Sri Ekdant Stotram श्री एकदन्त स्तोत्रम् ★
मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।
भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १ ॥
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसम्युक्ता एकदन्तं गणेश्वरम् ॥ २ ॥
देवर्षय ऊचुः ◆
सदात्मरूपं सकलादिभूत ममायिनं सोऽहमचिन्त्यबोधम्
अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३ ॥
अनन्तचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४ ॥
विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।
सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५ ॥
स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया ।
तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६ ॥
त्वदीय-वीर्येण समस्तभूता माया तया संरचितं च विश्वम् ।
नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७ ॥
त्वदीय- सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् ।
सेवन्त आपूर्यमजं त्रिसंस्था स्तमेकदन्तं शरणं व्रजामः ॥ ८ ॥
ततस्त्वया प्रेरित एव नाद तमेकदन्तं शरणं व्रजामः ॥ ९ ॥
स्तेनेदमेवं रचितं जगद्वै । आनन्दरूपं समभावसंस्थं
तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् ।
अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १० ॥
ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११ ॥
तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं बभूव ।
सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२ ॥
सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुदृष्टं जगदंशरूपम्
तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३ ॥
जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया तथैव ।
तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४ ॥
एवं च सृष्ट्वा प्रकृतिस्वभावा त्तदन्तरे त्वं च विभासि नित्यम् ।
बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५ ॥
त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै ।
आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६ ॥
त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।
त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७ ॥
यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः ।
सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८ ॥
यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९ ॥
यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहकरश्च कामः ।
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २० ॥
यदाज्ञया वाति विभाति वायु: यदाज्ञयाऽग्निर्जठरादिसंस्थः ।
यदाज्ञया वै सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ २१ ॥
सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२ ॥
यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति ।
अतः प्रमाणेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३ ॥
गृत्सप्तद उवाच ◆
एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै ।
तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसम्युताः ॥ २४
स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै । जगाद तान्महाभागान्देवर्षीन्भक्तवत्सलः ॥ २५ ॥
एकदन्त उवाच
◆
प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल
शृणु त्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥
भवत्कृतं मदीयं वै स्तोत्रम् प्रीतिप्रदं मम | भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥२७ ॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्र पाठतः । पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ॥ २८
गजाश्वादिकमत्यन्तं राज्यभोगं लभेद्ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥२९ ॥
मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां शृण्वतां नृणां भवेच्च बन्धहीनता ॥३० ||
एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् ।
पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥३१ ॥
न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥३२ ॥
नित्यं यः पठते स्तोत्रम् ब्रह्मभूतः स वै नरः ।
तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३
एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः ।
ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥३४ ॥
इति श्री एकदन्तस्तोत्रम् सम्पूर्णम् ॥