Sri Parshvanath Mantradhiraj Stotram श्री पार्श्वनाथ मंत्राधिराज स्तोत्रम् ★
श्रीपार्श्व पातु वो नित्यं, जिनः परमशंकरः ।
नाथ: परमशक्तिश्च शरण्यः सर्वकामदः ॥ १ ॥
सर्वविघ्नहरः स्वामी, सर्वसिद्धिप्रदायकः ।
सर्वसत्त्वहितो योगी, श्रीकरः परमार्थदः ॥ २ ॥
देवदेवः स्वयंसिद्धश् चिदानन्दमयः शिवः ।
परमात्मा परब्रह्मा, परमः परमेश्वर: ॥ ३ ॥
जगन्नाथः सुरज्येष्ठो, भूतेशः पुरुषोत्तमः ।
सुरेन्द्रो नित्यधर्मश्च, श्रीनिवासः शुभारणव: ॥ ४ ॥
सर्वज्ञः सर्वदेवेशः, सबंद: सर्वज्ञोत्तमः ।
सर्वात्मा सर्वदर्शी च सर्वव्यापी जगद्गुरुः ॥ ५ ॥
तत्त्वमूर्तिः परादित्यः, परब्रह्मप्रकाशकः ।
परमेन्दुः परप्राणः, परमामृतसिद्धिदः ।। ६ ॥
अजः सनातनः शम्भु: ईश्वरश्च सदाशिवः ।
विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीश: शुभप्रदः॥ ७ ॥
साकारश्च निराकारः, सकलो निष्कलोऽव्ययः ।
निर्ममो निर्विकारश्च निर्विकल्पो निरामयः॥ ८ ॥
अमरश्चाजरोऽनन्त, अकोऽनन्तः शिवात्मकः ।
अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरंजनः ॥ ९ ॥
ॐ काराकृतिरव्यक्ती, व्यक्तरूपस्त्रयीमयः ।
ब्रह्मद्वयप्रकाशात्मा, निर्भयः परमाक्षरः ॥ १० ॥
दिव्यतेजोमयः शान्तः परामृतमयोऽच्युतः ।
आयोऽनाद्यः परेशानः परमेष्ठी परः पुमान् । ११ ।।
शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः ।
व्योमाकारस्वरूपश्च, लोकाऽलोकावभासकः ।। १२ ।।
ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः ।
मनःसाध्यो मनोध्येयो, मनोदृश्यः परापर: ।। १३ ।।
सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः ।
भगवान् सर्वतत्त्वेशः, शिवश्रीसौख्यदायकः ।। १४ ।।
इति श्री पार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः ।
दिव्यमष्टोत्तरं नाम-शतमत्र प्रकीर्तितम् ।। १५ ।।
पवित्रं परमं ध्येयं, परमानन्ददायकम् ।
मुक्तिभुक्तिप्रदं नित्यं पठते मंगलप्रदम् ॥ १६ ॥
श्रीमत्परमकल्याण सिद्धिदः श्रेयसेऽस्तु वः ।
पार्श्वनाथजनः श्रीमान्, भगवान् परमः शिवः ।। १७ ।।
धरणेन्द्रफणच्छत्रा- लंकृतो वः श्रियं प्रभुः ।
दद्यात्पद्मावतीदेव्या, समधिष्ठितशासन: ।। १८ ।।
ध्यायेत्कमलमध्यस्थं, श्रीपार्श्वजगदीश्वरम् ।
ॐ ह्रीं श्रीं ह्रः समायुक्तं, केवलज्ञानभास्करम् ॥ १९॥
पद्मावत्यान्वितं वामे, धरणेन्द्रोण दक्षिणे ।
परितोष्टदलस्थेन, मन्त्रराजेन संयुतम् ।। २० ।।
अष्टपत्रस्थितः पंच-नमस्कारस्तथा त्रिभिः ।
ज्ञानाद्यं वॅष्टितं नाथं, धर्मार्थकाममोक्षदम् ॥ २१ ।।
शतषोडशदलारूढ, विद्यादेवी भिरन्वितम् ।
चतुर्विंशतिपत्रस्थ, जिनं मातृसमावृतम् ॥ २२ ॥
मायावेष्ट्य त्रयाग्रस्थ, को कारसहितं प्रभुम् ।
नवग्रहावृत्त देवं दिक्पालैर्दशभिर्वृत्तम् ॥ २३ ॥
चतुष्कोणेषु मन्त्राढ्य -श्चतुर्बीजान्विर्तेजिनैः ।
चतुरष्टदशद्वीति–द्विघांकसंज्ञकैयुं तम् ।। २४ ।।
दिक्षु क्षकारयुक्तेन, विदिक्षु लांकितेन च ।
चतुरस्त्रेण वञ्चांक- क्षितितत्त्वे प्रतिष्ठितम् ॥ २५ ॥
श्री पार्श्वनाथमित्येवं यः समाराधयेज्जिनम् ।
तं सर्वपापनिमुक्तं भजते श्रीः शुभप्रदा ॥ २६ ॥
जिनेशः पूजितो भक्त्या, संस्तुतः प्रस्तुतोऽथवा ।
ध्यातस्त्वं यैः क्षणं वाऽपि, सिद्धिस्तेषां महोदया ॥ २७ ॥
श्रीपार्श्व मन्त्रराजान्ते, चिन्तामणिगुणास्पदम् ।
शान्तिपुष्टिकरं नित्यं, क्षुद्रोपद्रवनाशनम् ॥ २८ ॥
ऋद्धि-सिद्धि- महाबुद्धि-धृति श्री कान्ति कीर्त्तिदम् ।
मृत्युंजयम शिवात्मानम जपन्नानंदितो जना:॥ २९ ॥
सर्व कल्याण पूर्णस्य जरामृत्यु विवर्जित:।
अणी मादी महासिद्धिम लक्ष्य जापेन चापनुयात ॥ ३० ॥
प्राणायाम मनोमंत्र: योगादम मृतम आत्मनि।
त्वमात्मनम शिवम् ध्यत्वा स्वामिन सिद्धयनति जन्त:॥ ३१ ॥
हर्षद: कामदश्चेति रिपुद: सर्व सौख्यद:।
पातु वः परमानन्द- लक्षण: संस्मृतो जिनः ।। ३२ ।।
तत्त्वरूपमिदं स्तोत्रं, सर्वमंगलसिद्धिदम् ।
त्रिसन्ध्यं यः पठेन्नित्यं, नित्यं प्राप्नोति स श्रियम् ॥३३॥