Shiv Bhujang Prayat Stotram शिव भुजंग प्रयात स्तोत्रम् ★
गलद्दानगण्डं मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥
अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महःशैवमीडे ॥ २ ॥
स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं
मनोहारि सर्वाङ्गरत्नोरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ ३ ॥
शिवेशानतत्पूरुषाघोरवामादिभिः
पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं
परं त्वां कथं वेत्ति को वा ॥ ४ ॥
प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणि
श्रीमहः श्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्तः
स्मरामि स्मरापत्तिसम्पत्तिहेतुम् ॥ ५ ॥
स्वसेवासमायातदेवासुरेन्द्रा
नमन्मौलिमन्दारमालाभिषिक्तम् ।
नमस्यामि शम्भो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानी विभाव्यम् ॥ ६ ॥
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥
विरूपाक्ष विश्वेश विश्वादिदेव त्रयी
मूल शम्भो शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥
महादेव देवेश देवादिदेव
स्मरारे पुरारे यमारे हरेति ।
ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं
ततो मे दयाशील देव प्रसीद ॥ ९ ॥
त्वदन्यः शरण्यः प्रपन्नस्य नेति
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे
दयालो सदा सन्निधेहि ॥ १० ॥
अयं दानकालस्त्वहं दानपात्रं
भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील
शम्भो कृतार्थोऽस्मि तस्मात् ॥ ११
पशुं वेत्सि चेन्मां तमेवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे त्वं न जाने गिरीश ।
तथाहि प्रसन्नोऽसि कस्यापि
कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥
स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे ।
त्रसन्तं सुतं त्रातुमग्रे
मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥
शिरो दृष्टि हृद्रोग शूल प्रमेहज्वरार्शो
जरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यो भिषग्भेषजं भस्म शम्भो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शम्भो
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥
त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमाला
कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥
भवान्यै भवायापि मात्रे च पित्रे
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥
भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमोऽहं
स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥
यदा कर्णरन्ध्रं व्रजेत्कालवाह
द्विषत्कण्ठघण्टा घणात्कारनादः ।
वृषाधीशमारुह्य देवौपवाह्यन्तदा वत्स
मा भीरिति प्रीणय त्वम् ॥ २० ॥
यदा दारुणाभाषणा भीषणा मे
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं
निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ २१ ॥
यदा दुर्निवारव्यथोऽहं शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं ते
जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥
यदा पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शम्भो
नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥
यदा पश्यतां मामसौ वेत्ति
नास्मानयं श्वास एवेति वाचो भवेयुः ।
तदा भूतिभूषं भुजङ्गावनद्धं पुरारे
भवन्तं स्फुटं भावयेयम् ॥ २४ ॥
यदा यातनादेहसन्देहवाही
भवेदात्मदेहे न मोहो महान्मे ।
तदा काशशीतांशुसङ्काशमीश
स्मरारे वपुस्ते नमस्ते स्मरामि ॥ २५ ॥
यदापारमच्छायमस्थानमद्भिर्जनैर्वा
विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धङ्कृतान्तस्य मार्गं
महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥
यदा रौरवादि स्मरन्नेव भीत्या
व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ कस्तारयिष्यत्यनाथं
पराधीनमर्धेन्दुमौले ॥ २७ ॥
यदा श्वेतपत्रायतालङ्घ्यशक्तेः
कृतान्ताद्भयं भक्तिवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं न
पश्यामि पातारमेतादृशं मे ॥ २८ ॥
इदानीमिदानीं मृतिर्मे भवित्रीत्यहो
सन्ततं चिन्तया पीडितोऽस्मि ।
कथं नाम मा भून्मृतौ भीतिरेषा
नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥
अमर्यादमेवाहमाबालवृद्धं हरन्तं
कृतान्तं समीक्ष्यास्मि भीतः ।
मृतौ तावकाङ्घ्र्यब्जदिव्य
प्रसादाद्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥