात्। ओमित्येकाक्षरम्। नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि । एतद्वै नारायण स्याष्टाक्षरं पदम् । यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवः सर्वमायुरेति । विन्दते प्राजापत्यं रायस्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । एतत्सामवेदशिरोऽधीते ।।३।।
प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम्। अकार उकारो मकार इति। ता अनेकधा समभवत्तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभुवनं गमिष्यति तदिदं पुण्डरीकं विज्ञानघनं तस्मात्तडिदाभमात्रम्। ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति । सर्वभूतस्थमेकं वै नारायणं कारणपुरुषमकारणं परं ब्रह्मम् । एतदथर्वशिरोऽधीते।। ४।।
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायं प्रातरधीयानः पापोऽपापो भवति। मध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते। सर्ववेदपारायणपुण्यं लभते। नारायणसायुज्यमवाप्नोति श्रीमन्नारायण सायुज्यमवाप्नोति य एवं वेद।।५।। • ।।इत्युपनिषत्।।
...more
View all episodesView all episodes
Download on the App Store

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersBy Rajat Jain

  • 5
  • 5
  • 5
  • 5
  • 5

5

2 ratings


More shows like Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

View all
The Rich Roll Podcast by Rich Roll

The Rich Roll Podcast

11,758 Listeners

The Stories of Mahabharata by Sudipta Bhawmik

The Stories of Mahabharata

873 Listeners

Om - Chanting and Recitation by Sukadev Bretz - Joy and Peace through Mantra

Om - Chanting and Recitation

8 Listeners

Kalupur Mandir by Shree Swaminarayan Mandir Kalupur

Kalupur Mandir

5 Listeners

The Workshop is in the Mind by Ven. Robina Courtin

The Workshop is in the Mind

39 Listeners

Guided Sleep Meditation & Sleep Hypnosis from Sleep Cove by Sleep Hypnosis, Meditations and Bedtime Stories

Guided Sleep Meditation & Sleep Hypnosis from Sleep Cove

2,246 Listeners

Khatu Naresh Bhajan by Hubhopper

Khatu Naresh Bhajan

1 Listeners

Choosing Gratitude by Karin Yee

Choosing Gratitude

6 Listeners

Hanuman Chalisa by Jay Sharma

Hanuman Chalisa

0 Listeners

Buddhability by SGI-USA

Buddhability

590 Listeners

Krishan Bhajan by Hubhopper

Krishan Bhajan

2 Listeners

Hanuman Aarti Sangrah by Rajshri Entertainment Private Limited

Hanuman Aarti Sangrah

0 Listeners

The Great Unbecoming by Eric Feltes

The Great Unbecoming

19 Listeners

Zephyr Yoga Podcast by Zephyr Wildman

Zephyr Yoga Podcast

4 Listeners

Wisdom of the Masters by Samaneri Jayasara

Wisdom of the Masters

64 Listeners