Sudarshan Chakra Stotra सुदर्शन चक्र स्तोत्र ◆
रुद्र उवाच
सुदर्शनस्य पूजां मे वद शङ्खगदाधर ।
ग्रहरोगादिकं सर्वं यत्कृत्वा नाशमेति वै ॥ १॥
हरिरुवाच ।
सुदर्शनस्य चक्रस्य श्रृणु पूजां वृषध्वज ।
स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं ततः ॥ २॥
मूलमन्त्रेण वै न्यासं मूलमन्त्रं श्रृणुष्व च ।
सहस्रारं हुं फट् नमो मन्त्रः प्रणवपूर्वकः ॥ ३॥
कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः ।
ध्यायेत्सुदर्शनं देवं हृदि पद्मेऽमले शुभे ॥ ४॥
शङ्खचक्रगदापद्मधरं सौम्यं किरीटिनम् ।
आवाह्य मण्डले देवं पूर्वोक्तविधिना हर ॥ ५॥
पूजयेद्गन्धपुष्पाद्यैरुपचारैर्महेश्वर ।
पूजयित्वा जपेन्मन्त्रं शतमष्टोत्तरं नरः ॥ ६॥
एवं यः कुरुते रुद्र चक्रस्यार्चनमुत्तमम् ।
सर्वरोगविनिर्मुक्तो विष्णुलोकं समाप्नुयात् ॥ ७॥
अथ स्तोत्रम्
एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम् ।
नमः सुदर्शनायैव सहस्रादित्यवर्चसे ॥८॥
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे ।
सर्वदुष्टविनाशाय सर्वपातकमर्दिने ॥९॥
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने ।
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ॥१०॥
पालनार्थाय लोकानां दुष्टासुरविनाशिने ।
उग्राय चैव सौम्याय चण्डाय च नमो नमः॥११॥
नमश्र्चक्षुःस्वरुपाय संसारभयभेदिने ।
मायापञ्जरभेत्रे च शिवाय च नमोनमः॥१२॥
ग्रहातिग्रहरुपाय ग्रहाणां पतये नमः
कालाय मृत्यवे चैव भीमाय च नमोनमः ॥१३॥
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमो नमः ।
विष्णुरुपाय शान्ताय चायुधानां धराय च।
विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः ॥१४॥
इति स्तोत्रं महत्पुण्यं चक्रस्य तव कीर्तितम् ।
यः पठेत् परया भक्त्या विष्णुलोकं स गच्छति ॥१५॥
चक्रपूजाविधिं यश्र्च पठेद्रुद्र जितेन्द्रियः ।
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥१६॥ ◆
॥ इति श्रीगरुडपुराणे सुदर्शनचक्र स्तोत्रं संपूर्णम् ॥