Sapt Matrika Stotra सप्त मातृका स्तोत्र ◆
प्रार्थना ।
ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः
हंसारूढा प्रकर्तव्या साक्षसूत्रकमण्डलुः ।
स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ १
ब्राह्मयै नमः ।
माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता ।
कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ २ ॥
माहेश्वर्यै नमः ।
कुमाररूपा कौमारी मयूरवरवाहना ।
रक्तवस्त्रधरा तद्बच्छूलशक्तिगदाधरा ॥ ३ ॥
कौमार्यै नमः ।
वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता ।चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ४ ॥
वैष्णव्यै नमः ।
वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् ।
वराहसदृशी घण्टानादा चामरधारिणी ॥ ५
गदाचक्रधरा तद्वद्दानवेन्द्रविघातिनी ।
लोकानां च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६ ॥
वाराह्यै नमः ।
इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा ।
गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ७ ॥
इन्द्राण्यै नमः ।
दंष्ट्राला क्षीणदेहा च गर्ताक्षा भीमरूपिणी ।
दिग्बाहुः क्षामकुक्षिश्च मुसलं चक्रमार्गणौ ॥ ८
अङ्कशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः ।
खेटें पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ९
चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूषणा ।
द्विभुजा वा प्रकर्तव्या कृत्तिकाकार्यरन्विता ॥१० ॥
चामुण्डायै नमः ।
इति सप्तमातृका स्तोत्रम् |
◆