Sri Gan Nayak Ashtakam श्री गणनायक अष्टकम् ◆
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥१॥
मौञ्जी कृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुशकलं मौलिं वन्देऽहं गणनायकम् ॥२॥
चित्ररत्नविचित्राङ्गचित्रमालाविभूषितम् ।
कामरूपधरं देवं वन्देऽहं गणनायकम् ॥ ३ ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥४॥
मूषकोत्तममारुह्य देवासुरमहाहवे ।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥५॥
यक्षकिन्नरगन्धर्वसिद्धविद्याधरैस्सदा ।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥६॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥७॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥८॥
गणाष्टकमिदं पुण्यं यः पठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥९॥
◆
इति श्री गणनायक अष्टकम् संपूर्णम् । ◆